71070: उगिदचां सर्वनामस्थानेऽधातोः

Padacheda: उगिदचाम् | S | 6 | 3 |

सर्वनामस्थाने | S | 7 | 1 |

अधातोः | S | 6 | 1 |

Sutrartha

धातुभिन्नस्य उगित्-शब्दस्य तथा अञ्च् धातोः अङ्गस्य सर्वनामस्थाने परे नुमागमः भवति ।

‘उगित्’ इत्युक्ते ‘उक्’ वर्णः यस्मिन् इत्संज्ञकः अस्ति सः । ‘उक्’ इति प्रत्याहारः । उ, ऋ, ऌ एतेषां ग्रहणमनेन प्रत्याहारेण भवति । यत् प्रातिपदिकमुगित् अस्ति परन्तु धातुसंज्ञकं नास्ति, तस्य अङ्गस्य सर्वनामस्थाने परे अनेन सूत्रेण नुमागमः भवति । ‘अञ्च् गतौ’ इति कश्चन धातुः । ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च (3.2.59) अनेन सूत्रेण अस्मात् धातोः (उपपदस्य उपस्थितौ) क्विन्-प्रत्ययः भवति, येन ‘प्राच्’ , ‘उदच्’ एतादृशानि प्रातिपदिकानि सिद्ध्यन्ति । एतेषामपि अनेन सूत्रेण सर्वनामस्थानपरे नुमागमः भवति । उदाहरणानि पश्यामः - 1. ‘भवतुँ’ अस्मिन् शब्दे उकारः इत्संज्ञकः अस्ति । अस्य पुंलिङ्गस्य प्रथमा-द्विवचनस्य रूपसिद्धेः प्रक्रिया इयम् - भवतुँ + औ [प्रथमाद्विवचनस्य प्रत्ययः] → भवत् + औ [इत्संज्ञालोपः] → भवन् त् औ [उगिदचां सर्वनामस्थानेऽधातोः (7.1.70) इति नुमागमः] → भवं त् औ [नश्चापदान्तस्य झलि (8.3.24) इति अनुस्वारः] → भवन्त् औ [अनुस्वारस्य ययि परसवर्णः (8.4.58) इति परसवर्णः] → भवन्तौ [वर्णमेलनम् ] 2. पठ् धातोः शतृँ-प्रत्ययान्तरूपम् ‘पठतृँ’ अस्मिन् शब्दे ऋकारः इत्संज्ञकः अस्ति । अस्य पुंलिङ्गस्य प्रथमाबहुवचनस्य रूपसिद्धौ - पठतृँ + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → पठत् + अस् [इत्संज्ञालोपः] → पठन् त् + अस् [उगिदचां सर्वनामस्थानेऽधातोः (7.1.70) इति नुमागमः] → पठं त् + अस् [नश्चापदान्तस्य झलि (8.3.24) इति अनुस्वारः] → पठन् त् + अस् [अनुस्वारस्य ययि परसवर्णः (8.4.58) इति परसवर्णः] → पठन्तः [विसर्गनिर्माणम्] 3. ‘प्र + अञ्च् (गतौ) + क्विन्’ इत्यस्मात् निर्मितस्य ‘प्राच्’ अस्य प्रातिपदिकस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे प्रक्रिया इयम् - प्राच् + सुँ [प्रथमैकवचनस्य प्रत्ययः] → प्रान् च् + स् [उगिदचां सर्वनामस्थानेऽधातोः (7.1.70) इति नुमागमः] → प्रान् च् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इति सुँलोपः] → प्रान् [संयोगान्तस्य लोपः (8.2.23) इति चकारलोपः] → प्राङ् [क्विन्प्रत्ययस्य कुः (8.2.62) इति कुत्वम् ।] 4. ‘यावत्’ इति ‘वतुँप्’ प्रत्ययान्तशब्दः । अस्य पुंलिङ्गस्य एकवचनस्य प्रक्रिया इयम् - यावत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → यावात् + सुँ [अत्वसन्तस्य चाधातोः (6.4.14) इति उपधादीर्घः] → यावान् त् + सुँ [उगिदचां सर्वनामस्थाने अधातोः (7.1.70) इति नुमागमः] → यावान् त् [हल्ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इति सुँ-प्रत्ययस्य लोपः] → यावान् [संयोगान्तस्य लोपः (8.2.23) इति तकारलोपः] 