73099: अड्गार्ग्यगालवयोः

Padacheda: अट् | S | 1 | 1 |

गार्ग्यगालवयोः | S | 6 | 2 |

Sutrartha

रुद्, स्वप् , श्वस्, प्रण्, जक्ष् - एतेभ्यः अङ्गात् परस्य सार्वधातुक-पित्-अपृक्त-हल्-प्रत्ययस्य गार्ग्य-गालवयोः मतेन अट्-आगमः भवति ।

गार्ग्यः तथा गालवः एतौ द्वौ पाणिनेः प्राचीनौ वैयाकरणौ । एतयोः मतेन रुद्, स्वप् , श्वस्, प्रण्, जक्ष् - एतेभ्यः अङ्गात् परस्य सार्वधातुक-पित्-अपृक्त-हल्-प्रत्ययस्य अट्-आगमः भवति । रुदश्च पञ्चभ्यः (7.3.98) इत्यनेन एतेभ्यः धातुभ्यः परस्य सार्वधातुक-पित्-अपृक्त-हल्-प्रत्ययस्य वस्तुतः ईट्-आगमः विधीयते । परन्तु गार्ग्यमुनेः मतेन गालवमुनेश्च मतेन अत्र ईट्-आगमः न भवति, अट्-आगमः भवति । अस्य अर्थः ‘विकल्पेन’ ईडागमस्य स्थाने अडागमः भवति । यथा - रुद् इत्यस्य लङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया - रुद् + लङ् [अनद्यतने लङ् (3.2.111) इति लङ्] → अट् + रुद् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + रुद् + तिप् [तिप्तस्झि… (3.4.78) इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः] → अ + रुद् + शप् + ति [ कर्तरि शप् (3.1.68) इति औत्सर्गिकम् विकरणम् शप्] → अ + रुद् + ति [अदिप्रभृतिभ्यः शपः (2.4.72) इति शप्-प्रत्ययस्य लुक् ।] → अ + रोद् + ति [पुगन्तलघूपधस्य च (7.3.86) इति उपधागुणः] → अ + रोद् + त् [इतश्च (3.4.100) इति इकारलोपः] → अ + रोद् + अट् + त् [अड्गार्ग्यगालवयोः (7.3.99) इति विकल्पेन अडागमः] → अरोदत् [वर्णमेलनम्] एवमेव अस्वपत्, अश्वसत्, प्राणत्, अजक्षत् एतानि रूपाणि भवन्ति । अडागमस्य अभावे रुदश्च पञ्चभ्यः (7.3.98) इत्यनेन ईडागमे कृते अस्वपीत्, अश्वसीत् आदीनि रूपाणि सिद्ध्यन्ति । ज्ञातव्यम् - अस्मिन् सूत्रे गार्ग्यमुनेः गालवमुनेः च नाम पूजार्थम् स्वीकृतमस्ति । ‘केवलं गार्ग्यगालवमतेन अडागमः भवति, पाणिनेः मतेन न’ - इति अस्य अर्थः न । पाणिनेः मतेन अप्यत्र विकल्पेन अडागमः भवति ।

Sutrartha (English)

A सार्वधातुक-पित्-अपृक्त-हल्-प्रत्यय that follows the verbs रुद्, स्वप् , श्वस्, प्रण्, जक्ष् optionally gets an अट् आगम.

Vasu English Summary

According to the opinion of गार्ग्य and गालाव , the augment अट् comes before a सार्वधातुक affix consisting of single consonant, after the above five roots रुद् etc.

Vasu English Translation

According to the opinion of गार्ग्य and गालाव , the augment अट् comes before a सार्वधातुक affix consisting of single consonant, after the above five roots रुद् etc. As अरोदत्, अरोदः, अस्वपत्, अस्वपः, अश्वसत् अश्वसः, प्राणत् प्राणः, अजक्षत्, अजक्षः ॥ The names of Gargya and Galava are mentioned for honoris causa. The mention of these names is not for the sake of “option” (विकल्पार्थम्). Because the very injunction about अट्, would make the ईट् of the preceding sutra optional. The mention of more than one Acharya in the sutra is also for this very reason.

