73086: पुगन्तलघूपधस्य च

Padacheda: पुगन्तलघूपधस्य | S | 6 | 1 |

च | S | 0 | 0 |

Sutrartha

सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य तथा लघूपधस्य अङ्गस्य गुणादेशः भवति ।

यस्य अन्ते पुक्-आगमः कृतः अस्ति, तथा च यस्य उपधायाम् लघु-वर्णः अस्ति, तादृशस्य अङ्गस्य गुणः भवति । इको गुणवृद्धी (1.1.3) अनया परिभाषया अयम् गुणादेशः इक्-वर्णस्य भवति । उदाहरणानि पश्यामः - 1) अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (7.3.36) अनेन सूत्रेण अर्ति, ह्री, व्ली, री, क्नूयी, क्ष्मायी - इत्येतेषामङ्गानाम् तथा आकारान्त-अङ्गानाम् णिच्-प्रत्यये परे पुक्-आगमः भवति । यथा, व्ली-धातोः णिच्-प्रत्यये परे आतिदेशिकः धातुः एतादृशम् सिद्ध्यति - व्ली + णिच् [हेतुमति च (3.1.26) इति णिच् ] → व्ली पुक् इ [ अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (7.3.86) इति व्ली-धातोः पुक्-आगमः । आद्यन्तौ टकितौ (1.1.46) इति अन्त्यागमः । → व्ली प् इ [ककारस्य इत्संज्ञा, लोपः । उकारः उच्चारणार्थः अस्ति, अतः तस्यापि लोपः भवति ।] → व्लेपि [णिच्-इति आर्धधातुकप्रत्ययः । अतः अस्मिन् प्रत्यये परे पुगन्तस्य अङ्गस्य इक्-वर्णस्य पुगन्तलघूपधस्य च (7.3.86) इति गुणः भवति] 2) लिख्-धातोः तुमुन्-प्रत्ययान्तरूपम् - लिख् + तुम् [तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (3.3.10) इति तुमुन्] → लिख् + इट् + तुम् [आर्धधातुकस्य इड्वलादेः (7.2.35) इति इडागमः] → लेख् + इट् + तुम् [पुगन्तलघूपधस्य च (7.3.86) इत्यनेन ‘इट्’ इति आर्धधातुके प्रत्यये परे लघूपध-अङ्गस्य इक्-वर्णस्य गुणः] → लेखितुम् 3) गृज्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - गृज् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → गृज् + तिप् [तिप्तस्.. (3.4.78) इति तिप्] → गृज् + शप् + तिप् [कर्तरि शप् (3.1.68) इति शप्] → गर्ज् + अ + ति [शप्-इत्यस्मिन् सार्वधातुके प्रत्यये परे ‘गृज्’ इति लघूपध-अङ्गस्य इक्-वर्णस्य गुणः । ऋकारस्य गुणः उरण् रपरः (1.1.51) इति रपरः अकारः । ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘अङ्गस्य गुणः’ इति उक्तमस्ति । अतः वस्तुतः अलोऽन्त्यस्य (1.1.52) इत्यनेन अङ्गस्य अन्तिमवर्णस्यैव गुणादेशः भवेत् । परन्तु पुगन्त-अङ्गस्य अन्तिमवर्णः पकारः एव भवेत्, तथा लघु-उपधस्य अङ्गस्य अन्तिमवर्णः अपि हल्-एव भवेत् - वचनसामर्थ्यात् । अतः एतयोः विषये उपधा-इक्-वर्णस्यैव गुणः भवति । 2. उपधा-वर्णः गुरुसंज्ञकः अस्ति चेत् अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - ‘कूज्’ धातोः उपधावर्णः दीर्घं च (1.4.12) इत्यनेन गुरुसंज्ञकः अस्ति, अतः अस्य धातोः गुणादेशः न प्रवर्तते। यथा - कूज् + तुम् → कूजितुम् । 3. यदि उपधायाम् इक्-वर्णः नास्ति चेत् अस्य सूत्रस्य प्रयोगः न भवति । यथा - ‘पठ्’ इत्यत्रापि उपधावर्णः लघुसंज्ञकः अस्ति । परन्तु अत्र उपधायाम् इक्-वर्णः नास्ति, अतः अत्र पुगन्तलघूपधस्य च (7.3.86) इत्यस्य प्रसक्तिः नास्ति । 4. अङ्गस्य उपधाभूतस्य इडागमस्य अनेन सूत्रेण गुणे प्राप्ते दीधीवेवीटाम् (1.1.6) इत्यनेन निषिध्यते, अतः इडागमस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।