5. ईयसुँन्-प्रत्ययान्तः ‘गरीयस्’ शब्दः - गरीयस् + सुँ → गरीय न् स् + स् [उगिदचां सर्वनामस्थानेऽधातोः (7.1.70) इति नुमागमः ] → गरीयान्स् + स् [सान्तमहतः संयोगस्य (6.4.10) इति उपधादीर्घः ।] → गरीयान्स् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इति सुँ-प्रत्ययस्य लोपः] → गरीयान् [संयोगान्तस्य लोपः (8.2.23) इति सकारलोपः] ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रयुक्तः अच्-शब्दः ‘अञ्च् (गतौ)’ इत्यस्य क्विन्प्रत्ययान्तरूपम् । अत्र अच्-इति प्रत्याहारः नास्ति । 2. अञ्च्-धातोः ‘पूजायाम्’ इति अपि कश्चन अर्थः अस्ति । परन्तु अस्मिन् अर्थे अञ्च्-धातोः क्विन्-प्रत्यये कृते ‘अच्’ इति प्रातिपदिकं न सिद्ध्यति, ‘अञ्च्’ इत्येव प्रातिपदिकं सिद्ध्यति । अस्य अनेन सूत्रेण ग्रहणम् न करणीयम् । केवलं ‘अञ्च् गतौ’ इत्यस्य ‘अच्’ इति रूपं यद् जायते, तस्यैव अत्र ग्रहणं करणीयम् । 3. वस्तुतः अस्मिन् सूत्रे ‘अधातुः’ अस्य शब्दस्य प्रयोजनम् नास्तीति भासते, यतः ‘अचाम्’ इत्यनेन केवलं ‘अञ्च्’ धातोः नुमागमः विधीय (नियमेन) ‘अन्येषां धातूनां विषये नुमागमः मा भूत्’ इति स्पष्टीकृतमस्ति । (अस्मिन् विषये काशिकाकारः वदति - ‘अञ्चतिग्रहणं नियमार्थम्, अञ्चतेः एव धातोः, अन्यस्य मा भूत् ।’) । परन्तु तथाप्यत्र ‘अधातुः’ शब्दस्य पाणिनिना ग्रहणं कृतमस्ति । अस्मिन् विषये भाष्ये उक्तमस्ति - ‘अधातुभूतपूर्वस्य अपि यथा स्यात्’ । इत्युक्ते, यः शब्दः पूर्व-अवस्थायाम् धातुः नासीत्, परन्तु कस्याश्चन प्रक्रियायाः अनन्तरम् धातुत्वं प्राप्नोति, तस्य शब्दस्य विषये अपि अनेन सूत्रेण नुमागमः भवेत् - इति स्पष्टीकर्तुमत्र ‘अधातोः’ इति उक्तमस्ति । यथा, ‘गोमत्’ इत्युक्ते ‘यस्य समीपे गावः सन्ति, सः’ । अयम् मतुँप्-प्रत्ययान्तशब्दः अस्ति । अस्मात् शब्दात् ‘गोमन्तमात्मानम् इच्छति’ अस्मिन् अर्थे सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्ययं कृत्वा ‘गोमत्य’ इति आतिदेशिकः धातुः सिद्ध्यति । अस्मात् ‘गोमत्य’ धातोः कर्त्रर्थे क्विप्-प्रत्ययं कृत्वा पुनः ‘गोमत्’ इत्येव प्रातिपदिकं सिद्ध्यति, परन्तु तस्य अर्थः - ‘यः गोमन्तमात्मानम् इच्छति सः’ इति जायते । अयम् क्विप्-प्रत्ययान्तः गोमत्-शब्दः क्विबन्ताः धातुत्वं न जहति अनेन सिद्धान्तेन धातुसंज्ञकः अपि अस्ति, तथा च, (मतुप्-प्रत्ययान्तः अस्तीति कारणात्) उगित् अपि अस्ति । ‘अस्य गोमत्-शब्दस्य सर्वनामस्थाने परे नुमागमः भवेत् वा?’ इति पृष्टे ‘अधातुभूतपूर्वस्य अपि यथा स्यात्’ अनेन सिद्धान्तेन अस्यापि नुमागमः भवतीति ज्ञायते, यतः अयम् गोमत्-शब्दः यद्यपि धातुसंज्ञकः अस्ति, तथापि भूतपूर्व-अवस्थायाम् (इत्युक्ते, क्यच्-प्रत्ययस्य प्रयोगात् पूर्वम्) एषः ‘अधातुः’ आसीत् । एतादृशानाम् शब्दानामपि नुमागमः भवेत् इति स्पष्टीकर्तुमत्र ‘अधातोः’ इति ग्रहणं कृतमस्ति । अतः अस्य गोमत्-शब्दस्य प्रथमैकवचनस्य रूपम् ‘गोमान्’ इति सिद्ध्यति । 