Kashika

रुदादिभ्यः, पञ्चभ्यः परस्यापृक्तस्य सार्वधातुकस्याडागमो भवति गार्ग्यगालवयोर्मतेन। अरोदत्। अरोदः। अस्वपत्। अस्वपः। अश्वसत्। अश्वसः। प्राणत्। प्राणः। अजक्षत्। अजक्षः। गार्ग्यगालवयोर्ग्रहणं पूजार्धम्।

Siddhanta Kaumudi

अरोदीत्-अरोदत् । अरूदिताम् । अरुदन् । अरोदीः-अरोदः । प्रकृतिप्रत्ययविशेषापेक्षाभ्याममडीड्भ्यामन्तरङ्गत्वाद्यासुट् । रुद्यात् । अरुदत् । अरोदीत् ।{$ {!1068 ञिष्वप्!} शये$} । स्वपिति । स्वपितः । सुष्वाप । सुषुपतुः । सुषुपुः । सुष्वपिथ-सुष्वप्थ ॥

Balamanorama

अड्गार्ग्यगालवयोः - अड्गाग्र्यगालयवयोः । अनयोर्मते रुदादिभ्यः पञ्चभ्यः परस्य हलादेः पितः सार्वधातुकस्य अपृक्तस्य अडागमः स्यादिति स्पष्टोऽर्थः । अरोदीरिति.अरुदितमरुदितेत्यपि ज्ञेयम् । अरोदमिति । अरुदिव अरुदिम इत्यपि ज्ञेयम् । ननु लिङस्तिपि यासुटंबाधित्वा परत्वात्अड्गाग्र्यगालवयो॑रिति, ‘रुदश्च पञ्चभ्यः’ इति च अडीटौ स्यातामित्यत आह — प्रकृतिप्रत्ययेति । हलादिपित्सार्वधातुकाऽपृक्ताऽपेक्ष्टवाच्चेत्यपि ज्ञेयम् । लुङिइरितो॑वेत्यङ्पक्षे आह — अरुदिदिति । अङभावपक्षे त्वाह — अरोदीदिति । ‘अस्तिसिचः’ इति ईट् । ‘रुदश्च पञ्चभ्य’ इति तु नेह प्रवर्तते, सिचा व्यवहितत्वात् । ञि ष्वप् शये इति । षोपदेशोऽयम् । आर्धधातुके अनिट् । स्वपितीति । ‘रुदादिभ्यः’ इति इट् । स्वपित इति । स्वपन्ति । स्वपिषि स्वपिथः स्वपिथ । स्वपिमि स्वपिवः स्वपिमः । सुष्वापेति । द्वित्वेलिटभ्यासस्ये॑ति संप्रसारणे पूर्वरूपे आदेशसकारत्वात् षत्वमिति भावः । सुषुपतुरिति ।वचिस्वपी॑ति संप्रसारणे कृते द्वित्वादीति भावः । सुषुपुरित्यपि ज्ञेयम् । सुष्वपिथ सुष्वप्थेति । भारद्वाजनियमात्थलि वेडिति भावः । सुषुपथुः सुषुप । सुष्वाप — सुष्वप सुषुपिव सुषुपिम । सुविनिर्दुभ्र्यः । कृतस#ंप्रसारणस्य स्वप्धातोः सुपीत्यनेन ग्रहणम् । सूतीत्यनेन सूतिशब्दः कृदन्तो गृह्रते । समेत्यनेनाऽपि समशब्दस्य ग्रहणम् । षष्ठर्थे प्रथमा । ‘सहेः साडः स’ इत्यत स इति षष्ठन्तमनुवर्तते । मूर्धन्य इत्यधिकृतम् । तदाह -एभ्यः सुप्यादेरिति । सुषुप्तिः, सुषूतिः, सुषम इत्युदाहरणानि । अत्र कृतसंप्रसारमस्य स्वप्धातोग्र्रहमात्सुखप्र इत्यत्र न षत्वमिति भाष्यम् । नन्वेषं सति सुषुषुपतुरित्यत्र सुपूर्वस्य स्वपधातोः कथं षत्वम् । कृतसंप्रसारमस्य हि स्वपधातोः षत्वम् । तत्र यदि स्वप् अतुस् इति स्थिते पूर्वं द्वित्वे कृते पश्चात्वचिस्वपी॑ति संप्रासरणं तदा हलादिशेषे उत्तरखण्डस्यैववचिस्वपी॑ति संप्रसारणं, न त्वभ्यासस्य । अतुसः कित उत्तरखण्डव्यवहितत्वात्,न संप्रसारमए संप्रसारण॑मिति निषेधाच्च । ततश्च सु ससुप् अतुसित्यत्र पूर्वखण्डस्य कृतसंप्रसारणत्वाऽभावात् कथं षत्वम् । उत्तरखण्डस्य च सु इत्युपसर्गादव्यवहितपरत्वाऽभावात्कथमनेन षत्वम्, इण्कवर्गाभ्यां इत्यस्य द्वित्वप्रवृत्तेः प्रागेव षत्वमिति वक्तव्यम् । तत्तु न युज्यते ।पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणे॑ति परिभाषया सु इत्युपसर्गसंबन्धस्य द्वित्वात्प्रागप्रवृत्तेः । तथा च कृतसंप्रसारणस्य अकृतषत्वस्य सुप् इत्यस्य द्वित्वे उत्तरखण्डस्यैवआदेशप्रत्ययो॑रिति षत्वं स्यान्नतु पूर्वखण्डस्य,सात्पदाद्यो॑रिति निषेधात् । कृते हलादिशेषे सु इति पूर्वखण्डस्य सुब्राऊपत्वाऽभावेन ‘सुविनिर्दुभ्र्यः’ इत्यस्याऽप्यप्रवृत्तिः । न च एकदेशविकृतस्याननयत्वं शङ्क्यम्, एवमप्यभ्यासस्यानर्थकत्वेन अर्थवद्ग्रहमपरिभाषया षत्वस्य तत्राऽप्राप्तेः । तस्मादिह सुषुषुपतुरित्यत्र पूर्वखण्डे षत्वं दुरुपपादमित्याशङ्क्याह — पूर्वं धातुरित्यादिना । लक्ष्यानुरोधादिहपूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेने॑त्याश्रीयते । ततश्च द्वित्वात्परागेव परत्वात्संप्रसारणे सति सुप् इत्यस्य सु इत्युपसर्गपूर्वकत्वमादाय षत्वे च कृते सति पुनः प्रसङ्गविज्ञानात् षुबित्यस्य कृतषत्वस्य कतं द्वित्वं , द्वित्वे कत्र्वये षत्वस्याऽसिद्धत्वादित्यत आह — पूर्वत्रासिद्धीयमिति । ननु तर्हि सुसुष्वापेत्यत्रापि पूर्वखण्डे ष्टवं श्रूयेतेत्यत आह — पिति त्विति । पिति णलि कित्त्वाऽभावात्वचिस्वपी॑त्यस्याऽप्रवृत्तौ कृते द्वित्वेलिच्यभ्यासस्ये॑ति पूर्वखण्डस्य संप्रसारणम् । सु सुप् स्वप् अ इति स्थिते ‘सुविनिर्दुर्भ्यःर’ इति षत्वस्याऽसिद्धत्वात् हलादिशेष इत्यर्थः । नित्यत्वाच्चेति । कृते अकृते च षत्वे हलादिशेषस्य प्राप्तेरिति भावः । तत इति । हलादिभावान्न ष इति द्रष्टव्यम् । स्वप्ता । स्वप्स्यति । स्वपितु-स्वपितात् स्वपिताम् स्वपन्तु । स्वपिहि-स्वपितात् स्वपितम् स्वपित । स्वपानि स्वपाव स्वपाम । लडआह — सुप्यादिति ।वचिस्वपी॑ति संप्रसारणमिति भावः । ‘सुविनिर्दुभ्यः’ इति षत्वं मत्वाह — सुषुप्यादिति । असवाप्सीदिति । अनिट्कत्वान्न सिज्लोप इति भावः । आस प्राणने इति । वलाद्यार्धधातुके सेडयम् । सार्वधातुके तु वलादौ ‘रुदादिभ्यः’ इति इट् । लङस्तिपिरुदश्चे॑ति ईटम्,अड्गार्ग्ये॑त्यटं च मत्वा आह — अआसीत् अआसदिति । विध्याशीर्लिङो आस्यादिति सिद्धवत्कृत्य आह — आस्याताम् । आस्यास्तामिति । अन चेति । अनधातुरपि प्राणने वर्तते इत्यर्थः । सेडयम् । सार्वधातुकेऽपि वलादौ ‘रुदादिभ्यः’ इति इट् । लङि ईडटौ मत्वा आह — आनीत् आनदिति ।

