72100: अचि र ऋतः¶
Padacheda: अचि | S | 7 | 1 |
रः | S | 1 | 1 |
ऋतः | S | 6 | 1 |
Sutrartha¶
तिसृ-शब्दस्य चतसृ-शब्दस्य ऋकारस्य अजादि-विभक्तौ परे रेफादेशः भवति ।
त्रि-शब्दस्य चतुर्-शब्दस्य स्त्रीत्वस्य विवक्षायाम् विभक्तिप्रत्यये परे त्रिचतुरोः स्त्रियां तिसृचतसृ (7.2.99) इत्यनेन तिसृ/चतसृ आदेशौ भवतः । अजादौ विभक्तिप्रत्यये परे एतयोः ऋकारस्य रेफादेशः भवति । यथा - 1) तिसृ + जस् [प्रथमैकवचनस्य प्रत्ययः] इत्यत्र - इको यणचि (6.1.77) इत्यनेन यणादेशे (= रेफे) प्राप्ते - परत्वात् प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते - वार्णादाङ्गं बलीयः अनया परिभाषया , अपवादत्वेन च अचि र ऋतः (7.2.100) इति ऋकारस्य रेफादेशः विधीयते । → तिस्रः [विसर्गनिर्माणम्] तथैव ‘चतस्रः’ इत्यपि सिद्ध्यति । 2) प्रियतिसृ + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः] इत्यत्र - इको यणचि (6.1.77) इत्यनेन यणादेशे (= रेफे) प्राप्ते - परत्वात् ऋत उत् (6.1.102) इत्यनेन पूर्वपरयोः एकत्वेन उत्वे प्राप्ते - वार्णादङ्गं बलीयः अनया परिभाषया , अपवादत्वेन च अचि र ऋतः (7.2.100) इति ऋकारस्य रेफादेशः विधीयते । → प्रियतिस्रः [विसर्गनिर्माणम्] तथैव प्रितचतसृ-शब्दस्यापि पञ्चमी-षष्ठ्येकवचनस्य रूपम् ‘प्रियचतस्रः’ इति जायते । 3) प्रियतिसृ + ङि [सप्तम्येकवचनस्य प्रत्ययः] इत्यत्र - इको यणचि (6.1.77) इत्यनेन यणादेशे (= रेफे) प्राप्ते - वार्णादङ्गं बलीयः अनया परिभाषया ऋतो ङि सर्वनामस्थानयोः (7.3.110) इति अङ्गस्य गुणे प्राप्ते - अपवादत्वेन अचि र ऋतः (7.2.100) इति ऋकारस्य रेफादेशः विधीयते । → प्रियतिस्रि तथैव प्रियचतसृ-शब्दस्य ‘प्रियचतस्रि’ इति रूपं सिद्ध्यति । 4) तिसृ + आम् अस्य विषये वर्तमानसूत्रस्य प्रतिषेधं कृत्वा नुडागमः विधीयते । यथा - तिसृ + आम् [षष्ठीबहुवचनस्य प्रत्ययः] → तिसृ + नुट् + आम् [ अचि र ऋतः (7.2.100) इति ऋकारस्य रेफादेशे प्राप्ते ; तस्मिन्नेव समये ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन प्रत्ययस्य नुडागमे अपि प्राप्ते <! नुम्-अचिर्-तृज्वद्भावेभ्यः नुट् पूर्वविप्रतिषेधेन !> इति वार्तिकस्य प्रयोगः क्रियते । अनेन वार्तिकेन नुडागमः एव भवति, अचि र ऋतः (7.2.100) इति रेफादेशः न ।] → तिसृनाम् [नामि (6.4.3) इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घे प्राप्ते न तिसृचतसृ (6.4.4) इति निषेधः] → तिसृणाम् [ अनेन वार्तिकेन णत्वम् भवति ] अनेन प्रकारेण वर्तमानसूत्रम् ‘पूर्वसवर्णदीर्घः’, ‘उत्वम्’ तथा ‘गुणादेशः’ - एतेषामपवादरूपेण आगच्छति, तथा नुडागमः वर्तमानसूत्रस्य प्रतिषेधं कृत्वा प्रवर्तते ।
Sutrartha (English)¶
The ऋकार of the words तिसृ and चतसृ is converted to रेफ when followed by an अजादि-विभक्तिप्रत्यय.
