73103: बहुवचने झल्येत्¶
Padacheda: बहुवचने | S | 7 | 1 |
झलि | S | 7 | 1 |
एत् | S | 1 | 1 |
Sutrartha¶
‘बहुवचनस्य झलादि सुप्-प्रत्यये परे’ अदन्तस्य अङ्गस्य एकारादेशः भवति ।
सुप्-प्रत्ययाः इत्युक्ते स्वौजसमौट्.. (4.1.2) सूत्रेण उक्ताः एकविंशतिः प्रत्ययाः । एते प्रत्ययाः प्रातिपदिकेभ्यः आगच्छन्ति । एतेषु बहुवचनस्य झलादि-सुप्-प्रत्ययाः एते - भिस्, भ्यस्, सुप् । एतेषु परेषु अदन्तस्य अङ्गस्य अन्तिमवर्णस्य एकारादेशः भवति । यथा - 1) राम + भ्यस् → रामेभ्यः । 2) राम + सुप् → रामेसु → [आदेशप्रत्यययोः (8.3.59) इति षत्वम् ] → रामेषु ।
Sutrartha (English)¶
The last letter of an अदन्त अङ्ग gets an एकारादेश when followed by a सुप्-प्रत्यय which begins with a झल letter and which represents बहुवचन.
Vasu English Summary¶
Before a case-ending beginning with भ् or स् (literally a consonant of the झल् प्रत्यहार) in the plural, ए is substituted for the final अ of Nominal-stem.
Vasu English Translation¶
Before a case-ending beginning with भ् or स् (literally a consonant of the झल् प्रत्यहार) in the plural, ए is substituted for the final अ of Nominal-stem. As वृक्षेभ्यः, प्लक्षेभ्यः, वृक्षेषु, प्लक्षेषु ॥ Why in the Plural? Observe वृक्षाभ्याम् प्लक्षाभ्याम् ॥ Why before a case-affix beginning with a झल् consonant? Observe वृक्षाणाम् (the lengthening here is by (6.4.3)). Why a case-affix? Observe यजध्वम्, पचध्वम् ॥
Bhashya¶
बहुवचने झल्येत् अतो दीर्घाद्बहुवचन एत्वं विप्रतिषेधेन अतो दीर्घाद्बहुचन एत्वं भवति विप्रतिषेधेन । अतो दीर्घो यञ्ञि सुपि चेत्यस्यावकाशः - वृक्षाभ्यां प्लक्षाभ्याम् । बहुवचने झल्येदित्यस्यावकाशो - वृक्षेषु प्लक्षेषु । इहोभयं प्राप्नोति - वृक्षेभ्यः प्लक्षेभ्यः । एत्वं भवति विप्रतिषेधेन ॥ ( बहुवचने ) ।
Kashika¶
बहुवचने झलादौ सुपि परतोऽकारान्तस्याङ्गस्य एकारादेशो भवति। वृक्षेभ्यः। प्लक्षेभ्यः। वृक्षेषु। प्लक्षेषु। बहुवचन इति किम् ? वृक्षाभ्याम् । प्लक्षाभ्याम्। झलीति किम्? वृक्षाणाम्। सुपीत्येव — यजध्वम्। पचध्वम् ॥
Siddhanta Kaumudi¶
झलादौ बहुवचने सुपि परेऽतोऽङ्गस्यैकारः स्यात् । रामेभ्यः । बहुवचने किम् । रामः । रामस्य । झलि किम् । रामाणाम् । सुपि किम् । पचध्वम् । जश्त्वम् ॥
Laghu Siddhanta Kaumudi¶
झलादौ बहुवचने सुप्यतोऽङ्गस्यैकारः। रामेभ्यः। सुपि किम्? पचध्वम्॥
Balamanorama¶
बहुवचने झल्येत् - भ्यसि न विभक्ताविति सस्य नेत्त्वम् । सुपि चेति दीर्घे प्राप्ते — बहुवचने झल्येत् ।अतो दीर्घो यञी॑त्यतःसुपि चे॑त्यतश्च ‘अत’ इतिसुपी॑ति चानुवर्तते ।झली॑त्यनेनसुपी॑ति विशेष्यते ।यस्मिन् विधि॑रिति तदादिविधिस्तदाह — झलादाविति । अतोऽङ्गस्येति । अदन्तस्याङ्गस्येत्यर्थः । एत्वे सति रुत्वविसर्गौ सिद्धवत्कृत्याह — रामेभ्य इति । राम इति । अयोगवाहानामकारोपरि शर्षु चोपसंख्यातत्वेन विसर्गस्य झल्त्वात्स्थानिवद्भावेन सुप्त्वाच्च तस्मिन् परत एत्वं प्राप्तं, रुत्वविसर्गयोरसिद्धत्वेऽपि राम — सिति दशायां झलादिसुप्परत्वात् । अतो बहुवचनग्रहणमित्यर्थः । रामस्येति । बहुवचनग्रहणस्य प्रयोजनान्तरम् । षष्ठएकवचनस्य ङसः स्यादेशे तस्य स्थानिवद्भावेन सुप्त्वात्स्वतो झलादित्वाच्च तस्मिन् परत एत्वे प्राप्ते तन्निवृत्त्यर्थं बहुवचनग्रहणमित्यर्थः । संनिपातपरिभाषा तुसर्वेषा॑मिति निर्देशादेत्वविधौ न प्रवर्तत इत्याहुः । झलि किमिति ।