Tattvabodhini

अड्गार्ग्यगालवयोः - प्रकृतिप्रत्ययेत्यादि । हलादिपित्सार्वधातुकाऽपृक्ताऽपेक्षत्वाच्च बहिरङ्गत्वमडीटोः । अरुदिति ।इरितो वे॑त्यङ् । अरोदीदिति ।अस्तिसिच॑ इति ईट् ।रुदश्चे॑ त्यनेन तु न, सिचा व्यवधानेन रुदादेः परत्वाऽभावात् । सुषुपतुरिति ।वचिस्वपी॑ति संप्रसारणम् । ततो द्वित्वम् ।

Padamanjari

गाग्यगालवयोर्ग्रहणं पूजार्थमिति । न विकल्पार्थम्; विधानसामर्थ्यादेवाडीटोर्विकल्पस्य सिद्धत्वात् । अनेकाचार्यग्रहणमप्यत एव ॥

Nyaas

पूर्वेणेटि प्राप्तेऽडागमो विधीयते। गाग्र्यगालवग्रहणं पूजार्थम्, न तु विकल्पार्थम्। अडीटोरादिलिङ्गत्वादेकविषयत्वाच्च न सम्भवति; समुच्चय इत्यन्तरेणाप्याचार्यग्रहणं विकल्पस्य सिद्धत्वात्॥

Prakriyasarvasvam

तयोर्मत उक्तस्थानेऽट् स्यात् । अरोदत् । अरुदिताम् । अरुदन् । अरोदीः । अरोदः । अरुदितम् । अरोदम् । अरुदिव । लुङि इरित्त्वाच्चाङ् । अरुदत्, अरुदताम्, अरोदीत्, अरोदिष्टाम् । रुरोद । रुरुदतुः । रुरोदिथ । रुरुदिव । रुद्यात् । रोदिता । रोदिष्यति । ‘प्रियां रोदिति’ इत्यादि सकर्मकमाह भट्टिः । अरोदि । अरोदि- षाताम् । इत्यादि । या प्रापणे । याति । यातः । यान्ति । यासि । यामि । कर्मणि यायते । यायात् । यायाताम् । यायुः इत्यस्य प्रयोगो ²नेति केचित् । यातु । याहि । यानि । याव । अयात् । अयाताम् ।

Sutra Prayogas

  • समाश्वसत् (कुमारसम्भवम्): अड्गार्ग्यगालवयोः इति विकल्पादडागमः।

  • अरोदन् (भट्टिकाव्यम्): अड् गार्ग्य-गालवयोः इत्यडागमः।