Vasu English Summary¶
र् is substituted for ऋ of तिसृ and चतसृ before the case-affixes beginning with a vowel.
Vasu English Translation¶
र् is substituted for ऋ of तिसृ and चतसृ before the case-affixes beginning with a vowel. Thus तिस्रः, (in तिस्रस्तिष्ठन्ति, तिस्रः पश्य) चतस्रस्तिष्ठन्ति, चतस्रः पश्य ॥ प्रियतिस्र आनय, प्रियचतस्र आनय, प्रियतिस्रः त्वम्, प्रियचतस्रः त्वम् ॥ प्रियतिस्रि निधेहि, प्रियचतस्रि निधेहि ॥ This supersedes (6.1.102) (ordaining the single long substitution of the form of the first), (6.1.111) (substitution of उर् for ॠ), and (7.3.110) (the substitution of guna). The last rule (7.3.110), though subsequent in order, is however superseded by this rule. Why ‘before the affixes beginning with a vowel?’ Observe तिसृभिः, चतसृभिः ॥ The ॠतः of the sutra refers to the ॠ of तिसृ and चतसृ and not to a ॠ ending stem in general: and had it not been used in the sutra, the latter would have stood thus अचिरः “र् is substituted for the final of the words above-mentioned before an affix beginning with a vowel.” So र् would have been substituted for the final of त्रि and चतुर् also.
Bhashya¶
अचि र ऋतः ॥ अचि रादेशे जस्युपसङ्ख्यानं गुणपरत्वात् ॥ अचिरादेशे जस्युपसङ्ख्यानं कर्तव्यम् । तिस्रस्तिष्ठन्ति चतस्रस्तिष्ठन्ति ॥ किं पुनः कारणं न सिध्यति ? ॥ गुणपरत्वात् । परत्वाद्गुणः प्राप्नोति ॥ तत्तर्हि वक्तव्यम्(1) ? ॥ न वाऽनवकाशत्वाद्रस्य ॥ न वा वक्तव्यम्(2) ॥ किं कारणम् ? ॥ अनवकाशत्वाद्रस्य अनवाकाशो रादेशो गुणं बाधिष्यते ॥ सावकाशो रादेशः ॥ कोऽवकाशः ? ॥ तिस्रः पश्य चतस्रः पश्य ॥ नैषोऽस्त्यवकाशः, अत्रापि पूर्वसवर्णदीर्घः प्राप्नोति । स यथैव पूर्वसवर्णं बाधते एवं गुणमपि बाधिष्यते ॥ गुणोऽप्यनवकाशः ॥ सावकाशो गुणः ॥ कोऽवकाशः ? ॥ हे कर्तः नैष सर्वनामस्थाने गुणः ॥ कस्तर्हि ? ॥ संबुद्धिगुणः ॥ अयं तर्हि - हे मातः ! ॥ एषोऽपि संबुद्धिगुण एव ॥ नाऽत्र संबुद्धिगुणः प्राप्नोति ॥ किं कारणम् ? ॥ अम्बार्थनद्योर्ह्रस्व इति ह्रस्वत्वेन भवितव्यम् ॥ भवेदीर्घाणां ह्रस्ववचनसार्मथ्यान्न स्यात्, ह्रस्वानां तु खलु(1) ह्रस्वत्वं क्रियतां संबुद्धिगुण इति परत्वात्संबुद्धिगुणेन भवितव्यम् ॥ अथापि कथं चित्सावकाशो गुणः स्यादेवमपि न(1) दोषः, पुरस्तादपवादा अनन्तरान्विधीन्बाधन्त इत्येवमयं रादेशो जसि गुणं बाधते सर्वनामस्थानगुणं न बाधिष्यते । तस्मात्सुष्ठूच्यते - अचि रादेशे जस्युपसङ्ख्यानं गुणपरत्वादिति ॥ (अचि र ऋतः ) ॥
