72109: दश्च

Padacheda: दः | S | 6 | 1 |

च | S | 0 | 0 |

Sutrartha

इदम्-शब्दस्य दकारस्य विभक्तिप्रत्यये परे मकारादेशः भवति ।

इदम्-सर्वनामशब्दस्य दकारस्य विभक्तिप्रत्यये परे मकारादेशः भवति । यथा - 1) इदम् + अम् [द्वितीयैकवचनस्य प्रत्ययः] → इद अ + अम् [त्यदादीनामः (7.2.102) इति मकारस्य अकारादेशः] → इद + अम् [अतो गुणे (6.1.97) इति पररूपः अकारः] → इम + अम् [दश्च (7.2.109) इति दकारस्य मकारः] → इमम् [अमि पूर्वः (6.1.107) इति अम्-प्रत्यये परे पूर्वरूपम्] 2) इदम् + औ / औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः] → इद अ + औ / औट् [त्यदादीनामः (7.2.102) इति मकारस्य अकारादेशः] → इद + औ / औट् [अतो गुणे (6.1.97) इति पररूपः अकारः] → इम + औ / औट् [दश्च (7.2.109) इति दकारस्य मकारः] → इमौ [वृद्धिरेचि (6.1.88) इति वृद्धि-एकादेशः] 3) इदम् + औ / औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः] → इद अ + औ / औट् [त्यदादीनामः (7.2.102) इति मकारस्य अकारादेशः] → इद + औ / औट् [अतो गुणे (6.1.97) इति पररूपः अकारः] → इद + टाप् + औ / औट् [स्त्रीत्वं द्योतयितुम् अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः] → इदा + शी [औङः आपः (7.1.18) इति आबन्तात् परस्य औ/औट्-प्रत्यययोः शी-आदेशः] → इमा + ई [दश्च (7.2.109) इति दकारस्य मकारः] → इमे [आद्गुणः (6.1.87) इति गुणादेशः] ज्ञातव्यम् - अव्ययसर्वनाम्नामकच् प्राक्टेः (5.3.71) अनेन सूत्रेण इदम्-शब्दस्य स्वार्थे ‘अकच्’ प्रत्ययः विधीयते । एवं क्रियते चेत् ‘इदकम्’ इति प्रातिपदिकं सिद्ध्यति । अस्य प्रातिपदिकस्य दकारस्यापि अनेन सूत्रेण मकारादेशः भवति । यथा - इदकम् + टा [तृतीयैकवचनस्य प्रत्ययः] → इदक अ + आ [त्यदादीनामः (7.1.102) इति मकारस्य अकारः] → इदक + आ [त्यदादीनामः (7.1.102) इति मकारस्य अकारः] → इमक + आ [दश्च (7.2.109) इति दकारस्य मकारादेशः] → इमक + इन [टाङसिङसामिनात्स्याः (7.1.12) इति टा-इत्यस्य इन-आदेशः] → इमकेन [आद्गुणः (6.1.87) इति गुण-एकादेशः]

Sutrartha (English)

The दकार of the word इदम् is converted to a मकार when followed by a विभक्तिप्रत्यय.

Vasu English Summary

म् is substituted for the द् of इदम् before a विभक्ति affix.

Vasu English Translation

म् is substituted for the द् of इदम् before a विभक्ति affix. As इमौ, इमे, इमम्, इमौ, इमान् ॥ Thus इदम् + अम् = इदअ + अम् (7.2.102) = इमअ + अम् (7.2.109) = इमम् (6.1.97), (6.1.107).

