73080: प्वादीनां ह्रस्वः

Padacheda: प्वादीनाम् | S | 6 | 3 |

ह्रस्वः | S | 1 | 1 |

Sutrartha


Vasu English Summary

A short is substituted for पू etc. before a शित् affix.

Vasu English Translation

A short is substituted for पू etc. before a शित् affix. The Pvadi roots form a subdivision of the Kryadi class, beginning with पूञ् पवने (2) and ending with प्ली गतौ (32). The ल्वादि roots (8.2.44) are a portion of प्वादि (numbers 13 to 32). Others hold that upto the end of the Kryadi class are Pvadi. Thus पुनाति, लुणाति, स्तृणाति ॥ Those who hold that Pvadi roots are upto the end of the Class, explain the non-shortening of जानाति (for ज्ञा would also then become Pvadi), by saying that the express text of (7.3.79), substituting long जा prevents the shortening. They say had ज्ञा been also shortened, then merely ज substitute would have been enough and not जा; and this ज would have been lengthened in the case of जन् by (7.3.101), to form जायते ॥

Kashika

पू इत्येवमादीनां ह्रस्वो भवति शिति परतः। प्वादयः क्र्यादिषु पठ्यन्ते। पूञ् पवने इत्यतः प्रभृति प्ली गतौ****वृत् इति यावत् केचिदिच्छन्ति, वृत्करणमेतद् ल्वादीनां प्वादीनां च परिसमाप्त्यर्थमिति। अपरे तु ल्वादीनामेव परिसमाप्त्यर्थं वृत्करणमेतदिच्छन्ति, आगणान्ताः प्वादय इति। पूञ् — पुनाति। लूञ् — लुनाति। स्तृञ् — स्तृणाति। येषामागणान्ताः प्वादयस्तेषां जानातीत्यत्र ह्रस्वः प्राप्नोति, ज्ञाजनोर्जा (७.३.७९) इति दीर्घकरणसामर्थ्याद् न भवति, जनेर्ज इत्यपि ह्यादेशे कृत अतो दीर्घो यञि (७.३.१०१) इति दीर्घत्वेन जायत इति सिध्यति॥

Siddhanta Kaumudi

शिति परे । पुनाति । पुनीते । पविता ।{$ {!1483 लूञ्!} छेदने$} । लुनाति । लुनीते ।{$ {!1484 स्तॄञ्!} आच्छादने स्तृणाति$} । स्तृणीते । तस्तार । तस्तरतुः । स्तरिता । स्तरीता । स्तृणीयात् । स्तृणीत । आशिषि । स्तीर्यात् । लिङ्सिचोः (SK2528) इति वेट् न लिङि (SK2529) वॄत इटो लिङि दीर्घो न स्यात् । स्तरिषीष्ट । उश्च (SK2368) इति कित्त्वम् । स्तीर्षीष्ट । सिचि च परस्मैपदेषु (SK2392) इति न दीर्घः । अस्तारीत् । अस्तारिष्टाम् । अस्तरिष्ट । अस्तरीष्ट । अस्तीर्ष्ट ।{$ {!1485 कॄञ्!} हिंसायाम्$} । कृणाति । कृणीते । चकार । चकरे ।{$ {!1486 वॄञ्!} वरणे$} । वृणाति । वृणीते । ववार । ववरे । वरिता । वरीता । आशिषि उदेष्ठ्यपूर्वस्य (SK2494) वूर्यात् । वरिषीष्ट । वूर्षीष्ट अवारीत् । अवारिष्टाम् । अवरिष्ट । अवरीष्ट । अवूर्ष्ट ।{$ {!1487 धूञ्!} कम्पने$} । धुनाति । धुनीते । दुधविथ । दुधोथ । दुधुविव । धोता । धविता । स्तुसुधूञ्भ्यः - (SK2385) इतीट् । अधावीत् । अधविष्ट । अधोष्ट ॥ अथ बध्नात्यन्ताः परस्मैपदिनः ।{$ {!1488 शॄ!} हिंसायाम्$} । शॄदॄप्रां ह्रस्वो वा (SK2495) इति ह्रस्वपक्षे यण् । अन्यदा ऋच्छत्यॄताम् (SK2383) इति गुणः । शश्रतुः । शशरतुः श्र्युकः किति (SK2381) इति निषेधस्य क्रादिनियमेन बाधः । शशरिव । शश्रिव । शरिता । शरीता । शृणीहि । शीर्यात् । अशारिष्टाम् ।{$ {!1489 पॄ!} पालनपूरणयोः $}। पप्रतुः । पपरतुः । आशिषि । पूर्यात् ।{$ {!1490 वॄ!} वरणे$} । भरण इत्येके ।{$ {!1491 भॄ!} भर्त्सने$} । भरणेप्येके ।{$ {!1492 मॄ!} हिंसायाम्$} । मृणाति । ममार ।{$ {!1493 दॄ!} विदारणे$} । ददरतुः । दद्रतुः ।{$ {!1494 जॄ!} वयोहानौ$} । झॄ इत्येके । धॄ इत्यन्ये ।{$ {!1495 नॄ!} नये$} ।{$ {!1496 कॄ!} हिंसायाम्$} ।{$ {!1497 ॠ!} गतौ$} । ऋणाति । अरांचकार । अरिता । अरीता । अर्णात् । अर्णीताम् । ईर्यात् । आरीत् । आरिष्टाम् ।{$ {!1498 गॄ!} शब्दे$} ।{$ {!1499 ज्या!} वयोहानौ$} । ग्रहिज्या (SK2412) ॥