Kashika¶
तिसृ चतसृ इत्येतयोर्ऋतः स्थाने रेफादेशो भवत्यजादौ विभक्तौ परतः। तिस्रस्तिष्ठन्ति। तिस्रः पश्य। चतस्रस्तिष्ठन्ति। चतस्रः पश्य। प्रियतिस्र आनय। प्रियचतस्र आनय। प्रियतिस्रः स्वम्। प्रियचतस्रः स्वम्। प्रियतिस्रि निधेहि। प्रियचतस्रि निधेहि। पूर्वसवर्णोत्त्वङिसर्वनामस्थानगुणानामपवादः। परमपि ङिसर्वनामस्थानगुणं पूर्वविप्रतिषेधेन बाधते। अचीति किम्? तिसृभिः। चतसृभिः। ऋत इति किम्? तिसृचतस्रोः प्रतिपत्त्यर्थम्, अन्यथा हि तदपवादस्त्रिचतुरोरेवायमादेशो विज्ञायेत॥
Siddhanta Kaumudi¶
तिसृचतसृ एतयोर्ऋकारस्य रेफादेशः स्यादचि । गुणदीर्घोत्वानामपवादः । तिस्रः । तिस्रः । आमि नुमचिरेति नुट् ॥
Laghu Siddhanta Kaumudi¶
तिसृचतसृ एतयोर्ऋकारस्य रेफादेशः स्यादचि। गुणदीर्घोत्वानामपवादः। तिस्रः। तिस्रः । तिसृभिः । तिसृभ्यः। तिसृभ्यः। आमि नुट्॥
Balamanorama¶
अचि र ऋतः - अचि र ऋतः । पूर्वसूत्रात्तिसृचतसृ इत्यनुवर्तते । तच्चेह लुप्तषष्ठीकमाश्रीयते । तदाह-तिसृ इत्यादिना । ननुइको यणची॑त्येव सिद्धमित्यत आह-गुणदीर्घोत्त्वानामपवाद इति ।ऋतो ङी॑ति गुणस्य,प्रथमयो॑रिति पूर्वसवर्णदीर्घस्य,ऋत उ॑दित्त्युत्त्वस्य च रत्वमपवाद इत्यर्थः । तिरुआ इति । जश्शसोः रूपम् । तत्र जसिऋतो ङी॑ति गुणस्य रत्वमपवादः । शसि तु ‘प्रथमयोः’ इति पूर्वसवर्णदीर्घस्य रत्वमपवादः । आमीति । तिसृ-आम् इति स्थिते नुटं बाधित्वा ‘अचि र ऋतः’ इति रत्वे तिरुआआमिति प्राप्तेनुमचिरतृज्वद्भावगुणेभ्यो नुट् पूर्वविप्रतिषेधेने॑ति रत्वं बाधित्वा नुडित्यर्थः ।
Tattvabodhini¶
अचि र ऋतः - गुणदीर्घोत्वानामिति । तिस्त्रस्तिष्ठन्ती त्यत्रऋतो ङी॑ति गुणस्य रत्वमंपवादः ।तिरुआः पश्ये॑त्यत्र तुप्रथमयो॑रिति पूर्वसवर्णदीर्घस्यापवादः ।प्रियतिरुआ आगतः॒॑प्रियतिरुआः स्व॑मित्यत्रऋत उ॑दित्युत्त्वस्येति विवेकः । यद्यपि मध्ये ।पवादन्यायेन दीर्घोत्त्वयोरेव रत्वमपवादः स्यान्न तुऋतो ङी॑ति गुणस्य, तथापि बाध्यसमान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्वमेव हि बाध्यत इति भावः ।
Padamanjari¶
