71076: छन्दस्यपि दृश्यते¶
Padacheda: छन्दसि | S | 7 | 1 |
अपि | S | 0 | 0 |
दृश्यते | T | | |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् (Vedas) also, the अङ्ग (stems) 1. अस्थि 2. दधि 3. सक्थि and 4. अक्षि are found to take the substitute अन् (अनङ्) before the endings other than those mentioned above.
Vasu English Translation¶
In the छन्दस् (Vedas) also, the अङ्ग (stems) 1. अस्थि 2. दधि 3. सक्थि and 4. अक्षि are found to take the substitute अन् (अनङ्) before the endings other than those mentioned above. Thus the substitute is ordained before endings beginning with a vowel. In the Veda it comes before affixes beginning with a consonant. As इन्द्रो दधीचो अस्थ꣡भिः, भद्रं पश्येमाक्ष꣡भिः ॥ The substitute is ordained to come after the Instrumental &c. In the Vedic literature it is found in the Accusative &c. As अस्थानि in अस्थान्युत्कृत्य जुहोति ॥ The substitute comes before case-endings (vibhakti), in the Vedic literature it comes before affixes which are not case-endings, as अक्षण्व꣡ता लाङ्गलेन, अस्थन्व꣡न्तं यदनस्था बिभर्त्ति ॥ See (6.1.176).
Kashika¶
अस्थिदधिसक्थ्यक्ष्णामनङ् छन्दस्यपि दृश्यते। यत्र विहितस्ततोऽन्यत्रापि दृश्यते। अचीत्युक्तमनजादावपि दृश्यते। इन्द्रो॑ दधी॒चो अ॒स्थभिः॑ (ऋ०१.८४.१३)। भ॒द्रं प॑श्येमा॒क्षभिः॑ (मा०सं०२५.२१)। तृतीयादिष्वित्युक्तमतृतीयादिष्वपि दृश्यते। अस्थान्युत्कृत्य जुहोति। विभक्तावित्युक्तमविभक्तावपि दृश्यते। अक्षण्वता लाङ्गलेन। अस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति (ऋ० १.१६४.४)॥
Siddhanta Kaumudi¶
अस्थ्यादीनामनङ् । इन्द्रो दधीचो अस्थभिः (इन्द्रो॑ दधी॒चो अ॒स्थभिः॑) ॥
Padamanjari¶
च्छन्दसि इत्येव सिद्धे अपि दृश्यते इत्येतत्सर्वोपाधिव्यभिचारार्थमन्यथारम्भसामर्थ्यात्कस्यचिदेव व्यभिचारः शङ्क्येत । तदिदमुक्तम् - यत्र विहितस्ततोऽन्यत्रापि दृश्यत इति । अस्थन्वन्तमिति । अनैङ् कृते अनोनुट् इति मतुपो नुट्, अनङे नकारस्य लोपः ॥
Nyaas¶
यतो विहितः इत्यादिनाऽपिशब्दस्य सर्वोपाषिण्यभिचारार्थतां दर्शयति। अस्थभिः इति। अनङि कृते नलोपः। अस्थान्युत्कृत्य इति। शस्यनङ्। अक्षण्वता इति। अत्रापि मतुपि अनो नुट् (8.2.16) इति नुल्यम्। द्वितीयान्तमेतत्। यदनस्थः इति। अस्थि यस्य नास्तीति सावनङ, सर्वनामस्थाने च (6.4.8) इति दीर्घः॥
Prakriyasarvasvam¶
तृतीयाद्यजादिविभक्तौ अस्थ्यादीनामनङ्क्तः सोऽन्यत्रापि दृश्यते । अनजादौ दधीचो अस्थभिः । भद्रं पश्येमाक्षभिः । पदत्वान्नलोपः । तृतीयादेः प्रागपि अस्थ्नानि विकृष्य पचति । असुप्यपि-अस्थन्वन्तं यदनस्था सुपूूर्णस्य दधन्वतः । अक्षण्वन्तः कर्णवन्तः ।