72084: अष्टन आ विभक्तौ

Padacheda: अष्टनः | S | 6 | 1 |

आः | S | 1 | 1 |

विभक्तौ | S | 7 | 1 |

Sutrartha

अष्टन्-शब्दस्य हलादौ विभक्तिप्रत्यये परे विकल्पेन आकारादेशः भवति ।

‘अष्टन्’ इति नकारान्तः सङ्ख्यावाची शब्दः । अस्य शब्दस्य हलादि-विभक्तिप्रत्यये परे विकल्पेन आकारादेशः भवति । यथा - अष्टन् + भिस् → अष्टाभिः [अष्टन आ विभक्तौ इत्यनेन नकारस्य वैकल्पिकः आकारादेशः ] आकारादेशस्य अभावे नकारस्य नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन लोपं कृत्वा ‘अष्टभिः’ एतत् रूपमपि सिद्ध्यति । यस्मिन् समस्तपदे अष्टन्-शब्दः आगच्छति, तस्य शब्दस्यापि अनेन सूत्रेण वैकल्पिकः अकारादेशः भवति । यथा, ‘अष्ट प्रियाः यस्य सः’ अस्मिन् अर्थे प्रियाष्टन्’ इति प्रातिपदिकम् सिद्ध्यति । अस्यापि तृतीयाबहुवचनस्य रूपद्वयं भवति - प्रियाष्टाभिः, प्रियाष्टभिः । ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘हलि’ इति पदम् रायो हलि (7.2.85) इति अग्रिमसूत्रात् ‘अपकर्षते’ । 2. यद्यपि अस्मिन् सूत्रे ‘वा’ इत्यस्य अनुवृत्तिः नास्ति, तथापि आचार्येण स्वयम् अष्टनो दीर्घात् (6.1.172) अस्मिन् सूत्रे ‘दीर्घ-आदेशकृत-अष्टन-शब्दात् परा असर्वनामस्थाना विभक्तिः उदात्ता भवति’ इति उक्तमस्ति । एतत् अस्यैव ज्ञापकम् यत् दीर्घग्रहणम् वैकल्पिकम् स्यात्, न हि नित्यम् । अतः अनेन सूत्रेण निर्दिष्टः दीर्घादेशः विकल्पेन भवति । 3. अस्मिन् सूत्रे ‘आ’ इति निरनुनासिक-आकारस्य निर्देशः कृतः अस्ति । अत्र सवर्णग्रहणं न भवति, अतः यद्यपि अयमादेशः नकारस्य स्थाने भवति, तथापि अननुनासिक-आकारः एव विसर्गरूपेण आगच्छति । 4. अष्टन् + आम् इत्यत्र आदौ षट्चतुर्भ्यश्च (7.1.55) इत्यनेन आम्-प्रत्ययस्य नुडागमं कृत्वा ततः नोपधायाः (6.4.7) इत्यनेन अङ्गस्य उपधा-आकारस्य दीर्घे प्राप्ते विप्रतिषेधात् तं बाधित्वा प्रकृतसूत्रेण उपधादीर्घं कृत्वा अष्टानाम् इति रूपं सिद्ध्यति । पक्षे नोपधायाः (6.4.7) इत्यनेन अङ्गस्य उपधा-आकारस्य दीर्घे कृते ततः नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन नकारलोपं कृत्वा पुनः अष्टानाम् इत्येव रूपं सिद्ध्यति ।

Sutrartha (English)

The word अष्टन् gets an optional आकारादेश when followed by a हलादि विभक्तिप्रत्यय.

Vasu English Summary

आ is substituted for the final of अष्टन् before a case-ending.

Vasu English Translation

आ is substituted for the final of अष्टन् before a case-ending. Thus अष्टाभिः, अष्टाभ्यः, अष्टानाम्, अष्टासु ॥ Why ‘before a case-ending’? Observe अष्टत्वम्, अष्टता ॥ The rule of this sutra is an optional one, and we have in the alternative अष्टभिः, अष्टभ्यः ॥ The आ in the sutra indicates the individual letter आ, and not आ belonging to the general class आ ॥ For the generic आ would include the nasalised आं also, and as the letter replaced (अन्) is a nasal, the substitute would have been also nasal आँ, but it is not so. See (6.1.172) and (7.1.22). This rule applies also when the word stands at the end of a compound, as प्रियाष्टानः or प्रियाष्टौः (7.1.22). The word विभक्ति governs the subsequent sutras upto (7.2.114).