पूर्वसवर्णोत्वेत्यादि । तिस्नः पश्येत्यत्र प्रथमयोः पूर्वसवर्णः इत्यस्यापवादः । प्रियतिस्नः स्वमित्यत्र ऋत उत् इत्युत्वस्य । प्रियतिस्नि, प्रियतिस्नौ, प्रियतिस्नस्तिष्ठन्तीत्यत्र ऋतो ङिसर्वनामस्थानयोः इति गुणस्य । ननु यत्र विध्यन्तरस्याप्राप्तिः - प्रियतिस्ना, प्रियतिस्ने, प्रियतिस्नोरिति, तत्र इकोयणचि इत्येव सिद्धमिति विध्यन्तरस्य विषये इदमारभ्यते तत्र मध्येऽपवादाः पूर्वान्विधीन् बाधन्ते इति उत्वपूर्वसवर्णौ बाधत इति युक्तम्, गुणविषये तु परत्वात् स एव स्यात् इत्यत आह - परमपि हीति । ऋत इति किमिति । तिसृचतस्नोरनुवृत्तोः अलोऽन्त्यस्य इत्येव सिद्धमिति प्रश्नः । तिसृचतस्नोः प्रतिपत्यर्थमिति । तिसृचतस्नोरादेशयोरजादावपि विभक्तौ प्रतिपतिर्यथा स्यादित्यर्थः । अन्यथा हीति । ऋतः इत्यनुच्यमाने षष्ठीनिर्द्दिष्टत्वात् त्रिचतुरोरेवायमादेशः स्यात्, स च नाप्राप्तयोस्तिसृचतस्नोर्विधीयत इति तयारपवादः स्यादित्यर्थः ॥
Nyaas¶
किमर्थं पुनरचि रादेश उच्यते, न यणादेशेन सिद्धत्वात्? इत्यत आह - पूर्वसवर्ण इत्यादि। असति ह्रेतस्मिन्? सूत्रे शसि प्रथमयोः पूर्वसवर्णः (6.1.102) इति पूर्वसवर्णः स्यात्, ङसिङसोश्च (6.1.110) ऋत उत् (6.1.107) इत्युत्त्वञ्च, सर्वनामस्थाने ङौ च ऋतो ङिसर्वनामस्थानयोः (7.3.110) गुणः। तस्मादेतेषामपवादोऽयं रेफादेश आरभ्यते। ननु युक्तः पूर्वसवर्णस्योत्त्वस्य चेहायमपवादो रेफादेशः, गुणस्य त्वयुक्तः; यस्मात्, मध्येपवादाः पूर्वान्? विधीन्? बाधन्ते नोत्तरान् (व्या।प।10) इति? अत आह - परमपि इत्यादि। गुणस्यावकाशः - कर्तारौ, हर्तारौ, कर्तरीति; रेफस्यावकाशः - तिस्लः पश्येति, तिरुआस्तिष्ठन्तीति; प्रियतिरिउआ निधेहीति। अत्रोभयप्रसङ्गे पूर्वविप्रतिषेधेन रेफो भवन्? परमपि ङिसर्वनामस्थानगुणं बाधते। ऋत इति किम् इति। एवं मन्यते - तिसृचतसृशब्दावहानुवर्त्तिष्येते। तौ च ऋकारान्तावेवेत्यलोऽन्त्यपरिभाषया (1.1.51) ऋत एव भविष्यति। तिसृचतस्लोः प्रतिपत्त्यर्थम्` इति। तिसृचतस - इत्येतयोरच्यपि परतस्त्रिचतुरोः स्थाने प्रतिपत्तिः=प्राप्तिर्यथा स्यादित्येवमर्थं ऋतः इत्युच्यम्। अन्यथा हि इत्यादि। यदि ऋतः इति नोच्येत, तदा तयोरेव तिसृचतरुआओरयमपवादो विज्ञायेत, ततश्चाजादौ तौ न स्याताम्॥
Praudhamanorama¶
