73101: अतो दीर्घो यञि¶
Padacheda: अतः | S | 6 | 1 |
दीर्घः | S | 1 | 1 |
यञि | S | 7 | 1 |
Sutrartha¶
यञादि-सार्वधातुके प्रत्यये परे अदन्तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति ।
तिङ्शित् सार्वधातुकम् (3.4.113) इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । एतादृशस्य सार्वधातुकप्रत्ययस्य प्रथमवर्णः यदि य् / व् / र् / ल् / ञ् / म् / ङ् / ण् / न् / झ् / भ् अस्ति, तर्हि अदन्तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति । यथा - पठ् धातोः लट्-लकारस्य उत्तमपुरुषैकवचनस्य रूपसिद्धौ ‘पठ् + शप् + मिप्’ इत्यत्र ‘मिप्’ अयम् मकारादि सार्वधातुकप्रत्ययः अस्ति । अतः अस्य उपस्थितौ अस्य प्रत्ययस्य यद् अङगम् - ‘पठ् + शप्’ ( = पठ् + अ) तस्य अन्तिमवर्णस्य दीर्घादेशः भवति । अतः ‘पठामि’ इति अन्तिमरूपम् जायते । तथैव पठावः, पठामः, अपठाव, अपठाम, पठिष्यामि आदिषु रूपेषु अपि दीर्घः अनेन सूत्रेण विधीयते ।
Sutrartha (English)¶
The last letter of an अदन्त अङ्ग becomes दीर्घ when followed by a यञादि सार्वधातुक प्रत्यय.
Vasu English Summary¶
The long आ is substituted for the final अ of a tense अङ्ग (stem) before a सार्वधातुक affix beginning with a व् or म् (literally a consonant of यञ् प्रत्यहार).
Vasu English Translation¶
The long आ is substituted for the final अ of a tense अङ्ग (stem) before a सार्वधातुक affix beginning with a व् or म् (literally a consonant of यञ् प्रत्यहार). As पचामि, पचावः, पचामः, पक्ष्यामि, पक्ष्यावः, पक्ष्यामः ॥ Why ‘for the अ only’? Observe चिनुवः, चिनुमः ॥ Why before a यञ् consonant (semivowels, nasals and झ and भ) only? Observe पचतः, पचथः ॥ Why a ‘Sarvadhatuka’? Observe अङ्गना, केशवः ॥ Some read the anuvritti of तिङ् into this sutra, from (7.3.88) so that the lengthening takes place only before Personal-endings. According to them before क्वसु there is no lengthening, as भववान् ॥
The word भववान् is thus formed. To भू is added क्वसु, then comes शप्, treating kvasu as a sarvadhatuka under (3.4.117); the reduplication of the root ending in शप् is prevented, because the word dhatu is used in (6.1.8) which ordains reduplication of a root only, and not of a root plus a vikarana like the form भव (भू + शप्) ॥ Those who do not read the anuvritti of तिङ् in this sutra, but only of the word सार्वधातुके, they explain the form भववान् as a Vedic anomaly.
Kashika¶
अकारान्तस्याङ्गस्य दीर्घो भवति यञादौ सार्वधातुके परतः। पचामि, पचावः, पचामः। पक्ष्यामि, पक्ष्यावः, पक्ष्यामः। अत इति किम् ? चिनुवः। चिनुमः। यञीति किम्? पचतः। पचथः। सार्वधातुक इत्येव — अङ्गना। केशवः। केचिदत्र तिङीत्यनुवर्तयन्ति, तेषां भववानिति क्वसौ सार्वधतातुके दीर्घो न भवति॥
Siddhanta Kaumudi¶