4. अत्र अधातोः इत्यनेन केवलं धातुसंज्ञकस्य अङ्गस्य निषेधः भवति । धातुनिर्मितस्य अङ्गस्य न । यथा, ‘पठ् + शतृ’ इदं प्रातिपदिकम् यद्यपि धातुनिर्मितं अस्ति, तथापि एतत् धातुसंज्ञकं नास्ति । अतः ‘अधातुः’ इत्यनेन अस्य नुमागमस्य निषेधः न कर्तव्यः । 5. ‘उगित्’ इत्यस्य विषये अस्य सूत्रस्य प्रसक्तिः पुंलिङ्गशब्दानाम् विषये एव भवति । उगित्-नपुंसकलिङ्गशब्दस्य विषये वर्तमानसूत्रेण नुम्-प्राप्ते विप्रतिषेधेन नपुंसकस्य झलचः (7.1.72) इत्यनेन पुनः नुम्-एव विधीयते । प्रश्नः - उगिदचां सर्वनामस्थाने अधातोः (7.1.70) तथा नपुंसकस्य झलचः (7.1.72) एतयोर्मध्ये विप्रतिषेधः कथं सिद्ध्यति ? उत्तरम् - ‘भवन्तौ’, ‘पठन्तः’, ‘अङ्’, ‘यावान्’ - एतेषु शब्देषु उगिदचां सर्वनामस्थाने अधातोः (7.1.70) इत्यस्य प्रसक्तिः अस्ति परन्तु नपुंसकस्य झलचः (7.1.72) इत्यस्य प्रसक्तिः न विद्यते । ‘फलानि’, ‘जगन्ति’, ‘पयांसि’ - एतेषु शब्देषु नपुंसकस्य झलचः (7.1.72) इत्यस्य प्रसक्तिः विद्यते, परन्तु उगिदचां सर्वनामस्थाने अधातोः (7.1.70) इत्यस्य प्रसक्तिः न विद्यते । ‘यावन्ति’ (= यावत् शब्दस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनम्), ‘पठन्ति’ (= ‘पठत्’ शब्दस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनम्) इत्यत्र द्वयोः अपि सूत्रयोः प्रसक्तिः अस्ति । अनेन प्रकारेण अत्र विप्रतिषेधः सिद्ध्यति । (यत्र द्वौ प्रसङ्गौ अन्यार्थौव एकस्मिन् युगपत् प्राप्नुतः, स तुल्यबलविरोधो विप्रतिषेधः - इति काशिका) । अतश्च अत्र विप्रतिषेधे परं कार्यम् (1.4.2) इत्यनेन नपुंसकस्य झलचः (7.1.72) इत्यस्य प्रयोगः भवति । यथा - गो + अञ्च् (गतौ) + क्विन् + जस् [गो-उपपदपूर्वकात् अञ्च् (गतौ) धातोः ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च (3.2.59) इत्यनेन क्विन्-प्रत्ययः, तथा च प्रथमैकवचनस्य जस्-प्रत्ययः] → गवाच् + जस् [अनिदितां हलः उपधायाः क्ङिति (6.4.24) इत्यनेन क्विन्-प्रत्यये परे ‘अञ्चुँ’ धातोः नकारस्य लोपः] → गवाच् + शि [जश्शसोः शिः (7.1.20) इति शि-आदेशः] → गवान् च् + इ [उगिदचां सर्वनामस्थाने अधातोः (7.1.70) इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन नपुंसकस्य झलचः (7.1.72) इति नुमागमः] → गवांचि [नश्चापदान्तस्य झलि (8.3.24) इति अनुस्वारः] → गवाञ्चि [अनुस्वारस्य ययि परसवर्णः (8.4.58) इति परसवर्णः] स्मर्तव्यम् - ‘अञ्च् (पूजायाम्)’ अस्य धातोः विषये वर्तमानसूत्रस्य प्रसक्तिरेव नास्ति, केवलमञ्च् (गतौ) इत्यस्य विषये अस्य प्रयोगः भवति । अतः ‘गो + अञ्च् (गतौ) + क्विन् + जस्’ इत्यत्र तु ‘गवाञ्च्’ इत्येव प्रातिपदिकं सिद्ध्यति, तस्य अग्रे नपुंसकस्य झलचः (7.1.72) इति नुमागमे कृते ‘गवाञ्ञ्चि’ इति द्विनकारयुक्तं रूपं श्रूयते । अस्मिन् विषये नपुंसकस्य झलचः (7.1.72) इत्यत्र भाष्ये विस्तारेण पठितव्यम् ।

