73039: लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने¶
Padacheda: लीलोः | S | 6 | 2 |
नुग्लुकौ | S | 1 | 2 |
अन्यतरस्याम् | S | 7 | 1 |
स्नेहविपातने | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The roots ली and ला optionally get नुक् and लुक् augment respectively before the affix णि when the Causative means ‘the melting of a fatty substance’.
Vasu English Translation¶
The roots ली and ला optionally get नुक् and लुक् augment respectively before the affix णि when the Causative means ‘the melting of a fatty substance’. As वि लीनयति, वि लालयति, वि लाययति, or वि लापयति घृतम् ॥ The augment नुक् is added to ली when the root ends in long ई, and that also optionally. When the augment is not added, the regular causative लाययति is formed. But when ली gets the form ला by (6.1.51), it does not take the augment नुक् ॥ The root ली includes both ली and लीङ् of Kryadi and Divadi. The root ला includes ला ‘to give’ (adadi 49), and ला the form assumed by ली under (6.1.51). When लुक् is not added to ला, पुक् is added by (7.3.36). Why do we say when meaning ‘to melt fat’? Observe only लोहे विलापयति, जटाभिरालापयते (1.3.70).
Kashika¶
ली ला इत्येतयोरङ्गयोरन्यतरस्यां नुक् लुक् इत्येतावागमौ भवतो णौ परतः स्नेहविपातनेऽर्थे। घृतं विलीनयति, घृतं विलाययति। विलालयति, विलापयति। ली ई इतीकारः प्रश्लिष्यते, तत ईकारान्तस्यैव नुग् भवति, न तु कृतात्वस्य विभाषा लीयतेः (६.१.५१) इति। स्नेहविपातन इति किम्? जतु विलापयति। जटाभिरालापयते। ली इति लीलीङोर्ग्रहणम्। ला इति लातेः, कृतात्वस्य च लीयतेः॥
Siddhanta Kaumudi¶
लीयतेर्लातेश्च क्रमान्नुग्लुकावगमौ वा स्तो णौ स्नेहद्रवे । विलीनयति । विलाययति । विलालयति । विलापयति वा घृतम् । ली ई इति ईकारप्रश्लेषादात्वपक्षे नुक् न । स्नेहद्रवे किम् । लोहं विलापयति । विलाययति ।<!प्रलम्भनाभिभवपूजासु लियो नित्यमात्वमशिति वाच्यम् !> (वार्तिकम्) ॥
Balamanorama¶
लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने - लीलोः । ली ला इत्यनयोः षष्ठीद्विवचनम् । णाविति । अर्तिह्यी॑त्यतस्तदनुवृत्तेरिति भावः । स्नेहस्य = तैलस्य, निपातनं = द्रावणं, स्नेहनिपातनम् । तदाह — स्नेहद्रवे इति । आत्त्वाऽभावपक्षे आह — विलीनयतीति । लीलीङोरीकारान्तयोर्नुकि रूपम् । द्रवीकरोतीत्यर्थः । लीलीङोरात्त्वनुगभावपक्षे आह — विलाययतीति । लुगागमाऽभावे रूपम् । नु कृतात्त्वस्य लीधातोरपि एकदेशविकृतन्यायेन लीत्वान्नुक्स्यादित्यत आह — ली ई इति । लोहं विलापयतीति । नुग्लुकोरभावादात्त्वपक्षे पुक् । आत्वाऽभावे तु वृद्ध्यायादेशाविति नित्यमात्त्वं वक्तव्यमित्यर्थः ।