अतोऽङ्गस्य दीर्घः स्याद् यञादौ सार्वधातुके परे । भवामि । भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः । एहि मन्ये ओदनं भोक्ष्यसे इति भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये ओदनं भोक्ष्येथे । भोक्ष्यध्वे । भोक्ष्ये । भोक्ष्यावहे । भोक्ष्यामहे । मन्यसे । मन्येथे । मन्यध्वे । इत्यादिरर्थः । युष्मद्युपपदे (SK2162) इत्याद्यनुवर्तते । तेनेह न । एतु भवान्मन्यते ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिः । प्रहासे किम् । यथार्थकथने माभूत् । एहि मन्यसे ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिरित्यादि ॥
Laghu Siddhanta Kaumudi¶
अतोऽङ्गस्य दीर्घो यञादौ सार्वधातुके। भवामि। भवावः। भवामः। स भवति। तौ भवतः। ते भवन्ति। त्वं भवसि। युवां भवथः। यूयं भवथ। अहं भवामि। आवां भवावः। वयं भवामः॥
Balamanorama¶
अतो दीर्घो यञि - उत्तमपुरुषैकवचनेऽपि शपि गुणे अवादेशे भव-मि इति स्थिते -अतो दीर्घो यञि ।अङ्गस्ये॑त्यधिकृतमता विशेष्यते । तदन्तविधिः । ‘तुरुस्तुशम्यम’ इत्यतः सार्वधातुक इत्यनुवृत्तं यञा विशेष्यते । तदादिविधिः । तदाह — अदन्तस्येत्यादिना । भवामीति । न च भूधातोर्विहितलादेशं प्रति भूधातुरेवाऽङ्गं , न तु भवेति विकरणान्तमिति वाच्यं,यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्ग॑मित्यत्र तदादिग्रहणेन विकरणविशिष्टस्यापि अङ्गत्वात् । भवावः भवाम इति । लस्य वसि मसि च शपि गुणेऽवादेशे अतोदीर्घे रुत्वे विसर्गे च रूपे । ‘न विभक्ता’ विति सस्य नेत्त्वम् । अथ प्रथममध्यमोत्तमपुरुषव्यवस्थामुक्तां स्मारयितुमाह — स भवतीत्यादि ।अथ प्रहासे चे॑ति सूत्रस्योदाहरति — एहीति । सर्वेषु भुक्तवत्सु भोक्तुमागतं जामातरं प्रति परिहासाय प्रवृत्तमिदं वाक्यम् । भो जामातः ! एहि = आगच्छ, ‘ओदनं भोक्ष्ये’ इति त्वं मन्यसे, नैतद्युक्तमित्यर्थः । कुतैत्यत आह — भुक्तः सोऽतिथिभिरिति । स ओदनोऽतिथिभिर्भिक्षित इत्यर्थः । अत्र भुजेरुत्तमपुरुषे प्राप्ते मध्यमः पुरुषः । मन्येतस्तु मध्यमपुरुषे प्राप्ते उत्तमः पुरुषः । #एतम् एत चेति । हे जामातरौ ! आगच्छतम्, ‘ओदनं भोक्ष्यावह#ए’ इति मन्येथे इति, भो जामातरः ! ‘ओदनं भोक्ष्यामहे’ इति मन्यध्वे इति चार्थः । अत्रोभयत्रापि भुजेरुत्तमे प्राप्ते मध्यमः । मन्यतेस्तु मध्यमे प्राप्ते उत्तमः, द्वित्वबहुत्वयोरेकवचनं व्याचष्टे — मन्यस इत्यादिना । अनुवर्तत इति ।प्रहासे चेति सूत्रे॑ इति शेषः । एतु भवानिति । युष्मद्भवतोः पर्यायत्वाऽभावस्यानुपदमेवोक्तत्वादिति भावः । इति लट्प्रक्रिया ।
Tattvabodhini¶
अतो दीर्घो यञि - ॒तुरुस्तुशम्यमः॑ इति सूत्रात्सार्वधातुक इत्यनुवर्तते । सार्वधातुके किं । केशवः अङ्गना ।अत आ॑ इति वक्तव्ये दीर्घग्रहणं दीर्घ एव यता स्यादित्येवमर्थम् । अन्यथाऽपाक्षीरोदनं देवदत्त !, ननु पचामि बोरित्यत्रानन्त्यस्यापि प्रश्नाख्यानयोरिति प्लुतः स्यात् । केचित्तु — अत आ॑ दिति सुवचं, तपरकरणसामर्थ्याद्विकारनिवृत्तिर्भवेदिति प्लुतस्याऽप्रसङ्गात्, उदात्तस्थाने उदात्त आकारः, अनुदात्तस्थानेऽनुदात्त आकार इत्यादि तुस्थानेऽन्तरतमः॑ इत्यनेनैव सिद्धम् । अत एववृषाकप्यग्नी॑ति सूत्रे वृषाकपिशब्दो मध्योदात्त एक एवोदात्तत्वं प्रयोजयति, अग्न्यादिषु तुस्थानेऽन्तरतमः॑ इत्येव सिद्धमिति मनोरमादावुक्तम् । ततश्च प्रयोजनाऽभावात्तपरकरणमनणि विध्यर्थमिति नाशह्कनीयमेव । यदि तुहल्ङ्याब्भ्यः॑ इत्यत्र आ-आबितिवत्,अत आ॑ इत्यत्रापि आ-आ इति प्रश्लेषः क्रियते तदा तपरकरणं विनापीष्टसिद्धिरत्याहुः॥प्रहासे चे॑ति सूत्रस्योदाहरणमाह — एहि मन्ये इति ।ओदनं भोक्ष्ये॑ इति त्वं मन्यस इत्यर्थः॥ एतम् एत वेति ।एतं मन्ये ओदनं भोक्ष्येथे॑,एत मन्ये ओदनं भोक्ष्यध्वे॑ इत्यन्वयः । भोक्ष्यावहे इति युवां मन्येथे, भोक्ष्यामह इति यूयं मन्यध्वे इति क्रमेणार्थः॥