Vasu English Summary

Whatever has an indicatory उ , ऋ and ऌ (with the exception of a root) and the अङ्ग (stem) अच् (अञ्चि) get the augment नुम् in the strong cases.

Vasu English Translation

Whatever has an indicatory उ , ऋ and ऌ (with the exception of a root) and the अङ्ग (stem) अच् (अञ्चि) get the augment नुम् in the strong cases. Thus भवतु has an indicatory उ, formed by the Unadi affix डवतुप्, and it is declined as भवान्, भवन्तौ, भवन्तः ॥ Similarly ईयसुन् - श्रेयान्, श्रेयांसौ, श्रेयांसः, शतृ - पचन्, पचन्तौ, पचन्तः ॥ अञ्च - प्राङ्, प्राञ्चौ, प्राञ्चः ॥

Why do we say ‘having an indicatory उक् vowel or the stem अच्’? Observe दृषत्, दृषदौ, दृषदः ॥

Why do we say in strong cases? Observe भवतः पश्य, श्रेयसः पश्य ॥ अञ्च् root is mentioned for the sake of niyama, i.e. of the roots, only अञ्च् gets नुम् and no other root. Therefore उखास्रत्, पर्णध्वत् formed from the roots स्रंसु and ध्वंसु having indicatory उ ॥ (See (3.2.76), (4.1.6), (8.2.72)). For the lengthening in भवान् &c, see (6.4.10), (6.4.14): the च् is elided in प्राङ् by (8.2.23), and न् becomes ङ् by (8.2.62): and त् in स्रत् by (8.2.72).

Why do we say ‘with the exception of a root’ when by the mere fact of including one root अच् all other roots would have been excluded from the scope of this sutra? The specific mention of अधातोः shows that the prohibition applies to original roots, and not to those roots which are derived from nouns. Thus गोमन्तमिच्छति = गोमत्यति formed by क्यच् ॥ Here गोमत्य is a derivative root, in its primitive state it was a noun. The prohibition of अधातोः will not apply to this root and नुम् will be added. Thus गोमत्य + क्विप् = गोमत्य् + ० (the अ is dropped by (6.4.48) = गोमत् + ० (the य् is elided by (6.4.50)). Now is added नुम् and we have गोमान् ॥

Bhashya

उगिदचां सर्वनामस्थानेऽधातोः अधातोरिति किमर्थम् ? ॥ उखास्रत् पर्णध्वत् ॥ ॥ अधातोरिति शक्यमवक्तुम्(1) ॥ कस्मान्न भवति - उखास्रत् पर्णध्वदिति(2) ॥ उगित्यञ्ञ्चतिग्रहणात्सिद्धमधातोः ॥ उगित्यञ्ञ्चतिग्रहणादधातोः सिद्धम् । अञ्ञ्चतिग्रहणं नियमार्थं भविष्यति - अञ्ञ्चतेरेवोगितो धातोर्नान्यस्योगितो(3) धातोरिति ॥ इदं तर्हि प्रयोजनम् - अधातुभूतपूर्वस्यापि(4) यथा स्यात् - गोमन्तमिच्छति गोमत्यति, गोमत्यतेरप्रत्ययः - गोमानिति ॥ ( उगिदचाम् ) ॥