Tattvabodhini¶
लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने - लीलोः ।लीङ् श्लेषणे॑ दिवादिः ।ली श्लेषणे॑ क्र्यादिओः । लाग्रहणेनला आदाने॑ अदादिःष कृतात्वौ लीलीङौ च त्रयोऽपि गृह्यन्ते ।लीयते॑रिति औचित्यादिहापि यका निर्देश इत्युभयोरपि ग्रहणम् । न चनिरनुबन्धकग्रहणे न सानुबन्धकस्य ग्रहण॑मिति परिभाषया सूत्रेऽपि लीङो न ग्रहणमिति वाच्यम्, इयं हि परिभाषावामदेवाड्ङ्यड्डऔ॑ इत्यत्र डित्त्वेन ज्ञापिता । ज्ञापनं च उत्सर्गतः सजातीयापेक्षमिति प्रत्ययग्रहणविषयत्वमस्याः कल्प्यते । यथासदव्ययतव्यसमानाधिकरणेने॑त्यत्र तव्यस्यैव ग्रहणं न तु तव्यतः, अत एवजृब्राश्च्योः क्त्वी॑ति सूत्रे जृणातजीर्यत्योरुभयोग्र्रहणमिति न्यासकृतोक्तम् । अतोऽत्र लीलीङोग्र्रहणमिति सम्यगेव । न चैवंदिव औ॑दित्यत्र निरनुबन्धपरिभाषया दिविति प्रातिपदिकस्यैव ग्रहणं न तु धातोरिति ग्रन्थः कथं सङ्गच्छत इति वाच्यम्, उत्सर्गतः प्रत्ययग्रहणविषयत्वेन क्वचिदन्यत्रापि प्रवृत्तौ बाधकाऽभावादिति वदन्ति । विलीनयतीति । लीलीङोरिकारान्तयोर्नुकि रूपम् । विलाययतीति । नुगभावपक्षे तयोरेव रूपम् । विलालयतीति । लातेः कृतानुग्लुकोरभावादात्वपक्षे पुक् । आत्वाऽभावे तु वृद्ध्यादेशौ । प्रलम्भनेति । प्रलम्भनं वञ्चनम् । अशिति किम । लीयते । लिनाति ।
Padamanjari¶
स्नेहःउ घृतादिः, तस्य विपातनमुविगच्छतः काठिन्यं त्यजतः प्रयोजनकव्यापारः । स्नेहविपातनं काठिन्यमुपगतस्याग्नौ निष्टपनादिना द्रवत्वापादानमित्यर्थः । न तु कृतात्वस्येति । एकदेशविकृतस्यानन्यत्वात् प्रसङ्गः । जटाभिरालापयत इति ।’लियः सम्माननशालीनीकरणयोश्च’ इत्यात्मनेपदम् । ली इति लीलीङेर्ग्रहणमिति । क्रैयादिकदैवादिकयोः । निरनुबन्धकपरि भाषा तु नेष्यते । कृतात्वस्य च लीयतेरिति । ग्रहणमित्यपेक्ष्यते ॥
Nyaas¶
स्नेहविपातनेऽर्थे इति। किमिदं स्नेहविपातनं नाम? विगच्छतः स्नेहसय पातनं व्यापारणम्। तथा हि - पातेव्र्यन्तस्य भावे ल्युटि कृते वपीतनमिति। विलीनयति इति। गुणायादेशौ। अथ विभाषा लीयतेः (6.1.51) इत्यत्त्वे कृत एकदेशविकृतस्यानन्यत्वाद्विलापयतीत्यत्र कस्मान्नुग्भवति? इत्याह - ली इत्यादि। ली+ई इति ईकारोऽत्र प्रश्लिष्यते - ईकारान्तस्यैव यथा स्यात्? कृतात्त्वस्य न भवति। ली इति लीलीङोग्र्रहणम् इति। ननु च निरनुबन्धकपरिभाषया ली श्लेषणे (धातुपाठः-1501) इत्येतस्यैव क्रैयादिकस्य ग्रहणं युक्तम्, न तु लीङ्? श्लेषणे (धातुपाठः-1139) इत्येतस्य दैवादिकस्य? एवं मन्यते - एक एवायं धातुर्विकरणद्वयर्थमात्मनेपदार्थञ्च द्विरुपदिश्यते। एवञ्च कृत्वा लियः सम्माननशलिनोकरणयोश्च (1.3.70) इत्युभाभ्यामात्मनेपदं भवतीति। ला इति लातेः, कृतात्वस्य च लोयतेः इति। ग्रहणमिति प्रकृतेन सम्बन्धः॥