Padamanjari¶
केचिदत्र तिङ्त्यिनुवर्तयन्तीति ।’भूसुवोस्तिङ्’ इत्यितः । भववानिति । भवतेः क्वसुः, तस्य’च्छन्दस्युभयथा’ इति सार्वधातुकत्वाच्छप्,’लिटि धातो’ इत्यत्र धातुग्रहणाच्छबन्तस्य द्विर्वचनाभावः । ये तु’सार्वधातुके’ इत्येवानुवर्तयन्ति, तेषां छान्दसत्वाद्दीर्घाभावः । अथ प्रकृतोऽडागम एव कस्मान्न विधीयते - ठतो यञिऽ इति, अकारान्तादङ्गादुतरस्य यञादेस्तिङेऽडागमो भवति, पच अवस्, सवर्णदीर्गत्वे पचाव इति सिद्धण्, विधानसामर्थ्याच्च ठतो गुणेऽ इति पररूपत्वं न भविष्यति ? नैवं शक्यम्; इह ह्यधुक्षावहि, अधुक्षामहीति’क्सस्याचि’ इति लोपः प्रसज्येत । इह चातिजराभ्यामिति जरस्भावः । एवमपि दीर्घग्रहणमनर्थकम्, आदित्याकार एव विधेयः ? इह तर्हि प्रयोजनम् - अपाक्षी रोदनं देव दतः । ननु पचामि भोरित्यत्रापि ठनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति प्लुतः प्राप्नोति ? स मा भूद्दीर्घ एव यथा स्यादिति दीर्घग्रहणम् । अत इति तपरकरणमुतरार्थम्,’बहुवचने झल्येत्’ इत्येत्वं खट्वाभिरित्यत्र मा भूत् ॥
Nyaas¶
तपरकरणमुत्तरार्थम्। खट्वाभिरित्यत्र बहुवचने झल्येत् (7.3.103) इत्येत्त्वं मा भूदित्येवमर्थम्। अङ्गना इति। प्रशस्तान्यङ्गान्यस्याः सन्तीति लोमादिना (5.2.99) नप्रत्ययः। केशवः इति। केशा यस्य सन्तीति केशाद्वोऽन्यतरस्याम् (5.2.109) इति वप्रत्ययः। केचिदत्र तिङीत्यनुवर्तयन्ति इति। भूसुवोस्तिङि (7.3.88) इत्यतः। तेषां भववानिति क्वसौ सार्वधातुके दीर्घत्वेन न भवितव्यमिति; क्वसोरतिङन्तत्वात्। भगवान् इति। भवतेर्लिट्, कवसुः, छन्दस्युभयथा (6.4.86) इति तस्य पक्षे सार्वधातुकत्वम्, तेन कर्तरि शप् (3.1.68) भवति, सान्तमहतः संयोगस्य (6.4.10) इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ (6.1.70; 8.2.23)। आदिति वक्तव्ये दीर्घग्रहणम् - दीर्घ एव यथा स्यात्, यदन्यत्? प्राप्नोति, तन्मा भूदिति। किञ्चान्यत्? प्राप्नोति? विचार्यमाणानाम् (8.2.97) , अनन्तरस्याप्येकैकस्य प्राचाम् प्रश्नाख्यानयोः (8.2.105) इति प्लुतः। अथ प्रकृतोऽजागमः कस्मान्न विधीयते? तत्राप्यकः सवर्णे दीर्घत्वेन (6.1.97) वहीति क्सस्याचि (7.3.72) इति लोपः स्यात्, अतिजराभ्यामित्यत्राचीति जरस्भावः स्यात्; तन्निवृत्त्यर्थ दीर्घग्रहमं कृतम्। स चात्र प्लुतः प्रसज्येत॥
Prakriyasarvasvam¶
यञादौ तिङि परेऽदन्तस्याङ्गस्य दीर्घः स्यात् । भवामि । वस्–भवावः । मस्–भवामः । स भवति, त्वं भवसि, अहं भवामीति योज्यम् । चार्थयोगे पुरुषाणां परो भवतीति शृङ्गारे । सः त्वं च भवथः । सः त्वं चाहं च भवामः । चार्थाभावे तु प्रथम एव । स वा त्वं वाहं वा भवेयुः । तङि तु–प्रथमपुरुषैकवचनं त । भू त ।
Sutra Prayogas¶
अतराम (भट्टिकाव्यम्): अतो दीर्घो यनि इति दीर्घः।