Kashika

उगितामङ्गानां धातुवर्जितानामञ्चतेश्च सर्वनामस्थाने परतो नुमागमो भवति। भवतु — भवान्, भवन्तौ, भवन्तः। ईयसुन् — श्रेयान् श्रेयांसौ, श्रेयांसः। शतृ — पचन्, पचन्तौ, पचन्तः। अञ्चतेः — प्राङ्, प्राञ्चौ, प्राञ्चः। उगिदचामिति किम्? दृषद्, दृषदौ, दृषदः। सर्वनामस्थान इति किम्? भवतः पश्य। श्रेयसः पश्य। अञ्चतिग्रहणं नियमार्थम्, अञ्चतेरेव धातोरन्यस्य मा भूत्। उखास्रत्। पर्णध्वत्। अधातोरिति किम्? अधातुभूतपूर्वस्यापि यथा स्यात्। गोमन्तमिच्छति गोमत्यति, गोमत्यतेरप्रत्ययो गोमान्। अत्र हि धातुत्वादञ्चतिग्रहणाद् न स्यात्॥

Siddhanta Kaumudi

अधातोरुगितो नलोपिनोऽञ्चतेश्च नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । मघवान् । इह दीर्घे कर्तव्ये संयोगान्तलोपस्याऽसिद्धत्वं न भवति बहुलग्रहणात् । तथाच श्वन्नुक्षन्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धमाश्रित्यैतत्सूत्रं प्रत्याख्यातमाकरे ॥ हविर्जक्षिति निःशङ्कोः मखेषु मघवानसाविति भट्टिः । मघवन्तौ । मघवन्तः । हे मघवन् । मघवन्तम् । मघवन्तौ । मघवतः । मघवता । मघवद्भ्यामित्यादि । तृत्वाभावे । मघवा ।<!छन्दसीवनिपौ चेति वनिबन्तं मध्योदात्तं छन्दस्येव !> (वार्तिकम्) ॥ अन्तोदात्तं तु लोकेऽपीति विशेषः । मघवानौ । मघवानः । सुटि राजवत् ॥

Laghu Siddhanta Kaumudi

अधातोरुगितो नलोपिनोऽञ्चतेश्च नुम्स्यात्सर्वनामस्थाने परे। मघवान् । मघवन्तौ। मघवन्तः । हे मघवन् । मघवद्भ्याम् । तृत्वाभावे मघवा । सुटि राजवत् ॥

