73031: यथातथयथापुरयोः पर्यायेण¶
Padacheda: यथातथयथापुरयोः | S | 6 | 2 |
पर्यायेण | S | 3 | 1 |
Sutrartha¶
Vasu English Summary¶
Before a तद्धित affix having an indicatory ञ् , ण् or क् , the words यथातथ and यथापुर may have वृद्धि of the first vowel of their first member or that of the second member, in alteration.
Vasu English Translation¶
Before a तद्धित affix having an indicatory ञ् , ण् or क् , the words यथातथ and यथापुर may have वृद्धि of the first vowel of their first member or that of the second member, in alteration. That is, when the Negative particle gets the vriddhi, the words remain unchanged; and when these words are vriddhied, the negative particle remains unaltered. As आयथातथ्यम् or अयाथातथ्यम्, आयथापुर्यम् or अयाथापुर्यम् ॥ The words अयथातथ and अयथापुर should be considered to belong, as negative compounds, to Brahmanadi class (5.1.124): and take ष्यञ् ॥ In the sutra the compounds यथातथ and यथापुर are exhibited and are Avyayibhavas (2.1.7), and being neuters, the आ of तथा and पुरा are shortened. According to Patanjali this sutra is superfluous. When the negative particle takes Vriddhi, the compound should be analysed as, न यथातथा = अयथातथा, अयथातथा भावः = आयथातथ्यम् ॥ When the second member gets the vriddhi, the compound should be analysed as, यथातथा भावः = याथातथ्यं, न याथातथ्यम् = अयाथातथ्यम् ॥
Bhashya¶
यथातथयथापुरयोः पर्यायेण अयं योगः शक्योऽवक्तुम्(3) कथम् - अयाथातथ्यमायथातथ्यमयाथापुर्यमायथापुर्यम् ? ॥ यदा तावत्पूर्वपदस्य वृद्धिस्तदैवं विग्रहः करिष्यते - न यथातथा अयथातथा, अयथातथा भावः आयथातथ्यम् । यदोत्तरपदस्य वृद्धिस्तदैवं विग्रहः करिष्यते - यथातथाभावो यथातथ्यम् । न याथातथ्यम् - अयाथातथ्यम् ॥ ( यथातथयथापुरयोः पर्यायेण )
Kashika¶
यथातथ यथापुर इत्येतयोर्नञ उत्तरयोः पर्यायेणाचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। आयथातथ्यम्, अयाथातथ्यम्। आयथापुर्यम्, अयाथापुर्यम्। अयथातथ, अयथापुरेति ब्राह्मणादिषु (५.१.१२४) नञ्समासावेतौ द्रष्टव्यौ। सूत्रे यथातथयथापुरशब्दौ तु यथासादृश्ये (२.१.७) इत्यव्ययीभावसमासौ। तथा नपुंसकाश्रयं ह्रस्वत्वं कृतम्। भाष्ये तु यथादर्शितम् अयथातथाभावः (महाभाष्य ३.३२२) इति तथा सुप्सुपा (२.१.४) इति समासो लक्ष्यते॥
Siddhanta Kaumudi¶