Laghu Siddhanta Kaumudi

पूञ्-लूञ्-स्तॄञ्-कॄञ्-वॄञ्-धूञ्-शॄ-पॄ-वॄ-भॄ-मॄ-दॄ-जॄ-झॄ-धॄ-नॄ-कॄ-ॠ-गॄ-ज्या-री-ली-व्ली-प्लीनां चतुर्विंशतेः शिति ह्रस्वः। पुनाति, पुनीते। पविता॥ {$ {! 11 लूञ् !} छेदने $} (धातुपाठे (09.0016)) ॥ लुनाति, लुनीते॥ {$ {! 12 स्तॄञ् !} आच्छादने $} (धातुपाठे (09.0017)) ॥ स्तृणाति। शर्पूर्वाः खयः। तस्तार। तस्तरतुः। तस्तरे। स्तरीता। स्तरिता। स्तृणीयात्, स्तृणीत। स्तीर्यात्॥

Balamanorama

प्वादीनां ह्रस्वः - प्वादीनां ह्रस्वः। ष्ठिवुक्लमुचमाम् इत्यतः शितीत्यनुवर्तत इत्यभिप्रेत्य शेषं पूरयति– शिति परे इति। पवितेति। ऊकारान्तत्वात् सेड् इति भावः। स्तॄञ् आच्छादने। सेट्। तस्तरतुरिति। कित्त्वेऽपि ‘ऋच्छत्यॄताम्’ इति गुणः। स्तरिता स्तरीतेति। ‘वॄतो वा’ इति दीर्घविकल्पः। आशिषि स्तीर्याद् इति। ‘ॠत इद्धातो’रिति इत्त्वे रपरत्वे ‘हलि चे’ति दीर्घः। स्तॄ षीष्ट इति स्थिते आह– लिङ्सिचोरिति वेड् इति। ‘वॄतो वा’ इति दीर्घविकल्पनिषेधसूत्रं स्मारयति– न लिङीति। वॄत इटो दीर्घो नेत्यर्थः। इडभावपक्षे स्तॄषीष्टेत्यत्र गुणम् आशङ्क्याह– उश्चेति कित्त्वम् इति। लुङि परस्मैपदे सिचि अस्तारिष्टाम् इत्यत्र ‘वॄतो वे’ति इटो दीर्घविकल्पे प्राप्ते आह– सिचि चेति। अस्तरीष्ट अस्तरिष्टेति। ‘वृतो वे’ति दीर्घः। अस्तीर्ष्टेति। ‘लिङ्सिचो’रिति इडभावपक्षे ॠत इत्त्वे ‘हलि चे’ति दीर्घ इति भावः। कॄञ् हिंसायाम्। चकरे इति। ‘ऋच्छत्यॄताम्’ इति गुणः। वॄञ् वरणे इति। आशिषीति। वॄ यात् इति स्थिते ‘उदोष्ठपूर्वस्ये’ति ॠकारस्य उत्त्वम् इत्यर्थः, तत्र दन्त्योष्ठपूर्वस्यापि ग्रहणाद् इति भावः। ॠत उत्त्वे रपरत्वे ‘हलि चे’ति दीर्घ इति बोद्ध्यम्। वरिषीष्ट वूर्षीष्टेति। ‘लिङ्सिचो’रिति वेट्। इडभावे ‘उश्चे’ति कित्त्वाद् गुणाभावे उत्त्वे रपरत्वे ‘हलि चे’ति दीर्घ इति भावः। अवारिष्टाम् इति। ‘सिचि चे’ति इटो न दीर्घ इति भावः। अवरिष्ट अवरीष्टेति। ‘वॄतो वा’ इति सिच इटो दीर्घविकल्प इति भावः। दुधविथ, दुधोथेति। ‘स्वरतिसूतिसूयतिधूञूदित’ इति वेडिति भावः। शॄ हिंसायाम्। सेट्। णलि– शशार। शॄ अतुस् इत्यत्र कित्त्वेऽपि ‘ऋच्छत्यॄताम्’ इति नित्ये गुणे प्राप्ते आह– शॄदॄप्राम् इति। गुणाऽपवादे पाक्षिके ह्रस्वे कृते ॠकारस्य यणि रेफ इत्यर्थः। शशरिथ। पॄधातुरपि शॄधातुवत्। आशिषि पूर्यादिति। ‘उदोष्ठ्यपूर्वस्ये’त्युत्वम् इति भावः। दॄ विदारणे। ‘शॄदॄप्राम्’ इति ह्रस्वविकल्पं मत्वाह– ददरतुः दद्रतुरिति। ॠ गतौ। अरांचकारेति। व्यपदेशिवत्त्वेन गुरुमत्त्वाद् आम्। लङ्याह– आर्णादिति। ज्या वयोहानौ। अनिट्। ज्या ना तीति स्थिते ‘ग्रहिज्ये’ति सम्प्रसारणे पूर्वरूपे च जिनातीति स्थिते–