Sutrartha (English)

When followed by a सार्वधातुक or an आर्धधातुक प्रत्यय, a पुगन्त अङ्ग and a लघूपध अङ्ग get a गुणादेश.

Vasu English Summary

गुण is substituted before a सार्वधातुक and an आर्धधातुक affix for the इक् vowels of the Causative अङ्ग (stems) which take the augment प् – अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (7.3.36), and for the short penultimate vowel of a root which ends in a single consonant.

Vasu English Translation

गुण is substituted before a सार्वधातुक and an आर्धधातुक affix for the इक् vowels of the Causative अङ्ग (stems) which take the augment प् – अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (7.3.36), and for the short penultimate vowel of a root which ends in a single consonant. Karika:-

संयोगे गुरुसंज्ञायां गुणो भेत्तुर्न सिध्यति । विध्यपेक्षं लघोश्चासौ कथं कुण्डिर्न दुष्यति ॥ धातोर्हिनुम कथं रञ्जे, स्यदिश्रथ्योर्निपातनात् । अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः ॥ अभ्यस्तस्य यदाहाचि लङर्थं तत्कृतं भवेत् । क्नुसनो यत्कृतं कित्त्वं ज्ञापकं स्याल्लघोर्गुणे ॥

As व्लेपयति, ह्रेपयति, क्रोपयति, भेदनम्, छेदनम्, भेत्ता, छेत्ता ॥ Of course the vowel should be laghu or light, before the addition of the affix; the heaviness caused by the addition of the affix, will not prevent. Thus भिद् + तृ, though द् + तृ = त्तृ causes the इ to become heavy, that will not prevent guna: for विध्यपेक्षं लघुग्रहणम् ॥ Objection : If this be so, why the forms कुण्डितृ, हुण्डितृ are not incorrect, for in them also the vowel is laghu (the roots are कुड् and हुड्), and the augment म् is added afterwards by a Vidhi rule? Answer: The augment म् is added to the root, and becomes upadesivat. (See (7.1.58)). Objection: If so, how do you cause Vriddhi in रञ्ज्, as in रागः with घञ्; as रञ्ज् + घञ् = रज् + घञ् (the ञ् being dropped by (6.4.27)), for it is after the elision of ञ्, that the of रज् becomes penultimate and can admit of Vriddhi by (7.2.116)? Answer: The exceptional forms स्यदः from स्यन्द् + घञ्, and श्रथः from श्रन्थ + घञ्, taught in (Vl. 4.28); (6.4.29) teach by implication that roots of this form take Vriddhi as a general rule. Objection: If the विध्यपेक्ष maxim is not of universal application: though by (6.4.134), the अ of अन् &c. is elided in bha stems, like राजन् thus राज्ञा; yet the अ shoud not be elided if you be consistent, in आनङ् augment added by (7.1.75) to दधि, अस्थि &c. In fact, you could not get the forms दध्ना सक्थ्ना &c. Moreover though there can be the lengthening of the penultimate in सामन् = सामानि (before शि affix Nominative Plural), yet not in the case of कुण्डानि from कुण्ड for here न् is added by another rule (7.1.72). If you say, the maxim is not of universal application, then there can be no guna of इ in भिद् to form भेत्तृ ॥ Answer: The guna takes place in forms like भेत्तृ &c, because the prohibition of the following rule (7.3.87), with regard to the affixes beginning with a vowel, proves by implication that before affixes beginning with a consonant, as तृ, the guna also takes place. Objection: The prohibition in the case of vowel beginning affixes is for the sake of लङ्, to form अनेनेक् ॥ This is derived from निजिर् (Juhotyadi 11), in the Imperfect, as अ + निज् + शप्श्लु + तिप् then reduplication (6.1.10), then guna of the reduplicate, (7.4.75), then तिप् which had become त in the Imperfect, is elided by (6.1.68). Thus अनिज् + श्लु + त् = अ + निनिज् + त् (6.1.10) = अ नेनिज् + त् (7.4.75) = अ नेनिज् (6.1.98) = अननक्. The elided त् produces its effect, the guna by (7.3.86). This is why अच् is taken in sutra (7.3.87), namely अजादि affixes do not cause guna, the हलादि affixes like त् cause guna. You cannot therefore say that अचि in (7.3.87) is a jnapaka. Answer: The sutra त्रसिगृधिधृषिक्षिपेः क्नुः (3.2.140) teaches the addition of नु to त्रस् &c, as गृध्नुः; if this नु had not tended to cause the guna of the penultimate vowels of these roots, what was the necessity of making this affix a कित्? Similarly (1.2.10) teaches that सन् (Desiderative) is कित् after roots ending in consonants. These rules show that words like भत &c get guna, and the final consonant of the root plus the initial consonant of the affix, does not make the root vowel heavy. Objection: The कित् of सन् is for the sake of the elision of the nasal, in धिप्सति, धाप्सति (6.4.24). Answer: Let it be so: still the कित् of क्नु is enough for us.