Kashika

इदमो दकारस्य स्थाने मकारादेशो भवति विभक्तौ परतः। इमौ, इमे। इमम्, इमौ, इमान्॥

Siddhanta Kaumudi

इदमो दस्य मः स्याद्विभक्तौ । इमौ । इमे । त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः ॥

Laghu Siddhanta Kaumudi

इदमो दस्य मः स्याद्विभक्तौ। इमौ। इमे। त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः॥

Balamanorama

दश्च - दश्च । ‘इदमो मः’ इत्यनुवर्तते । ‘द’ इति षष्ठी । इदमो दकारस्येति । लभ्यते । ‘अष्टन आ विभक्तौ’ इत्यतोऽतिव्यवहितमपि विभक्तावित्येतन्मण्डूकप्लुत्याऽनुवर्तते । ‘तदोः सः सौ’ इत्यतः साविति तु संनिहितमपि नानुवर्तते, सौ इदमो दस्याऽभावात्, ‘यः सौ’ इत्युत्तरसूत्रे सौग्रहणाच्च । तदाह-इदमो दस्येत्यादिना । तथाच इम-औ इति स्थिते रामवद्रूपाणीत्याह — इमावित्यादि । त्यदादेः संबोधनं नास्तीति । प्रचुरप्रयोगाऽदर्शनादिति भावः । नन्वेवं सति ‘तदोः सः सो’ इति सूत्रे ‘हे स’ इति भाष्यविरोध इत्यत आह-उत्सर्ग इति प्रायिकमित्यर्थः ।

Tattvabodhini

दश्च - उत्सर्ग इति । तेनतदोः सः सा॑बिति सूत्रेअनन्त्ययोरिति किं हे स॑इति भाष्यं,भो अच्युत॒॑भवन्नच्युते॑त्यादि प्रयोदाश्च न विरुध्यन्त इति भावः ।

Nyaas

इदमः इति वर्तते, सौ इति निवृत्तम्; उत्तरसूत्रे पुनः सौ इति वचनात्। तेनायं विभक्तिमात्रे दाकारस्य मकारो भवति॥

Praudhamanorama

उत्सर्ग इति। तेन ‘तदोः सः सौ’ इति सूत्रेऽनन्त्ययोरिति किम्? ‘हे स’ इति भाष्यं ‘भो अच्युत भवन्नच्युत’ इति च न विरुद्ध्यत इति भावः। नास्तीत्यत्र मूलं तु प्रचुरप्रयोगादर्शनमेव। यत्त्वाहुः— इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपम्। अदमस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात्॥1॥ इति वचनादेवंविधस्यार्थस्याभिनुखीकरणानर्हत्वादिति; तदापाततः, सन्निकृष्टादिशब्दानामिव इदमादीनामपि सम्बोध्यसमर्पकत्वे बाधकाभावात्। विप्रकृष्टस्यापि बुद्ध्या सन्निधापितस्य बहुशः सम्बोधनदर्शनाच्च। तथा च भट्टिः- ‘हापितः क्वासि हे सुभ्रु बह्वेवं विललाप सः’ इति। अनाप्यकः (7.2.112)

Sudha

दश्चेति । **इदमो मः**(7.2.108) इत्यनुवर्तते । **अष्टन आ विभक्तौ**(7.2.84) इत्यतो मण्डूकप्लुत्या विभक्कावित्यनुवर्तते । द इति पष्ठी । इदमो दकारस्येति लभ्यते, तदाह - इदमो दस्येत्यादिना । इमौ । इदम् + औ इति स्थिते अत्र **त्यदादीनामः**(7.2.102) इति मस्य अत्वे ‘इद अ औ’ इति जाते **अतो गुणे**(6.1.97) इत्यनेन पररूपे ‘इद औ’ इति भूते **दश्च**(7.2.109) इत्यनेन दकारस्य मकारे विहिते वृद्धौ कृतायाम् ‘इमौ’ इति रूपं सिद्धम् । इमे । इदम् + जस् इत्यत्र **त्यदादीनामः**(7.2.102) इत्यकारान्तादेशे ‘इद अ जस्’ इति स्थिते **अतो गुणे**(6.1.97) इति पररूपे **जसः शी**(7.1.17) इति शीत्वे शस्येत्संज्ञायां लोपे च **आद्गुणः**(6.1.87) इति गुणे **दश्च**(7.2.109) इति दकारस्य मकारे ‘इमे’ इति रूपम् । त्यदादेः सम्बोधनं नास्तीति । प्रचुरप्रयोगादर्शनादिति भावः ।