72086: युष्मदस्मदोरनादेशे¶
Padacheda: युष्मदस्मदोः | S | 6 | 2 |
अनादेशे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
आ is substituted for the final of युष्मद् and अस्मद् before a case-ending.
Vasu English Translation¶
आ is substituted for the final of युष्मद् and अस्मद् before a case-ending. The substitute case-endings are given in (7.1.27) &c. Thus युष्माभिः, अस्माभिः, युष्मासु, अस्मासु ॥ Why do we say ‘when it is not a substitute’? Observe युष्मत् and अस्मत् (7.1.31). The anuvritti*of हलि need not be read into this *sutra from the preceding, for if that were so, the mention of अनादेशे would become redundant, because as a matter of fact no substitute case-ending begins with a consonant. However, reading this sutra with (7.2.89), we find that the scope of the present sutra is before consonant beginning affixes.
Bhashya¶
युष्मदस्मदोरनादेशे अनादेशग्रहणं(2) शक्यमकर्तुम् ॥ कथम् ? ॥ हलीत्यनुवर्तते(3) । न चादेशो हलादिरस्ति ॥ तदेतदनादेशग्रहणं तिष्ठतु तावत्सांन्यासिकम् ॥ ( युष्मद ) । -7-2-89 योऽचि अज्ग्रहणं शक्यमकर्तुम्(1) ॥ कथम् ? ॥ अविशेषेण यत्वमुत्सर्गस्तस्य हलादावात्वमपवादः । ( योऽचि ) ॥
Kashika¶
युष्मदस्मदित्येतयोरनादेशे विभक्तौ परत आकारादेशो भवति। युष्माभिः। अस्माभिः युष्मासु। अस्मासु। अनादेश इति किम्? युष्मत्। अस्मत्। हलीत्यधिकारादप्यत्र न स्यात्। उत्तरत्र त्वनादेशग्रहणेन प्रयोजनं योऽचि (७.२.८९) इति तदिहैव क्रियते॥
Siddhanta Kaumudi¶
अनयोराकारः स्यादनादेशे हलादौ परे । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ॥
Laghu Siddhanta Kaumudi¶
अनयोरात्स्यादनादेशे हलादौ विभक्तौ । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ॥
Balamanorama¶
युष्मदस्मदोरनादेशे - युष्मदस्मदोरनादेशे । ‘अष्टन आ विभक्तौ’ इत्यत आ इति विभक्ताविति चानुवर्तते ।रायो हली॑त्यतो हलीत्यनुवृत्तं विभक्तिविशेषणम् । तदादिविधिः । तदाह-अनयोरिति । युष्मदस्मदोरन्त्यस्येत्यर्थः । वस्तुतस्तु हलीति नानुवर्तनीयम् । ‘योऽचि’ इत्यजादौ यत्वविधानेन परिशेषादेव तत्सिद्धेः । युवाभ्यामावाभ्यामिति । युष्मद् भ्याम्, अस्मद् भ्यामिति स्थिते युवावादेशयोर्दकारस्य आत्वे सवर्णदीर्घ इति भावः । त्र हलीत्यनुवृत्तौयोऽची॑त्यज्ग्रहणं मास्तु । हलादावात्वस्य विशेषविहितत्वादेव यत्वनिवृत्तिसिद्धेरिति भाष्ये स्पष्टम् । युष्माभिः अस्माभिरिति ।युष्मदस्मदोरनादेशे॑ इत्यात्वे सवर्णदीर्घ इति भावः । अथ चतुर्थी । युष्मद् ए, अस्मद् ए इति स्थितौ ‘त्वमावेकवचने’ इति प्राप्ते- ।