गुणदीर्घोत्वानामिति। तिस्रस्तिष्ठन्तीत्यत्र ‘ऋतो ङि’ इति गुणस्य, तिस्रः पश्येत्यत्र ‘प्रथमयोः’ इति पूर्वसवर्णदीर्घस्य, प्रियतिस्रः आगतः, प्रियतिस्रः स्वमित्यत्र ‘ऋत उत्’ इत्युत्वस्य रत्वमपवाद इत्यर्थः, बाध्यसामान्यचिन्तायां स्वविषये प्राप्तस्य सर्वस्य बाधादिति भावः। विशेषचिन्तायां तु ‘मध्येऽपवादा’ इति न्यायेन दीर्घोत्वयोरेव बाधः स्यान्न तु गुणस्य। सामान्यविशेषपक्षौ च जातिव्यक्तिपक्षवल्लक्ष्यानुरोधाद् व्यवस्थितौ इति कैयटादौ स्पष्टम्। यत्तु व्याचख्युः—अपवादशब्दो बाधकत्वोपलक्षकः। पूर्वविप्रतिषेधेन गुणमपि बाधते इत्याशय इति। तन्निर्मूलं क्लिष्टं च। यदपि प्रसादकृतोक्तम्— गुणस्य पूर्वविप्रतिषेधेनेतरयोः परविप्रतिषेधेन बाधक इत्यर्थ इति। तन्न, रविधेरचरितार्थत्वात्। न च टौसोश्चरितार्थता, यणा गतार्थत्वात्।
Prakriyasarvasvam¶
तिसृचतस्रोर्ऋतोऽचि परे रेफः स्यात् । तिस्रः । तिस्रः । तिसृभिः । तिसृभ्यः । तिसृभ्यः । तिसृ आम् । अत्र रत्वं बाधित्वा नुडिष्टः । तिसृ नाम् ।
Sarala¶
अचि - सप्तम्यन्तं, रः - प्रथमान्तम्, ऋतः - षष्ठ्यन्तम् । त्रिचतुरोः स्त्रियां तिसृचतसृ (७.२.९९) इत्यतः - “तिसृचतसृ” इत्यनुवर्त्तते, तच्च षष्ठ्या विपरिणम्यते, तदाह - एतयोरिति । गुणेति । “तिस्रस्तिष्ठन्ति” इत्यत्र प्रथमान्ते ऋतो ङिसर्वनामस्थानयोः (७.३.११०) इतिप्राप्तस्य गुणस्य रत्वमपवादः । “तिस्रः पश्येति” इत्यत्र द्वितीयान्ते प्रथमयोः पूर्वसवर्णः (६.१.१०२) इति पूर्वसवर्णदीर्घस्य रत्वमपवादः । “प्रियतिस्र आगत” इत्यत्र पञ्चम्यां, “प्रियतिस्रः स्वम्” इत्यत्र षष्ठ्यां च ऋत उत् (६.१.१११) इति - उत्त्वस्यायं रेफादेशविधिरपवादो मद्विषये प्राप्तं सर्वं बाध्यते इति बाध्यसामान्यचिन्ताश्रयणादिति विवेकः ॥
Sudha¶
अचिर ऋत इति । पूर्वसूत्रात् तिसृचतसृ इत्यनुवर्तते । तच्चेह लुप्तषष्ठीकमाश्रीयते । तदाह - तिसृ इत्यादिना । गुणदीर्घोत्वानामिति । ऋतो ङिसर्वनामस्थानयोः**(7.3.110) इति गुणस्य **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वसवर्णदीर्घस्य **ऋत उत्**(6.1.111) इत्युत्त्वस्य च रत्वमपवादः इत्यर्थः । **तिस्र इति । ‘त्रि जस्’ इत्यत्र **त्रिचतुरोः स्त्रियां तिसृचतसृ**(7.2.99) इति तिसृ इत्यादेशे जस्येत्सञ्ज्ञत्वे लोपे च ‘तिसृ + अस्’ इति जाते **ऋतो ङिसर्वनामस्थानयोः**(7.3.110) इति गुणे प्राप्ते तं प्रबाध्य **अचि र ऋतः**(7.2.100) इति रेफादेशे संयोगे सस्य रुत्वे रस्य विसर्गत्वे च ‘तिस्रः’ इति रूपम् । शसि तु **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति प्रबाध्य **अचि र ऋतः**(7.2.100) इति रेफादेशे संयोगे सस्य रुत्वे रस्य विसर्गत्वे च कृते ‘तिस्रः’ इति रूपम् । भिसितिसृभिः । भ्यसि - तिसृभ्यः।