The “upadha short” must be the vowels of the इक् pratyahara. Therefore in भिनत्ति, the penultimate is short अ (of श्नम्) and it does not take guna. In fact, the word penultimate qualifies the word इक् understood. Others explain it by saying that पुगन्त is to be analysed by पुकि अन्त “in the vicinity of प्” ॥ The word अन्त means समीप, and means the इक् vowel in the proximity of पुक् ॥ The word लघूपधा should be analysed as लघ्वी उपधा and is a Karmadharaya compound, and means “a short or light penultimate”. The word पुगन्तलघूपध is a Samahara Dvandva.

Bhashya

पुगन्तलघूपधस्य च संयोगे गुरुसंज्ञायां गुणो भेत्तुर्न सिध्यति संयोगे गुरुसंज्ञायां भेत्ता भेत्तुमिति गुणो न प्राप्नोति । विध्यपेक्षं(1) लघोश्चासौ विध्यपेक्षं लघुग्रहणं कृतं, लघोश्चाऽसौ विहितः । कथं कुण्डिर्न दुष्यति ? कुण्डिता हुण्डिता, - अत्र कस्मान्न भवति ? धातोर्नुम्विधावुक्तं, तत्र धातुग्रहणस्य प्रयोजनं धातूपदेशावस्थायामेव नुम्भवतीति । कथं रञ्ञ्जेः(2) कथं रञ्ञ्जेरुपधालक्षणा वृद्धिः(3) ? - आश्चार्यो रागः विचित्रो रागः स्यन्दिश्रन्थ्योर्निपातनात् यदयं स्यन्दिश्रन्थ्योरवृध्द्यर्थं निपातनं करोति तज्ज्ञापयत्या चार्यो - भवत्येवञ्ञ्जातीयकानां वृद्धिरिति ॥ अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः अनङ्लोपः(4) - दन्धा सक्थ्ना । शिदीर्घत्वं(4) - कुण्डानि वनानि ॥ एवं तर्हि - अभ्यस्तस्य(1) यदाऽहाचि यदयं नाऽभ्यस्तस्याचि पिति सार्वधातुक इत्यज्ग्रहणं करोति तज्ज्ञापयत्याचार्यो - भवत्येवंजातीयकानां गुण इति लङर्थं तत्कृतं भवेत् लङर्थमेतत्स्यात् - अनेनेक् क्नुसनोर्यत्कृतं कित्त्वं ज्ञापकं स्याल्लघोर्गुणे यदयं त्रसिगृधिधृषिक्षिपेः क्नुः इको झल् हलन्ताच्चेति क्नुसनौ कितौ करोति तज्ज्ञापयत्याचार्यो - भवत्येवंजातीयकानां गुण इति ॥ संयोगे गुरुसंज्ञायां गुणो भेत्तुर्न सिध्यति । विध्यपेक्षं लघोश्चासौ कथं कुण्डिर्न दुष्यति ॥ 1 ॥ धातोर्नुमः कथं रञ्ञ्जेः स्यन्दिश्रन्थ्योर्निपातनात् । अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः ॥ 2 ॥ अभ्यस्तस्य यदाऽहाचि लङर्थं तत्कृतं भवेत् । क्नुसनोर्यत्कृतं कित्त्वं ज्ञापकं स्याल्लघोर्गुणे ॥3 ॥