Tattvabodhini¶
युष्मदस्मदोरनादेशे - युष्मदस्मदोरमादेशे । आदेशे किम्युष्मभ्यम् । न चाऽभ्यम्पक्षे आदेशो हलादिर्नत्यनादेशग्रहणं त्यक्तु शक्यमिति वाच्यं,योऽचीच्यच्त्राऽनुवृत्त्यर्थं तस्यावश्यकत्वात् । हलादौ परे इति ।योऽची॑त्यज्ग्रहणात्परिशेषसिद्धमिदम्,रायौ हली॑त्यतोऽनुवृत्त्या लब्धं वा ।
Padamanjari¶
युष्मदस्मदिति । पञ्चम्यां अत् इति भ्यसोऽद्भावः । हलीत्यधिकारादप्यत्र न स्यादिति । न चादेशो हलादिरस्ति, भ्यसोभ्यम् त्यियं तु अभ्यमादेशः । उतरत्रेति । योऽचि इति यत्वमादेशे मा भूत् त्वमहमित्यादौ शेषे लोपः इति शेषव्यवस्थार्थं च । तदिहैव क्रियत इति । लघवे विशेषाभावात् ॥
Nyaas¶
युष्मत्, अस्मत् इति। पञ्चम्या अत् (7.1.31) इति पञ्चमीभ्यसोऽदादेशः, शेषे लोपः (7.2.90) इत्यन्तलोपे कृते अतो गुणे (6.1.97) पररूपत्वम्। यदि च हलीत्यधिकारादत्राप्यात्त्वं न स्यात्, तत्? किमर्थमनादेशग्रहणम्? इत्याह - उत्तरत्र तु इत्यादि। उत्तरत्र योऽचि (7.2.89) इति सूत्रेऽनादेशस्य प्रयोजनमिति। यद्येवं तत्रैव कर्तव्यम्, इह किमर्थं क्रियते? विस्पष्टार्थमित्यभिप्रायः॥
Praudhamanorama¶
हलादाविति। योऽचीत्यज्ग्रहणात्परिशोषात्सिद्धमिदम्। रायो हलीत्यतोऽनुवृत्त्या लब्धं वा। नन्वेवं किमनादेशग्रहणेन न त्वादेशो हलादिरस्ति? मैवम्। भ्यसः सत्वात्। अभ्यस्पक्षे तु योऽचीत्यत्रानुवृत्त्यर्थमनादेशग्रहणं बोध्यम्।
Prakriyasarvasvam¶
अनयोरनादेशे हलादौ सुपि पर आत् स्यात् । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः । ‘ङे प्रथमयोः—’ (७-१-२८) इत्यम् ।
Sudha¶
युष्मदस्मदोरिति । **अष्टन आ विभक्तौ**(7.2.84) इत्यतः ‘आ’ इति विभकाविति चानुवर्तते । **रायो हलि**(7.2.85) इत्यतो हलीत्यनुवृत्तं विभक्तिविशेषणम् । तदादिविधिस्तदाह - अनयोरित्यादिना । युवाभ्याम्, आवाभ्याम् । ‘युष्मद् भ्याम्’ अस्मद् +भ्याम् इत्यत्र **युवावौ द्विवचने**(7.2.92) इति मपर्यन्तस्य युवादेशे आवादेशे च विहिते ‘युव अद् भ्याम्’ ‘आव अद् भ्याम्’ इति जाते **अतो गुणे**(6.1.97) इति पररूपत्वे **युष्मदस्मदोरनादेशे**(7.2.86) इति दकारस्य ‘आ’ आदेशे विहिते **अकः सवर्णे दीर्घः**(6.1.101) इति दीर्घादेशे ‘युवाभ्याम्’ ‘आवाभ्याम्’ इति स्तः । युष्माभिः अस्माभिः । युष्मद् + भिस् अस्मद् + भिस् इत्यत्र **युष्मदस्मदोरनादेशे**(7.2.86) इति दस्य स्थाने आकारे विहिते **अकः सवर्णे दीर्घः**(6.1.101) इति दीर्घत्वे सस्य रुत्वे विसर्गत्वे च कृते ‘युष्माभिः’ ‘अस्माभिः’ इति ।