Bhashya

अष्टन आ विभक्तौ ॥ अष्टन्जनादिपथिमथ्यात्वेष्वान्तरतम्यादनुनासिकप्रसङ्गः ॥ अष्टन्जनादिपथिमथ्यात्वेष्वान्तरतम्यादनुनासिकः प्राप्नोति । अष्टाभिः अष्टाभ्यः । जातः जातवान् । पन्थाः मन्थाः ॥ 8 ॥ सिद्धमनण्त्वात् ॥ सिद्धमेतत् ॥ कथम् ? ॥ अनण्त्वात् ॥ कथमनण्त्वम् ? ॥ अण्सवर्णान्गृह्णातीत्युच्यते न चाऽऽकारोऽण् । ॥ उच्चारणसार्मथ्याद्वा ॥ अथ वा शुद्ध उच्चारमसार्मथ्याद्भविष्यति ॥ नैतौ स्तः परिहारौ । यत्तावदुच्यते - अनण्त्वादिति । न ब्रूमोऽण्सर्वान्गृह्णातीति ॥ कथं तर्हि ? ॥ तपरस्तत्कालस्येति । यदप्युच्यते उच्चारणसार्मथ्याद्वेति । अस्त्यन्यदुच्चारणे प्रयोजनम् ॥ किम् ? ॥ उत्तरार्थं रायो हलीति ॥ एवं तर्हि नेमौ पृथक् परिहारौ । (। ॥ एकपरिहारः ॥) ॥ एकः(1) परिहारोऽयं - सिद्धमनण्त्वादुच्चारणसार्मत्याद्वेति ॥ इह तावदष्टाभिः अष्टाभ्य इति - अनण्त्वात्सिद्धम् । जातः जातवान् । पन्थाः मन्थाः, - उच्चारणसार्मथ्यात्सिद्धम् ॥ यद्येवं पृथक्परिहारयोरपि न दोषो यो यत्र परिहारः स तत्र भविष्यति ॥ (अष्टन आ विभक्तौ) ॥

Kashika

अष्टनो विभक्तौ परत आकारादेशो भवित । अष्टाभिः। अष्टाभ्यः। अष्टानाम्। अष्टासु। विभक्ताविति किम्? अष्टत्वम्। अष्टता। आ इति व्यक्तिनिर्देशोऽयम्, आकृतिनिर्देशे तु नकारस्थानेऽनुनासिकाकारः स्यात्। विकल्पेनायमाकारो भवति, एतद् ज्ञापितम् अष्टनो दीर्घात् (६.१.१७२) इति दीर्घग्रहणाद्, अष्टाभ्य औश् (७.१.२१) इति च कृतात्वस्य निर्देशात्। तेनाष्टभिरष्टभ्य इत्यपि भवति। तदन्तविधिश्चात्रेष्यते। प्रिया अष्टौ येषां ते प्रियाष्टानः, प्रियाष्टौ॥

Siddhanta Kaumudi

अष्टन आत्वं स्याद्धलादौ विभक्तौ ॥

Laghu Siddhanta Kaumudi

हलादौ वा स्यात्॥

Balamanorama

अष्टन आ विभक्तौ - तस्य विशेषमाह — अष्टन आ विभक्तौ ।रायो हली॑त्यो हलीत्यपकृष्यते । तच्च विभक्तेर्विशेषणं, तदादिविधिः । तदाह — अष्टन आत्वमित्यादिना । ग्रहणकसूत्रेऽग्रहणेन वार्णसमाम्नायिकानामेव ग्रहणादाकारस्याऽनण्त्वाद्भाव्यमानत्वाच्च शुद्ध एव नकारस्य आकारः ।

Tattvabodhini

अष्टन आ विभक्तौ - अष्टन आ विभक्तौ । सौत्रत्वादिहाऽल्लोपो न कृतः ।कनिन्युषितक्षी॑त्यतःकनिः नित्यनुवर्तमाने ॑सप्यशूभ्यां तुट् चे॒त्यनेन सप्तन्नष्टन्शब्दौ निष्पन्नौ ।रायौ हली त्युत्तरसूत्राद्धलीत्यपकृष्यते, तच्च विभक्तेर्विशेषणमित्यभिप्रेत्य व्याचष्टे -हलादाविति ।हली॑त्यस्यानपपकर्षणे त्वष्टानामिति न सिध्येत् । परत्वान्नित्यत्वाच्च नुटः प्रागात्वे कृते अनान्तत्वेन षट्संज्ञाऽभावान्तुटोऽप्रवृत्तेः ।न च यथोद्देशपक्षेऽन्तकङ्गत्वात्प्रागेव कृता षट्संज्ञा एकदेशविकृतन्यायेन कृतात्वेऽपि सुलभेति वाच्यम्, अल्विधौ उक्तन्यायऽयौग्त् । किंचप्रियाष्टानौ॒॑प्रियष्टानः॑प्रियष्ट्नः॑प्रियष्ट्ने॑त्याद्यपि न सिध्येत्, उक्तरीत्या तत्राप्यात्वप्रवृत्तेरिति बोध्यम् ।