Kashika

पुगन्तस्याङ्गस्य लघूपधस्य च सार्वधातुकार्धधातुकयोर्गुणो भवति। पुगन्तस्य — व्लेपयति। ह्रेपयति। क्नोपयति। लघूपधस्य — भेदनम्। छेदनम्। भेत्ता। छेत्ता। प्रत्ययादेरङ्गावयवस्य च हलोरानन्तर्ये सति लघूपधगुणो न व्यावर्त्यत इति ज्ञापितमेतत् क्नुसनोः कित्करणेन, त्रसिगृधिधृषिक्षिपेः क्नुः (३.२.१४०),**हलन्ताच्च** (१.२.१०) इति।

संयोगे गुरुसंज्ञायां गुणो भेत्तुर्न सिध्यति।

विध्यपेक्षं लघोश्चासौ कथं कुण्डिर्न दुष्यति ॥ १॥

धातोर्नुमः कथं रञ्जेः स्यन्दिश्रन्थ्योर्निपातनात्।

अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः ॥ २॥

अभ्यस्तस्य यदाहाचि लङर्थं तत्कृतं भवेत्।

क्नुसनोर्यत् कृतं कित्त्वं ज्ञापकं स्याल्लघोर्गुणे ॥ ३॥

उपधा चात्र इगेव गृह्यते, ततो भिनत्तीति गुणो न भवति। अपरे पुकि अन्तः पुगन्तः, लघ्वी उपधा लघूपधा च पुगन्तश्च लघूपधा च पुगन्तलघूपधमिति सूत्रार्थं वर्णयन्ति॥

Siddhanta Kaumudi

पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः । येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् । तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः । भवित् आ । अत्रेको गुणे प्राप्ते ॥

Laghu Siddhanta Kaumudi

पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः सार्वधातुकार्धधातुकयोः। धात्वादेरिति सः। सेधति। षत्वम्। सिषेध॥