नञः परयोरेतयोः पूर्वेत्तरपदयोः पर्यायेणादेरचो वृद्धिर्ञिदादौ । अयथातथाभाव आयथातथ्यम् । अयाथातथ्यम् । आयथापुर्यम् । अयाथापुर्यम् । आ पादसमाप्तेर्भावकर्माधिकारः ।<!चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् !> (वार्तिकम्) ॥ चत्वारो वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैस्वर्यम् । षाङ्गुण्यम् । सैन्यम् । सांनिध्यम् । सामीप्यम् । औपम्यम् । त्रैलोक्यमित्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः ।<!सर्वादेः - इति लुक् !> (वार्तिकम्) । स एव सार्ववैद्यः ॥ (गणसूत्रम् -) चतुर्वेदस्योभयपदवृद्धिश्च ॥ चतुरो वेदानधीते चतुर्वेदः । स एव चातुर्वैद्यः । चतुर्विद्यस्येति पाठान्तरम् । चतुर्विद्य एव चातुर्वैद्यः ॥
Balamanorama¶
यथातथयथापुरयोः पर्यायेण - तयोः ष्यञि आदिवृद्धौ विशेषमाह — यथातथायथापुरयोः । आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य चेत्यधिकारे इदं सूत्रम् ।नञः शुची॑त्यतो नञ इत्यनुवर्तते । तदाह — नञः परयोरेतयोरिति । यथातथा यथापुर इत्यनयोरित्यर्थः । पर्यायेणेति । कदाचित्पूर्वपदस्य, कदाचिदुत्तरपदस्येत्यर्थः । आयथातथ्यमिति । यथातथेति निपातनात्ष्यञि पूर्वपदस्यादिवृद्धिः । अयाथातथ्यमिति । उत्तरपदस्यादिवृद्धिः । आयथापुर्यमिति । यथापुरशब्दात्ष्यञि पूर्वपदस्यादिवृद्धिः । अयाथापुर्यमिति । उत्तरपदस्यादिवृद्धिः । आ पदासमाप्तेरिति । अत्र व्याख्यानमेव शरणम् । चतुर्वर्णादीनामिति । चतुर्वर्णादीभ्यः स्वार्थे ष्यञ उपसङ्ख्यानमित्यर्थः । सर्ववेदा इति । ‘पूर्वकाल’ इति समासः । लुगिति ।अध्येतृप्रत्ययस्ये॑ति शेषः । स एव सार्ववैद्य इति । सर्ववेदशब्दात्स्वार्थे ष्यञिति भावः । चतुर्वेदस्येति । वार्तिकमिदम् ।ष्य॑ञिति शेषः । चतुर्वेद इति । ‘तद्धितार्थ’ इति द्विगुः । ततोऽध्येतृप्रत्ययस्याऽणोद्विगोर्लुगनपत्ये॑[ इति लुक् । चतुर्विद्यस्येतीति ।चतुर्वेदस्योभयपदवृद्धिश्चे॑ति वार्तिके चतुर्वेदस्येत्यस्य स्थाने चतुर्विद्यस्येति केचित्पठिन्तीत्यर्थः । चतरुआओ विद्या अधीते इत्यर्थे ‘तद्धितार्थ’ इति द्विगौविद्यालक्षणकल्पान्ताच्चे॑ति ठकि ‘द्विगोर्लुगनपत्ये’ इति तस्य लुकि चतुर्विद्यशब्दात्स्वार्थे ष्यञि उभयपदवृद्धौ ‘चातुर्वैद्य’ इति रूपमिति भावः ।
Padamanjari¶
ब्राह्मणादिषु नञ्समासावेतौ द्रष्टव्याविति । तेन’न नञ्पूर्वात्’ इति ष्यञः प्रतिषेधो न भवतीति भावः । यथाऽसादृश्य इत्यव्ययीभावसमास इति । पदार्थानतिवृतौ । तथाभावमनतिक्रान्तं यथातथमुसत्यमुच्यते, यद्वस्तु पुरा यथाभूतं तदद्यापि तथाभावमनतिक्रान्तं यथापुरमुच्यते । किं पुनरव्ययीभावत्वे प्रमाणम् ? इत्यत आह - तथा हीति । भाष्ये त्विति । न हि ह्रस्वत्वमकृत्वा । विग्रहप्रदर्शनमव्ययीभावस्योपपद्यते । अयं योगः शक्योऽवक्तुम् । कथम् ? यदा पूर्वपदस्य वृद्धिः, नञ्समासाद्भावप्रत्ययः । यदा तूतरपदस्य वृद्धिस्तदा ष्यञन्तेन नञ्समासः । स्वरेऽपि नास्ति विशेषः;अव्ययपूर्वपदप्रकृतिस्वरेणाअद्यौदातत्वात् । प्रत्ययान्तरं चाभ्यां न भवति; अनभिधानात् ॥