Tattvabodhini

प्वादीनां ह्रस्वः - प्वादीनां ह्रस्वः ।ष्ठिवुक्लमुचमा॑मित्यतः शितीत्यनुवर्तत इत्याह — शिति पर इति । न लिङीति । अनेन वृत इटो लिङि दीर्घो नेति स्मारितम् । उदोष्ठ । दन्तोष्ठओऽपि ओष्ठग्रहणेन गृह्रत इत्याह — वूर्यादिति । वरिषीष्टेति ।लिङ्सिचोरात्मनेपदेषु॑ इति वेट् । वूर्षीष्ट । अवूर्ष्टेति ।उश्चे॑ति लिङ्सिचोः कित्त्वाद्गुणाऽभावे सत्युत्वम् ।

Padamanjari

प्वादयः र्क्यादौ पठ।ल्न्त इति । ये तु भूवादौ पठ।ल्न्ते -‘पूञ् पवने’ इत्यादयः, तेषां ग्रहणं न भवति, कतिपये हि तत्र ह्रस्वभाविनः, तेषामपि शपि गुणेन भवितव्यम् । किञ्च - क्रैयादिकस्य जानातेर्ह्रस्वनिवृत्यर्थं पूर्वसूत्रे दीर्घोच्चारणम्, तदपि क्रैयादिकानां ग्रहणे प्रमाणम् । वृत्करणमित्यादि । न ह्युभयार्थत्वे वृत्करणस्य कश्चिद्भार इति भावः । अपरे त्विति । ल्वादीनामनन्तरत्वादिति भावः । तथा’द पूरणे’ ,’द भये’ - इत्येतयोरपि वृत्करणात् परस्तात्पठितयोरपि ह्रस्वो भवति - यः पृणाति स ह देवेषु गच्छति, पृणीयादिन्नाधमानाय, पृणन्तं च पपुरिं श्रस्यव, आदृणातीति । पूर्वस्मिन्पक्षे ह्रस्वान्तावेतौ पठन्ति । चोदयति - येषामिति । आगता गणान्तमागणान्ताः, परिहरति - ज्ञाजनीर्जा इति । यदि जानातीत्यत्र ह्रस्वत्वं स्यात्, ह्रस्वान्तमेवादेशं विदध्यात् । ननु चान्यार्थं दीर्घान्तादेशविधानं स्यात्, न ह्यन्यथा - जायते इति सिद्ध्यति ? अत आह - ज इत्यपीति । ह्रस्वान्तादेशविधानेऽपि ठतो दीर्घो यञिऽ इति दीर्घत्वे - जायते इति सिद्धम्, तत्र हि’तुरुस्तुशम्यमः सार्वधातुके’ इत्यतः सार्वधातुकग्रहणमनुवर्तते, न पुनः’तङ्’ ईति । अत एव ठाने मुक्ऽ पूर्वान्तः कृतो न परादिः; दीर्घप्रसङ्गात् । ये तर्हि वृत्करणमुभयव्यावृत्यर्थं वर्णयन्ति, तेषां दीर्घोच्चारणं किमर्थम् ? जानातीत्यत्र दीर्घो यथा स्यात् । ठतो दीर्घो यञिऽ इत्येव दीर्घो भविष्यति । न सिध्यति; ठङ्गवृते पुनर्वृतावविधिर्निष्ठितस्यऽ न जादेशमात्रेण निष्ठितमङ्गं भवति । तत्रेदं दीर्घोच्चारणमेव लिङ्गम् - आगणान्ताः ष्वादय इति ॥

