73063: वञ्चेर्गतौ

Padacheda: वञ्चेः | S | 6 | 1 |

गतौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

A guttural is not substituted for the palatal of वञ्च् in the sense of ‘going’.

Vasu English Translation

A guttural is not substituted for the palatal of वञ्च् in the sense of ‘going’. A वञ्च्यं वञ्चन्ति वणिजः, but वाङ्क्यं काष्ठं = कुटिलं ॥ Why is गतौ used, when we know from the Dhatupatha (Bhuadi 204) that वंच् means ‘to go’? The specification shows that the roots possess many meanings other than those assigned to them in the Dhatupatha.

Kashika

वञ्चेरङ्गस्य गतौ वर्तमानस्य कवर्गादेशो न भवति। वञ्च्यं वञ्चन्ति वणिजः। गताविति किम्? वङ्कं काष्ठम्। कुटिलमित्यर्थः॥

Siddhanta Kaumudi

कुत्वं न । वञ्च्यम् । गतौ किम् । वङ्क्यं काष्ठम् । कुटिलाकृतमित्यर्थः ॥

Balamanorama

वञ्चेर्गतौ - वञ्चेर्गतौ । कुत्वं नेति । शेषपूरणमिदम् ।चजोः कु घिण्ण्यतो॑रित्यतः कुग्रहणस्य,न क्वादे॑रित्यतो नेत्यस्य चाऽनुवृत्तेरिति भावः ।

Padamanjari

वञ्च्यं वञ्चन्तीति । गन्तव्यं गच्छन्तीत्यर्थः । वङ्कमिति । गुणशब्दोऽयम्भावे घञ्, अभेदोपचाराद् गुणिनि वृत्तिः ॥

Nyaas

वञ्चम् इति। वञ्चु चञ्चु तञ्चु त्वञ्च म्रुञ्चु म्लञ्चु भ्रुचु म्लुचु गत्यर्थाः (धातुपाठः-189-196)। कर्मणि घञ्। वञ्च्यं वञ्चन्ति गन्तव्यं गच्छन्तीत्यर्थः। `चङ्कम् इति। हलश्च (3.3.121) इति घञ्॥

Prakriyasarvasvam

कुत्वं न गत्यर्थस्य । वञ्च्यम् । कौटिल्यार्थे वङ्क्यम् ।