Balamanorama

पुगन्तलघूपधस्य च - तथा च भावित् — आ इति स्थिते — पुगन्तलघु । ‘मिदेर्गुण’ इत्यतो गुण इत्यनुवर्तते । अङ्गस्येत्यधिकृतमवयवषष्ठन्तमाश्रीयते । पुगन्तलघूपधस्येति तद्विशेषणम् । पुक् अन्तो यस्य तत् पुगन्तं । लघ्वी उपधा यस्य तल्लघूपधं । पुगन्तं च लघूपधं चेति समाहारद्वन्द्वात् षष्ठी । ‘इको गुणवृद्धी’ इति परिभाषया ‘इक’ इत्युपस्थितं स्थानषष्ठन्तमाश्रीयते । तदाह — पुगन्तस्येत्यादिना । अङ्गस्येक इति । अङ्गावयवस्येत्यर्थः । द्वेष्टि द्वेष्टत्याद्युदाहरणम् । नन्वत्राऽङ्गावयवस्येकस्तदुपरितनहला व्यवधानात्सार्वधातुकपरत्वाऽभावात्कथमिह इको गुण इत्यत आह — येन नेति । येन = स्थान्युत्तरवर्णेन परनिमित्तस्य , नाऽव्यवधानं = व्यवधानमवर्जनीयमिति यावत्, तेन = वर्णेन व्यवहितेऽपि परनिमित्तं कार्यं भवतीत्यर्थः । कुत इत्यत आह — वचनप्रामाण्यादिति । तथाविधवर्णव्यवधानेऽपि कार्यप्रवृत्तौ वचनारम्भस्यैव प्रमाणत्वादित्यर्थः । लघूपधस्य हीको गुणो विधियते, उपधात्वं चाऽन्त्यादलः पूर्वस्यैव भवति । ततश्चेक उपर्यन्त्यस्य वर्णस्याऽभावे इक उपधात्वाऽभावाल्लघूपधस्याऽङ्गस्य गुणविधानं निर्विषयमेव स्यादतस्तद्व्यवधानं सोढव्यमिति भावः । ननु व्यवहितस्यापीको गुणप्रवृत्त्यभ्युपगमे भिनत्ति छिनत्तीत्यादौ इकारस्यापि गुणः स्यादित्यत आह -तेनेति । अवर्जनीयव्यवधनास्यैवाश्रयमेनेत्यर्थः । उपधात्वस्यैकमेव वर्णमुपरितनमादाय सम्भवादनेकवर्णव्यवधानं नादर्तव्यमिति भावः । गुणे प्राप्त इति । भवित् - आ इति स्थिते डाभावसंपन्नस्याऽऽकारस्य स्थानिवत्त्वेन सार्वधातुकतया तस्मिन् परे भविदित्यङ्गावयवस्योपधाभूतस्येकारस्य गुणे प्राप्ते सतीत्यर्थः । न च भूधातोर्विहितं सार्वधातुकं प्रति भूधातुरेवाऽङ्गं, न तु भवित् इति विकरणविशिष्टमिति वाच्यम्, अङ्गसंज्ञासूत्रे तदादिग्रहणेन विकरणविशिष्टस्याऽप्यङ्गत्वात् ।

Tattvabodhini

पुगन्तलघूपधस्य च - अनेकव्यवहितस्येति । सार्वधातुकादिकमिको विशेषणं न त्वङ्गस्येति भावः॥