उतो वृद्धिर्लुकि हलीत्यतो हली॑त्यनुवर्त्त्य हलादौ बहुवचने सुपि एत्वमित्येव व्याख्यातु शक्यते । तावतैव ‘रामा’ इत्याद्यजादिबहुवचने एत्वनिरासादिति प्रश्नः । रामाणामिति ।हलादौ बह#उवचने सुपि एत्व॑मित्युक्तौ रामाणामित्यत्राप्येत्वं स्यात् । तन्निवृत्त्यर्थं झल्ग्रहणमित्यर्थः । यद्यप्यत्र संनिपातपरिभाषया ह्रस्वान्ताङ्गसंनिपातमुपजीव्य प्रवृत्त्स्य नुटस्तद्विघातकमेत्वं प्रति निमित्तत्वाऽसंभवादेव एत्वं न भविष्यति, तथापि झल्ग्रहणमेत्वे संनिपात परिभाषाया अप्रववृत्तिज्ञापनार्थम् । तेनहलि सर्वेषा॑मिति निर्देशात्सर्वशब्दे एत्वसिद्धावपि विओषामित्यादावेप्यत्वं भवति । पचध्वमिति । ध्वमो झलादिबहुवचनत्वेऽपि सुप्त्वाऽभावान्न तस्मिन् परत एत्वमित्यर्थः । नचबहुवचने झली॑गित्योवास्तु । कित्त्वादन्तावयवे आद्गुणे च ‘रामेभ्य’ इत्यादिसिद्धेरिति वाच्यम्, एवं सतिओसि चे॑त्युत्तरसूत्रेऽपि इगागमविधौ ज्ञानयोरित्यत्रइकोऽचि विभक्ता॑विति नुमापत्तेः । अथ पञ्चमीविभक्तिः । तत्रउपदेशेऽजनुनासिक इ॑दिति ङसेरिकार इत् । तस्य लोपः । ङकारस्तु लशक्विति इत् । तस्य लोपः । ङकारस्तु लशक्विति इत् । तस्य लोपः । तदुभयोच्चारणं तु ‘ङसिङ्योः’घेर्ङिती॑त्याद्यर्थम् ।टाङसिङसा॑मिति आत् । सवर्णदीर्घः । जश्त्वमिति । ‘झलां जशो ।ञन्ते’ इति नित्यतया जश्त्वं प्राप्तम् । तदपवादश्चर्त्वविकल्प आरभ्यत इत्यर्थः ।
Tattvabodhini¶
बहुवचने झल्येत् - रामः । रामस्येति । यद्यपि रामस्येत्यत्र संनिपातरिभाषयाप्येत्त्वं सुपरिहरम्, तथापिअदः सर्वेषा॑मिति निर्देशादेत्त्वविधौ संनिपातपरिभाषा न प्रवर्तत इत्याशयेनोक्तमिति स्थितस्य गतिः समर्थनीया ।
Padamanjari¶
वृक्षाणामिति ।’झलि’ इत्यनुच्यमानेऽग्नीनामित्यादौ सावकाशम्’नामि’ इति दीर्घत्वं बाधित्वेदमेत्वमकारान्तेषु स्यादिति भावः ॥
Nyaas¶
ननु च वृक्षाणामित्यत्र नामि (6.4.3) इति दीर्घत्वं बाधकं भविष्यति, तत्? किं तन्निवृत्त्यर्थेन झल्ग्रहणेन? नैतदस्ति; नामि (6.4.3) इति ह्रग्नीनामित्यत्र सावकाशम्, तत्रासति झल्ग्रहणे दीर्घत्वं बाधित्वा परत्वादेत्त्वमेव स्यात्। पचध्वम्, यजध्वम् इति। लोट्? टेरेत्त्वम्, सवाभ्यां वामौ (3.4.91) इत्यामादेशः॥
Prakriyasarvasvam¶
झलादौ बहुवचने सुपि परेऽत एत् स्यात् । कृष्णेभ्यः । ङसेरात् । सवर्णदीर्घः । कृष्णात् । कृष्णाभ्याम् । कृष्णेभ्यः ङसः स्यत्वम् । कृष्णस्य । कृष्ण ओस् ॥
Sarala¶
बहुवचने - सप्तम्यन्तं, झलि - सप्तम्यन्तम्, एत् - प्रथमान्तम् ॥
Sudha¶
बहुवचने इति । अतो दीर्घो यञि**(7.3.101) इत्यतोऽत इति **सुपि च**(7.3.102) इत्यतः सुपि इति चानुवर्तते । झलीत्यनेन सुपीति विशेष्यते । यस्मिन् विधिरिति तदादिविधिस्तदाह - **झलादाविति । रामेभ्य इति । रामशब्दात् चतुर्थीबहुवचन विवक्षायां भ्यसि प्रत्यये विहिते “राम भ्यस्” इति जाते, तत्र यञादित्वात्सुप्त्वाच्च सुपि च**(7.3.102) इत्यनेन दीर्घे प्राप्ते तम्बाधित्वा **बहुवचने झल्येत्**(7.3.103) इत्यनेन एकारे विहिते **अलोऽन्त्यस्य**(1.1.52) इत्यनेनान्त्यस्य मकारोत्तरवर्तिनोऽकारस्यैत्त्वे सस्य रुत्वे अनुबन्धलोपे रेफस्य विसर्गे च कृते “रामेभ्यः” इति रूपम् । **सुपि किमिति । **बहुवचने झल्येत्**(7.3.103) अस्मिन् सूत्रे पूर्वसूत्रतो यदि सुपीति नान्ववर्तिष्यत तदा पचध्वम् इत्यन्त्र झलादिबहुवचने ध्वमि परे अदन्ताङ्गस्य दीर्घोऽभविष्यत् । तन्माभूदिति सुपीत्यनुवर्तनमावश्यकम् ।