Balamanorama

उगिदचां सर्वनामस्थानेऽधातोः - उगिदचाम् ।अधातो॑रितिच्छेदः । उक् इत् येषां ते उगितः । ‘अच्’ इति च लुप्तनकारस्य ‘अञ्चु गतिपूजनयोः’ इति धातोग्र्रहणम् । अधातोरित्युगिद्विशेषणम् । न त्वञ्चतेः, असंभवात् ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — अधातोरुगित इत्यादिना । नुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । अजिति अच्प्रत्याहारो न गृह्रते, व्याख्यानात्, ‘नपुंसकस्य झलचः’ इत्यज्ग्रहणाच्च । अन्यथाउगिदचा॑मित्येव सिद्धे तद्वैयथ्र्यात् । वृद्धिर्गुण इत्यादिनिर्देशाच्च । अधातोरित्येतत्तु अग्रे गोमच्छब्दनिरूपणावसरे मूल एव व्याख्यास्यते । तत्प्रयोजनं च तत्रैव वक्ष्यते । उपधादीर्घ इति । मघवन् त् स् इति स्थिते हल्ङ्यादिना सुलोपे संयोगान्तलोपे च सतिसर्वनामस्थाने चे॑ति दीर्घ इत्यर्थः । नन्विह दीर्घे कर्तव्ये संयोगान्तलोपपस्याऽसिद्धत्वान्नान्तत्वाऽभावात् पचन्नित्यादाविव दीर्घो न संभवतीत्यत आह-दीर्घे कर्तव्य इति । बहुलग्रहणादिति ।क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । शिष्टप्रयोगाननुसृत्यलोके विज्ञेयमेतद्बहुलग्रहेतु॥॑ इति स्थितिः । अत्र दीर्घे कर्तव्ये संयोगान्तलोपस्य न#आसिद्धत्वम् । पचन्नित्यादौ त्वसिद्धत्वमेवेति बहुलग्रहणाल्लभ्यत इत्यर्थः । ननु त्रादेशपक्षे मघवन्नित्येवास्तु, बहुलग्रहणाल्लभ्यत इत्यर्थः । ननु त्रादेशपक्षे मघवन्नित्येवास्तु, बहुलग्रहणेन संयोगान्तलोपस्यासिद्धत्वाऽभावकल्पनायां प्रमाणाऽभावात् । वेदे तु यज्ञेन मघवानित्यादौ दीर्घश्छान्दसो भविष्यतीत्यत आह-तथा चेति । त्रादेशपक्षे संयोगान्तलोपस्याऽसिद्धत्वाभावमब्युपगम्यैवेत्यर्थः । निपातनादिति । कनि प्रत्ययस्य,अवुगागमस्य, घत्वस्य इति त्रयाणां निपातनादित्यर्थः । तथा च नान्तो मघवन्शब्दः सिध्यतीति भावः । मघशब्दादिति । धनपर्यायादित्यर्थः । मघो धनमस्यास्तीत्यर्थे मतुपि॑मादुपधायाश्चे॑ति वत्वे तान्तो मघवच्छब्दः सिद्ध इति भावः । भाषायामपीति । लोके छन्दसि च इत्यर्थः । शब्दद्वयेति । मघवन्शब्दो मघवच्छब्दश्चेति शब्दद्वयंमघवा बहुल॑मित्यस्य फलम् । तस्य सिद्धिमाश्रित्येत्यर्थः । आकर इति । ‘केशाद्वः’ इति सूत्रे कैयटग्रन्थ इत्यर्थः । तत्र ह्रेवमुक्तं॑-॒मघवा बहुल॑मित्येतन्न कर्तव्यम् ।आन्नुक्ष॑न्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वस्य सिद्धत्वा॑दिति । त्रादेशपक्षे संयोगान्तलोपस्याऽसिद्धत्वाद्दीर्घाऽभावाश्रयणे मघवन्निति रूपम् । मतुपि तुअत्वसन्तस्ये॑ति दीर्घे मघवानिति रूपमिति रूपभेदापत्त्या तदसङ्गतिः स्पष्टैवेति भावः । वस्तुतस्तु कन्यन्तस्य प्रत्ययस्वरेणान्तोदात्तत्वम्, मतुपि तुह्रस्वनुड्भ्यां मतु॑विति मतुबुदात्तत्वस्य न गोआ॑न्निति प्रतिषेधे सति पित्त्वादनुदात्तत्वे घकारादकारस्य फिट्स्वरेण उदात्तत्वमिति फलभेदात् कैयटग्रन्थश्चिन्त्य एव । मघवानिति दीर्घः शिष्टसंमतश्चेत्याह — हविरिति । मखेषु यज्ञेषु निश्शङ्कः असौ मघवान् हविर्जक्षिति=भक्षयतीत्यर्थः । मघवन्तावित्यादि । सुटि त्रादेशो नुम्चेति भावः । शसादौ त्रादेशो, नतु नुम्, अरुआवनामस्थानत्वादित्यभिप्रेत्याह — मघवत इति । मघवद्भ्यामित्यादि । त्रादेशे ‘स्वादिषु’ इति पदत्वाज्जश्त्वम् । सुपि त्रादेशे जश्त्वे चर्त्वे मघवत्सु । तृत्वाऽभावे मघवेति । नान्तात्सौ राजवद्रूपमिति भावः । ननुमघवा बहुल॑मिति सूत्रेअर्वणस्तृ मघोनश्च न शिष्यं छान्दसं हि तत् इति वार्तिकभाष्यकैयटेषु मघवन्शब्दस्य छन्दोमात्र विषयत्वावगमात्कथं तस्य लोके प्रयोग इत्यत आह — छन्दसीवनिपावित्यादि ।तदस्यास्त्यस्मिन्निति मतु वित्यधिकारेकेशाद्वोऽन्यतरस्या॑मिति सूत्रे॒छन्दसीवनिपौ चे॑ति वार्तिकम् । छन्दसि ईवनिपौ च वक्तव्यौ, वश्च मतुप्च ।रथीरभून्मुद्घलानी गविष्टौ, सुमङ्गलीरियं वधूः, ऋतवानं मघवानमीमहे॑ इति तत्र भाष्यम् । तत्र वनिप्प्रत्ययान्ते मघवन्शब्दे प्रत्ययस्वरेण वकारादकार उदात्तः । मघशब्दः फिट्स्वरेणान्तोदात्तः ।अनुदात्तं पदमेकवर्ज॑मिति शिष्टस्वरेण मकारादकारो, वकारादकारश्चानुदात्तः ।उदात्तादनुदात्तस्य स्वरितः॑ इति वकारादकारः स्वरितः । तथाच मघवन्निति रूपं मध्योक्षतं संपद्यते । एतादृशमघवन्शब्दविषयकं छान्दसत्वाभिधानम् । कन्यन्ते तु मघवन्शब्दे वकारादकारः प्रत्ययस्वरेणोदात्तः । शिष्टस्वरेण मकारादकारो घकारादकारश्चाऽनुदात्तौ । तथा च मघवन्निति रूपमन्तोदात्तमिति स्थितिः । एतादृशमघवन्शब्दस्तु लोकवेदसाधारणः, तस्य छन्दोमात्रविषयत्वे प्रमाणाऽभावात् । किं चवनो र चे॑ति सूत्रे भाष्यं-॒मघवन्शब्दोऽव्युत्पन्नं प्रातिपदिक॑मिति । अयमपि मघवन्शब्दः फिट्स्वरेणान्तोदात्तो लोकवेदसाधारण एव, छन्दोमात्रविषयत्वे प्रमाणाऽभावादिति भावः । शब्दरत्ने तुन शिष्टं छान्दसं हि तत् इत्युदाहृतभाष्यवार्तिकयोः सामान्यप्रवृत्तयोर्मध्योदात्तमात्रविषयसङ्कोचे प्रमाण#ं न किञ्चिदस्ति । कविप्रयोगाणां तुत तस्थिवांसंनगरोपकण्ठे॑ इत्यादिविषये बहुशः प्रमाददर्शनात्तेषामपि नार्षवचनसङ्कोचकता । अतो मघवन्शब्दस्य सर्वस्यापि लोकेऽसाधुत्वमेवेति प्रपञ्चितम् । सुटि राजवदिति । तृत्वाऽभावपक्षे नान्तत्वाद्दीर्घ इति भावः ।

