73061: भुजन्युब्जौ पाण्युपतापयोः

Padacheda: भुजन्युब्जौ | S | 1 | 2 |

पाण्युपतापयोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

भुज ‘an arm’ and न्युब्ज ‘a kind of bodily disease’ are irregularly formed without any change of their ज् before घञ्।

Vasu English Translation

भुज ‘an arm’ and न्युब्ज ‘a kind of bodily disease’ are irregularly formed without any change of their ज् before घञ्। The word भुजः = भुज्यतेऽनेन, with घञ् (3.3.121). The irregularity consists in the absence of Guna, as well as of gutturalisation. न्युव्जिताः शरतेऽस्मिन् = न्युव्जः from the root उव्ज अर्जवे (Tudadi 20). The irregularity consists in the non-changing of ज ॥ When not meaning ‘an arm’ and ‘a disease’, we have भोगः, समुद्गः ॥

Bhashya

भुजन्युब्जौ पाण्युपतापयोः भुजः पाणा भुजः पाणाविति वक्तव्यम् ॥ कथं न्युब्ज उपतात इति ? न्युब्जेः कर्तृत्वादप्रतिषेधः (न्युब्जेः(1) कर्तृत्वादप्रतिषेधः ।) अनर्थकः प्रतिषेधोऽप्रतिषेधः ॥ कुत्वं कस्मान्न भवति ? ॥ कर्तृत्वात् । नैतद्धञ्ञन्तम्(1) । कर्तृप्रत्यय एषः । न्युब्जतीति न्युब्जः ॥ ननु(1) च अधिकरणसाधनो वै लक्ष्यते घञ्ञ(1), - न्युब्जिताः शेरतेऽस्मिन्न्युब्ज उपताप इति ॥ एषोऽपि हि कर्तृसाधन एव ॥ कथम् ? ॥ न्युब्जयतीति न्युब्जः ॥

Kashika

भुज न्युब्ज इत्येतौ शब्दौ निपात्येते पाणावुपतापे च। भुज्यतेऽनेनेति भुजः पाणिः। हलश्च (३.३.१२१) इति घञ्। तत्र कुत्वाभावो गुणाभावश्च निपात्यते। उब्ज आर्जवे न्युब्जिताः शेरतेऽस्मिन्निति न्युब्ज उपतापो रोगः। तथैव घञि कुत्वाभावे निपात्यते। पाण्युपतापयोरिति किम्? भोगः। समुद्गः॥

Siddhanta Kaumudi

एतयोरेतौ निपातौ । भुज्यतेऽनेनेति भुजः पाणिः । हलश्च (SK3300) इति घञ् । न्युब्जन्त्यस्मिन्निति न्युब्जः । उपतापो रोगः । पाण्युपतापयोः किम् । भोगः । समुद्गः ॥

Nyaas

भुजः इति। भुज पालनाभ्यवहारयोः (धातुपाठः-1454), हलश्च (3.3.121) इति धञ्। अत्र अवे तृस्त्रोर्घञ् (3.3.120) इत्यतो घञनुवर्तते। न्युब्जः इति। यदा दकारोपध उच्यते उद्ज आर्जवे इति तदा दकारस्य बकारो निपात्यते। अथ वा - असिद्धेभ उद्जेः [इयवरट् सूत्रस्थमेतत्? वचनं महाभाष्ये] इत्यनयेष्टआ दकारस्य भकारे कृते जश्त्वेन बकारो भवति। यदि तु बकारोपधः उब्ज आर्जवे इति तदा समुद्ग इतयतर बकारसय दकारो वक्तव्यः॥