Padamanjari

भेता, छेतेति । कथं पुनरत्र गुणः, यावता धात्वन्तप्रत्ययाद्योर्हलोरानन्तर्ये’संयोगे गुरु’ इति गुरुसंज्ञया लघुसंज्ञाया बाधनान्न प्राप्नोति, भेदनमित्यादौ सावकाशो गुणः ? अत आह - प्रत्ययादेरिति । क्नुसनोः कित्करणेनेति ।’त्रसिगृधिधृषिक्षिपेः क्नुः’ इति क्नोः किक्करणस्यैतत्प्रयोजनम् - गृध्नुरित्यादौ गुणो मा भूदिति । यदि चैवंविधे विषये गुरूपधत्वाद् गुणो न स्यात्, क्नोः कित्करणमनर्थकं स्यात् । तथा’हलन्ताच्च’ इति सनः कित्वविधानस्यैतत्प्रत्योजनम् - पित्सतीत्यादौ गुणो मा भूदिति, तदपि ज्ञापकमुक्तार्थस्य । इदं तु ज्ञापकं नोपपद्यते; सिसृक्षति, दिदृक्षते इत्यत्र’सृजिदृशोः’ इत्यमागमो मा भूदित्येवमर्थमेतत्स्यात्, तथा धिप्सतीत्यत्र नलोपार्थं तत्स्यात् । तस्मात् क्नोरेव कित्करणं ज्ञापकम् । भिनति, च्छिनतीत्यत्र श्रमोऽकारेण लघूपधमङ्गम्, तत्र धातोरिकारस्य गुणः प्राप्नोति, अत आह - उपधात्रेति । न ह्यत्र या काचिदुपधा गृह्यते, किं तर्हि ? ठिको गुणवृद्धीऽ इत्यस्योपस्थानात् स्थानित्वेन सन्निहित इगेव । अपरे त्विति । वर्णयन्तीति सम्बन्धः । पुकि अन्त इति । अन्तशब्दः समीपवचनः । यद्यपि’पुगन्त’ इत्यत्र बहुव्रीहावपि न दोषः, तथाप्यैकरूप्येण विशेषणार्थमयमपि तत्पुरुष एव व्याख्यातः । लघ्वी उपधेति । कर्मधारयः । अत्र पक्षे शाब्द एवोपधाया इका सम्बन्धः - लघ्व्या उपधाया इक इति । पुगन्तलघूपघमिति । समाहारद्वन्द्वः । क्वचिद् ठुपधात्रऽ इत्यादेर्ग्रन्थस्य पुरस्तात् संयोगे गुरुसंज्ञायामिति श्लोकत्रयं पठ।ल्ते । धात्वन्तप्रत्ययाद्योर्हलोरानन्तर्ये सति गुरुसंज्ञायां सत्यां गुणो भेतुर्भेशब्दस्य न सिध्यति । परिहरति - विध्यपेक्षमिति । इदं विधानमिति शेषः । लघूपधाद्ये विहिते सार्वधातुकार्धधातुके, तयोरङ्गस्य गुण इत्यर्थः । ननु पञ्चम्यभावात् कथं विधानमुपपद्यते ? उच्यते; षष्ठीपक्षेऽपि विशेष्यत इति चेत्को दोषः - लघूपधस्य ये सार्वधातुकार्धधातुके । के च ते ? ये तस्माद्विहिते इत्युपपद्यते । लघोश्चासाविति पाठे लघूपधाच्चासौ तृज्विहित इत्यर्थः । उपधाशब्दस्तु वृतभङ्गभयान्न प्रयुक्तः । कथं कुण्डिरिति । अङ्गाधिकारे नुमो विधानादकृत एव नुमि प्रत्ययो लघूपधाद्विहितः, तत्र परतो निमिते स्थिते कुण्डितेत्यादौ गुणः प्राप्नोति, यदि विधानं विशेष्यत इत्यर्थः । परिहरति - धातोर्नुम इति । हेतौ पञ्चमी, यस्मातत्र धातोर्नुमङ्गस्य तस्मादित्यर्थः । उक्तं हि तत्र -‘धातुग्रहणस्य प्रयोजनम् - धातूपदेशावस्थायामेव नुम् यथा स्यात्’ इति, ततश्च प्रागेव नुम्, पश्चात्प्रत्ययः; न चासौ लघूपधाद्विहितो भवति । कथं रञ्जेरिति । यदि षष्ठीनिर्द्देशेऽप इविधानं विशेष्यते, तदान्यत्रापि प्रसङ्गः, ततश्च ठत उपधायाःऽ इत्यकारोपधाद्विहिते प्रत्यये विधीयमाना वृद्धी रञ्जेर्न स्यात्; प्राक् प्रत्ययोत्पतेर्नकारोपधत्वात् - राग इति,’घञि च भावकरणयोः’ इति नकारलोपः । यद्यप्यु पधाया अकारस्य वृद्धिरुच्यते, न च ततः प्रत्ययस्य विधानं सम्भवति, तथाप्यकारोपधाद्यद्विधानं तदेवोपधाया विधानं मन्यते । स्यन्दिश्रन्थ्योरिति । यदयम्’स्यदो जवे’ , ठवोदैधोद्मप्रश्रथहिहश्रथाःऽ इति स्यन्दिश्रन्थ्योर्वृद्ध्यभावं निपातयति, तज्ज्ञापयति - भवत्येवञ्जातीयकानां वृद्धिरिति । तत्र हि नलोपार्थम्, वृद्ध्यभावार्थं च निपातनमाश्रयणीयम् । यदि च वृद्धिविषये विधानं विशेष्येत, ततो वृद्धिप्रसङ्गाभावान्निपातनाश्रयणमनर्थकं स्यात् । नलोपस्य सिद्धये विधिरेवाश्रयणीयः, अनेकप्रयोजनसिद्धये हि निपातनाश्रयणम् । अनल्लोपेति । अनन्तस्य योऽल्लोपः सोऽनल्लोपः; शौ दीर्घत्वम्, शिदीर्घत्वम् - तयोर्द्वन्द्वः, अनल्लोपशिदीर्घत्वे विध्यपेक्षे न सिद्ध्यतः । यदि च षष्ठीनिर्द्देशेऽपि विधानं विशेष्येत, अल्लोपो राज्ञ इत्यादावेव स्यात्; अस्थ्ना, अस्थ्ने, दध्ना, दध्ने - इत्यादौ न स्यात् । शौ दीर्घत्वं च सामानि इत्यादावेव स्यात्, कुण्डानीत्यादौ तु न स्यात् । तस्मात्षष्ठीनिर्देशेषु विहितविशेषणग्रहणे दोषप्रसङ्गाद् गुणो भेतुर्न सिद्ध्यतीति । एवं तर्हि ज्ञापकात्सिद्धम्, यदयम्’नाभ्यस्तस्याचि’ इत्यज्ग्रहणं करोति, तज्ज्ञापयति - भवत्येवञ्जातीयके विषये गुण इति । तस्य हि प्रयोजनम् - नेनक्तीत्यादौ हलादौ गुणप्रतिषेधो मा भूदिति । यदि च हलादावलघूपधत्वाद् गुणो न स्यात्, तदा गुणस्य प्राप्त्यभावात्किं तन्निवारणार्थेनाज्ग्रहणेन ! नैतदस्ति ज्ञापकम्; अभ्यस्तस्य यदाहाचि लर्ङ्थं तत्कृतं भवेत् । अभ्यस्तस्याजादौ प्रतिषेधमाहेति यत् तल्लर्ङ्थं कृतं भवेत्, यत्र हलादिर्लुप्यते - अनेनेगिति, तस्मान्न ज्ञापकम् । एवं तर्हि - क्नुसनोर्यत्कृतं कित्वं ज्ञापकं स्याल्लघोर्गुणे । व्याख्यातमेतत् ॥