Padamanjari

सौत्रत्वान्निर्द्देशस्य अल्लोपो न कृतः । व्यक्तिनिर्देशोऽयमिति । यथाश्रुतनिरनुनासिकाकारव्यक्तिर्निर्द्दिश्यत इत्यर्थः । जातिनिर्देशस्तु दुष्ट इत्याह - आकृतिनिर्देशो त्विति । आकृतिर्जातिः, न संस्थानम् । जातिनिर्द्देशे हि शुद्धाया जातेरादेष्टुअशमक्यत्वातदाधारभूतानां व्यक्तीनां विधानम् । तत्र यद्यपि दीर्घोच्चारणसामर्थ्यान्न ह्रस्वप्लुतव्यक्तीनां प्रसङ्गः, दीर्घव्यक्तयस्तु सर्वाः प्रसक्ताः, तत्रान्तर्यतोऽनुनासिकव्यक्तिरेव स्यात्, तस्याः पूर्वेण सह सवर्मदीर्घोऽप्यनुनासिक एव स्यात् । विकल्पेन चायमित्यादि । यथा च दीर्घग्रहणं कृतात्वनिर्द्देशश्चास्मिन्नर्थे लिङ्गं तथा तत्रैव व्याख्यातम् । तदन्तविधिश्चात्रेष्यत इति । अङ्गाधिकारे तस्य तदुतरपदस्य चेति वचनात् । एकवचननिर्देशात्स्वरूपस्य ग्रहणं नार्थस्य तेनोपसर्जनेऽप्यष्टनि भवति, तत्रापि विकल्पितत्वात्प्रियाष्टा, प्रियाष्टानौ, प्रियाष्टान इत्यपि भवति । तत्रापि भसंज्ञाविषये आत्वपत्रे आतो धातोः इत्यकारलोपमिच्छन्ति - प्रियाष्टः पश्येत्यादि, आत्वाभावपक्षे त्वल्लोपे ष्टुअत्वम् - प्रियाष्ट्न इत्यादि भवति ॥

Nyaas

आ इति व्यक्तिनिर्देशोऽयम् इति। शुद्धाया निरनुनासिकाया आकारस्य व्यक्तेरेव निर्देश इत्यर्थः। अथाकृतिनिर्देशे को दोषः स्यात्, यतस्तत्परीहारार्थो व्यक्तिनिर्देशोऽयमाश्रितः? इत्यत आह - आकृतिनिर्देशे हि इत्यादि। जातिरिहाकृतिर्विवक्षिता, न तु संस्थानम्। जातिनिर्देशे सति शुद्धाया जातेर्निर्देष्टुमशक्यत्वात्? तदाधारभूतासु व्यक्तिषु कार्यं विज्ञायते। तत्र यदीह जातिनिर्देश आश्रीयेत, तदा सर्वास्वकारव्यक्तिषु जात्यावारत्वमुपगतासु अलोऽन्त्यस्य (1.1.52) इति नकारस्य विधोपमान आकार आन्तरतम्यादनुनासिकस्य स्थानेऽनुनासिक एव स्यात्। व्यक्तिनिर्देशे त्वेष दोषो न भवति; इत्यादि न सिध्यति, न ह्यत्र विकल्पाभिधायि वचनमस्ति, नपि प्रकृतम्? इत्यत आह - विकल्पेन इत्यादि। अष्टनो दीर्घात् (6.1.172) इत्यनेनाष्टनी दीर्घादसर्वनामस्थानाविभक्तेरुदात्तत्वं विधीयते। यदि च नित्यमात्त्वं स्यात्, दीर्घादिति विशेषणं निरर्थकं स्यात्। अष्टाभ्य औश्` (7.1.21) इत्यत्र च कृतात्त्वस्य निर्देशोऽनर्थकः स्यात्। व्यवच्छेद्याभावदष्टन इत्येवं ब्राऊयात्। तस्माद्दीर्घग्रहेन कृतात्त्वनिर्देशेन विकल्पेनेदमात्त्वं भवतीति ज्ञ#आपितम्। तेनाष्टभिरित्याद्यपि पक्षे उपात्तः; एकवचननिर्देशात्। अन्यथा हि बह्वर्थत्वादष्टानामित्येवं ब्राऊयात्। तस्मात्? स्वरूपधानोयम्। तत्राङ्गे प्रकृतेऽनेन विशेष्यमाणे तदन्तविधिर्लभ्यते। विशेषणेन हि तदन्तविधिर्भतीत्युक्तम्। प्रियाष्टा [नेदमदाहरणं मूले दृश्यते] इति। सर्वनामस्थाने (6.4.8) इत्यादिना दीर्घः॥

Praudhamanorama

हलादाविति। ‘रायो हलि’ इत्युत्तरसूत्राद्धलीत्यपकृष्यते, तच्च विभक्तेर्विशेषणमिति भावः। तेनाऽष्टानामित्यत्र नुटः पश्चादेव सन्निपातपरिभाषाया अनित्यत्वादात्वं, न तु प्राक्। अन्यथा अष्टन् आमिति स्थिते परत्वान्नित्यत्वाच्च आत्वे कृतेऽनान्तत्वे षट्संज्ञाभावान्नुट् न स्यात्। न च यथोद्देशपक्षेऽन्तरङ्गत्वात् प्रागेव कृता षट्संज्ञा एकदेशविकृतन्यायेन कृतात्वेऽपि सुलभेति वाच्यम्। अल्विधौ उक्तन्यायाऽयोगादिति भावः।

Sudha

अष्टन आ विभक्ताविति । अत्र **रायो हलि**(7.2.85) इत्यतो हलीत्यनुवर्तते । तदादिविधिः । तदाह - हलादाविति ।