73005: न्यग्रोधस्य च केवलस्य

Padacheda: न्यग्रोधस्य | S | 6 | 1 |

च | S | 0 | 0 |

केवलस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

ऐ is placed before the य् of न्यग्रोध instead of वृद्धि when the word stands alone and is not a member of a compound and is followed by a तद्धित affix with the indicatory ञ् , ण् or क् ।

Vasu English Translation

ऐ is placed before the य् of न्यग्रोध instead of वृद्धि when the word stands alone and is not a member of a compound and is followed by a तद्धित affix with the indicatory ञ् , ण् or क् । As नैयग्रोधश्चमसः (= न्यग्रोधस्य विकारः). Why do we say ‘when it is alone’? Observe न्यग्रोधमूले भवाः शालयः = न्यग्रोधमूलाः ॥ न्यग्रोध is a derivative word (from न्यग्रोहयति = नीचैर्गतौ परोहैर्वधते), then it would have been governed by (7.3.3), this separate, sutra is then for the sake of making a restrictive rule (niyama) with regard to this word. If it is a primary word, then this sutra makes a Vidhi rule. The word केवल is a jnapaka that the rule of Tadadi applies in this section. See (7.3.8), also.

Kashika

न्यग्रोधशब्दस्य केवलस्य यकारादुत्तरस्याचामादेरचः स्थाने वृद्धिर्न भवति, तस्मात् च पूर्वमैकार आगमो भवति। न्यग्रोधस्य विकारो नैयग्रोधश्चमसः। केवलस्येति किम्? न्यग्रोधमूले भवाः शालयो न्याग्रोधमूलाः शालयः। न्यग्रोहतीति न्यग्रोध इति व्युत्पत्तिपक्षे नियमार्थम्, अव्युत्पत्तिपक्षे विध्यर्थम्॥

Siddhanta Kaumudi

अस्य न वृद्धिरैजागमश्च । नैयग्रोधम् ॥

Balamanorama

न्यग्रोधस्य च केवलस्य - न्यग्रोधस्य च ।न य्वाभ्या॑मित्युत्तरसूत्रमिदम् । अस्येति केवलस्य न्यग्रोधस्येत्यर्थः । केवलत्वं पदान्तरविहीनत्वं । न्यक् रोहितीति न्यग्रोध इति व्युत्पत्तिपक्षे यद्यपिनय्वाभ्या॑मित्येव सिद्धं, यकारस्य पदान्तत्वात् । तथापि केवलस्यैव इति नियमार्थं सूत्रम् । अव्युत्पत्तिपक्षे तु यकारस्य अपदान्तत्वाद्विध्यर्थमेव । केवलस्य किम् । न्याग्रोधमूलाः शालयः ।

Tattvabodhini

न्यग्रोधस्य च केवलस्य - न्यग्रोधस्य च । केवलस्येति किम् । न्यग्रोमूले भवा न्याग्रोधमूलाः — शालयः । न्यक् — रोहतीति न्यग्रोध इति व्युत्पत्तिपक्षे नियमार्थम्, अव्युत्पत्तिपक्षे तु विध्यर्थम् ।

Padamanjari

नैयग्रोध इति । नीचैर्गतौ प्ररोहैर्वर्धत इत्यर्थः । अव्युत्पत्तिपक्षे तु विध्यर्थमिति । अपदान्तत्वाद्यकारस्य । अथास्मिन्नपि पक्षे केवलग्रहणं किमर्थम्, यावता न्यग्रोधस्येत्युज्यते, तत्र कः प्रसङ्गो यतदादौ स्यात् ? ज्ञापनार्थं तु । एतज्ज्ञापयति - असमिन्प्रकरणे यान्युपातानि तानि तदादिवृद्धिभाजोऽचो विशेषणानीति ॥

Nyaas

नैयग्रोधः इति। तस्य विकारः (4.3.134) इत्यण्। न्यग रोहतीति न्यग्रोधः इति। न्यञ्चतीति ऋत्वि (3.2.59) गादिनाऽञ्चतेः क्विन्, क्विन्प्रत्ययस्य कुः (8.2.62) इति कुत्वम् - ककारः, नेर्यणादेशः। न्यक्पूर्वाद्रूहेः पचाद्यच्। तत्र न्यङ्क्वादीनाञ्च (7.3.53) इति हकारस्य धकारः, झलां जशोऽन्ते (8.2.39) इति ककारस्य गकारः, लघूपधगुणः - एवं यदा न्यग्रोधशब्दो व्युत्पाद्यते तदा पदान्तत्वाद्यकारस्य न य्वाभ्याम् (7.3.3) इत्यादिनैव सिद्धे नियमार्थंमेतत् - केवलस्यैव यथा स्यात्, तदादेर्मा भूदिति। अव्युत्पत्तिपक्षे विध्यर्थमेतत् इति। अपदान्तत्वाद्यकारस्य॥

Prakriyasarvasvam

केवलस्य न्यग्रोधस्य आदिवृद्धिप्राप्तावैच् स्यात् । केवलस्येत्युक्तेर्न्यग्रोधमूले भवा न्याग्रोधमूलाः शालयः । ‘प्लक्षन्यग्रोधाश्वत्थेङ्गुदीवेणुबृहतीशिग्रुभ्यः, (भो० ४-४-३४) ।।