Nyaas¶
ब्राआहृणादिषु नञ्समासावेतौ द्रष्टव्यौ इति। तेन नञ्समासाभ्यां ष्यञ्? भवतीति भावः। एतौ इति। यथातथा - यथापुरशब्दौ। ``यथाऽसावृश्यते` इत्यव्ययीभावसमासौ` इति। ननु च असादृश्य (2.1.7) इति प्रतिषेधः प्राप्नोति? नैष दोषः; न ह्यत्र सादृश्यं गम्यते। तथा हि - यथातथमिति सत्यमुच्यते, यथा - पुरमिति पुरातनम्। कथं पुनज्र्ञायतेऽवययीभावसमासौ? इत्याह - तथा हि इत्यादि। अत्र हि ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) इति नपुंसकाश्रय ह्रस्वत्वं कृतम्। नपुंसकत्वं चाव्ययीभावस्य विहितम्, तस्मादव्ययीभावसमासाविति ज्ञायते। भाष्ये तु इत्यादि। अयथातथाभाव इति ह्रस्वत्वमकृत्वा वाक्यं यथा दर्शितां तथा सुप्सुपा (2.1.4) इति समासो लक्ष्यते नाव्ययीभावः। अव्ययीभावे हि नपुंसकाश्रयं ह्रस्वत्वं स्यात्। अस्मस्तु पक्षे सौत्रत्वान्निर्देशस्य - छन्दोवत्सूत्राणि भवन्ति (म।भा।) इति वर्णव्यत्ययेन दीर्घस्य स्थाने ह्रस्वो वेदितव्यः॥
Prakriyasarvasvam¶
नञ्पूर्वयोरेतयोः पूर्वपदस्योत्तरपदस्य वा पर्यायेण वृद्धिः स्यात् । आयथातथ्यम्, अयाथातथ्यम् । आयथापुर्यम् । अयाथापुर्यम् । ‘सधर्मानुकूलपरि- मण्डलविश्वरूपर्त्त्विगुदासीनेश्वरप्रतिभूसाक्षिमानुषास्तिकनास्तिकतेतिहयुगपत्पूर्वापरो- त्तराधरादिभ्यश्च’ (स० ५-१-१५९) । साधर्म्यम् । आनुकूल्यम् । पारिमाण्डल्यम् । अनुशतिकादिः । वैश्वरूप्यम् । आर्त्विज्यं औदासीन्यम् । ऐश्वर्यम् । प्रातिभाव्यम् । अनुशतिकादिः । साक्ष्यम् । मानुष्यम् । आस्तिक्यम् । नास्तिक्यम् । ऐतिह्यम् । यौगपद्यम् । पौर्वापर्यम् । औत्तराधर्यम् । आद्युक्तैः पारिशेष्यम् । वैधर्म्यम् । ऐकैकश्यम् । एकैकश इत्यव्ययत्वाट्टिलोपः । भ्रौणहत्यम् । धाधातोः क्वनिपि धीवा, धैत्वत्यम् । द्वयोर्दण्डिनाद्युक्त्या नस्य तत्वम् ॥ ‘चातुर्वर्ण्यचातुराश्रम्यचातुर्वैद्यत्रैवर्ण्यत्रैलोक्यत्रैकाल्यत्रैशब्दत्रैस्वर्यषाड्गुण्य- सैन्यसान्निध्यसामीप्यौपम्यसौख्यसार्ववैद्यादीनां स्वार्थे’ (स० ५-१-१६०)। चत्वारो वर्णा एव चातुर्वर्ण्यम् । चतस्रो विद्या एव चातुर्विद्यम् । सर्वे वेदा एव सार्ववैद्यम् । अनुशतिकादौ । माधवस्तु ‘चतुर्वेदः सर्ववेदश्च तदध्येता, स एव चातुर्वैद्यः सार्ववैद्यश्च’ इत्याह । सैनैव सैन्यम् । उपमैवौपम्यम् । आद्युक्तेर्मणिक एव माणिक्यम् । अलस एवालस्यः । विडेव वैश्यः । करुणैव कारुण्यम् । समानः साधारणः स एव सामान्यः । तदर्थ एव तादर्थ्यः । कविः शुक्रः, स एव काव्यः । ‘परम्परेति रूढिसिद्धा, सैव पारम्पर्यं’ इति हरः ।
Sutra Prayogas¶
याथातथ्य (भट्टिकाव्यम्): यथातथायथापुरयोः पर्यायेण इति ञनः पर्यायेण वृद्धिः।