Nyaas

व्ली गतौ वृदिति यावत्? केचिदिच्छन्ति इति। तेषां ततः परेण पठितयोः व्री वरणे (धातुपाठः-1504), भ्री भये (धातुपाठः-1505) - इत्येतयोह्र्यस्वत्वेन न भवितव्यम् - व्रीणाति, भ्रीणातीति। ननु ल्वादीनां परिसमाप्त्यर्थं तद्वृत्करणम्, अन्यथा आ गणान्तात्? तेभ्यो निष्ठानत्वं स्यात्, ल्वादिपरिसमाप्त्यर्थे च तस्मिन्नागणान्ताः प्वादयो युक्ताः? इत्यत आह - वृत्करणम् इत्यादि। न ह्रुभयगणपरिसमाप्त्यर्थता केनचिद्विरुध्यत इत्यभिप्रायः।अपरे इत्यादि। ल्वादेर्गणस्यानन्तरत्वात्? तत्परिसमाप्त्यर्थतैव वृत्करणस्य युक्तेति भावः। तेषामेवमिच्छतां व्री वरणे, भ्रो भये - इत्येतयोरपि भवितव्यं ह्यसवत्वेन व्रिणाति, भ्रिणातोति; प्वादिषूभयोरन्तर्भावात्। जानातीत्यत्र ह्रस्वः प्राप्नोति इति। तल्याप प्वाद्यन्तर्भावादित्याह - ज्ञाजनोर्जा इत्यादि। यदि जा इत्यादेशे कृते ह्यसवः स्यात्? तदा दीर्घोच्चारणमनर्थकं स्यात्, इत्येवं ब्राऊयात्। तस्मात्? दीर्घोच्चारणसामर्थ्यज्जानातीत्यत्र ह्रस्वो न भविष्यति। ननु च दीर्घोच्चारणं जन्यर्थं स्यात्, न हि जनेर्ज इत्यादेशे कृते जायत इति रूपं सिध्यति? इत्यत आह - ज इत्यपि ह्रादेशे कृते इत्यादि। येषान्तूभयगणपरिसमाप्त्यर्थं वृत्करणं तेषां किमर्थं जा इति दीर्घोच्चारणम्? जानातीत्यत्र दीर्घो यथा स्यात्? नैतदस्ति; अतो दीर्घो यञि (7.3.101) इति दीर्घो भविष्यति? ननु च अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य (व्या।प।38) इति न प्राप्नोति? नैतदस्ति; निष्ठितस्य इत्युच्यते, न च ज इत्यादेशे कृते निष्ठितमङ्गं भवति; अप्रयोगार्हत्वात्। प्रतिपत्तिलाघवार्थं दीर्घोच्चारणम्॥

Prakriyasarvasvam

प्वादीनां शिति ह्रस्वः स्यात् पुनाति, पुनीते । सार्वधातुके क्रीञ्वत् । ऊदन्तत्वात् सेट्त्वम् । ‘सिचि वृद्धिः-’ (७-२-१) । अपावीत् । अपाविष्टाम् । अपविष्ट । अपविषाताम् । पुपाव । पुपुवतुः । पुपविथ । पुपुविव । पुपुवे । पुपुविषे । पूयात् । पविषीष्ट । पविता । पविष्यति । कर्मण्यूह्यम् । ग्रह उपादाने । श्नाया ङित्त्वाद् ‘ग्रहिज्या-’ (६-१-१६) इति प्रसारणम् । गृह्णाति, गृह्णीते । सार्वधातुके क्रीञ् वत् । लोण्मध्यमे तु-

Sutra Prayogas

  • चाऽलुनाद्बाणैरभनक्स्यन्दनं (भट्टिकाव्यम्): प्वादीनां ह्रस्वः इति ह्रस्वः।

  • समवाप्यत (भट्टिकाव्यम्): प्वादीनां ह्रस्वः इति ह्रस्वः ।

  • प्रवृणीष्व (भट्टिकाव्यम्): प्वादीनां ह्रस्वः इति ह्रस्वः।