Nyaas

पुगन्तस्याङ्गस्य, लघूपधस्य चेत्युभावपि बहुव्रीही - पुगन्तो यस्य तत्? तथोक्तम्, लध्वी उपधा यस्य तल्लघूपधम्। भेत्ता, छेत्ता इति। ननु च प्रत्ययादेर्हलोऽङ्गावयवस्य चानन्तर्ये सति संयोगे गुरु (1.4.11) इति गुरुसंज्ञया लघुसंज्ञायां वाधितायां गुणेनात्र न भवितव्यम्? इत्यत आह - प्रत्ययादेः इत्यादि। त्रसिगृधिधृषिक्षिपेः क्नुः (3.2.140) , हलन्ताच्च (1.2.10) इति क्नुसनोः कित्करणस्यैतदेव प्रयोजनम् - गृध्नुः, विभत्सतीत्यादौ गुणो मा भूदिति। यदि प्रत्ययादेर्हलोऽङ्गावयवस्य चानक्तर्ये सति लघूपधगुणो न स्यात्? तयोः कित्त्वं न कुर्यात्, कृतञ्च, तस्मात्? क्नुसनो कित्त्वं कुर्वता - प्रत्ययाङ्गावयवयोर्हलोरानन्तर्येऽपि लघूपधगुणो न व्यावर्त्त्यत इति ज्ञापितमेतत्। ननु च सनः कित्त्वं सिसृक्षतीत्यत्रामागमो मा भूदित्येवमर्थं स्यात्? नैतदस्ति; यदि ह्रेतत्? प्रयोजनमभिमतं स्यात्? तत्रैवं प्रतिषेधं कुर्यात् - सूजदृशोर्झल्यमकित्सनोरिति। तस्मात् सनः कित्करणं ज्ञापकमेव यद लघूपधल्यानेन गुणो विधीयते। एवं सति इको गुणवृद्धी (1.1.3) इत्यस्या उपस्थाने सति यत्र तत्र स्थितस्येको गुणः प्रसज्येत, ततश्चेहापि प्राप्नोति - भिनत्तीति, भवति ह्रतर लघूपधमङ्गम्। न च शक्यते वक्तुम् - हलोऽनन्तराः संयोगः (1.1.7) इति संयोगसंज्ञायां सत्यां लघूपधमेतन्न भवतीति गुणो न भविष्यतीति। यज्ज्ञापितमेतदिदाधीमेव - प्रत्ययादेरङ्गावयवसय च हलोरानन्तर्ये सति लघुपधगुणो न व्यावर्त्त्यत इति? अत आह - उपधा चात्र इत्यादि। इक्परिभाषया ह्यत्रकः सनिधापितत्वादिगेवोपधा गृह्रते, तेन भिनत्तीत्यत्र गुणो न भवति; न ह्यत्राङ्गस्येगुपधा, किं तर्हि? अकारः। अपरे तु इत्यादिओ। सूत्रार्थ वर्मयन्ती त वक्ष्यमाणेन सम्बन्धः। पुकि अन्तः पुगन्तः - सप्तमी (2.1.40) इति योगविभागात्? समासः। अन्तशब्दोऽयमवयववचनः, पुकि परतोऽवयव इत्यर्थः। कस्यावयवः? अङ्गस्य इत्यनुवृत्तेः पुगिति वचनात्पुगागमवतोऽङ्गस्य। न पुनः पुगन्त इक्परिभाषोपश्तानादिगेव वेदितव्यः। लध्वी उपधा लघूपधा इति। विशेषणसमासः। पुगन्तलघूपधम् इति। समाहारद्वन्द्वोऽयम्। सूत्रार्थम् इति। तूत्रार्थैकदेशे सूत्रार्थशब्दो वर्तते, न ह्रेतावानेव सूत्रार्थः, अपरिसमाप्तत्वात्। अपरिसमाप्तिस्तु पुगन्तस्य तस्याश्च लघूपधाया गुणो भवतीत्यस्य सूत्रार्थस्यैकदेशस्यानभिधानात्। वर्णयन्ति इति। व्याचक्षत इति। भिनत्तीत्यत्र गुणो मा भूदित्येवमर्थम्। न ह्यत्र सूत्रार्थे भिनत्तीत्यत्र गुणः प्रसज्येत। बहुव्रीहौ ह्राश्रीयमाणेऽङ्गस्यान्यपदार्थस्य यो नाम कश्चिदिक्? तस्य यत्र तत्रावस्थितस्य गुणः प्रसज्येत। बहुव्रीहौ हयश्रीयमाणोऽङ्गसयान्यपदार्थस्य यो नाम कश्चिदिक्? तस्य यत्र तत्रावस्थितस्य गुणः प्रसज्येत। तत्पुरेषे तु नायं दोषः, तत्र हि लघूपधेग्भ्यामङ्गं विशिष्यते, अतस्तस्या एव गुणो विधीयते - अङ्गस्य या लघ#ऊपधा इक्? तस्या गुणो भवतीति। भिनत्तीत्यत्रयाऽङ्गस्य लघूपधा नासाविक्, यश्चेक्? स यद्यपि लघुर्भवति लघुर्भवति न त्वस्योपधा। तस्मात्? तत्पुरुष आश्रीयमाणे नेह गुणस्य प्रसङ्गः। सार्वधातुकार्धधातुकयोरित्येव - अगनिचित्त्वम्, अग्निचितकाम्यति। पुगन्तग्रहणं लघूपधार्थम्॥