Tattvabodhini

उगिदचां सर्वनामस्थानेऽधातोः - मघववन्शब्दस्येति । अधातोरिति । अधातुभूतपूर्वस्यापूत्यर्थः । अञ्चतिग्रहणं हि नियमार्थम्, — ॒उगितो धातोश्चेद्भवति तह्र्रञ्चतेरेवे॑तचि । एवञ्च गोमानिवाचरति॒गोमा॑नित्यदौ संप्रति धातुत्वेऽपि विध्यर्थमधातुग्रहम् । एतच्च मूल एव स्फूटूभविष्यति । नन्वञ्चतिग्रहणमौपदेशिकधातोश्चेदुगित्कार्यं तह्र्रञ्चतेरेवेति व्याख्याय अधातुग्रहणं त्यज्यतामिति चेत् । अत्र नव्याः — नुन्मात्रविषयको नायं नियमो, — — ॒धातोस्चेदुगित्कार्यं तह्र्रञ्चतेरेवेति नियम्यत । तेनेह न, -उखारुआत् — इति उगितश्चे ति सूत्रे वक्ष्यमाणत्वात् । ततश्च यद्यौपदेशिकधातोश्चेदुगित्कार्यमिति व्याख्यायेत तर्हि पूर्वोक्ते॒गोमा॑नित्यादौ स्त्रियम्उगिश्चे॑ति ङीप्प्रसज्येत । आचारक्विबन्तस्यौपदेशिकधातुत्वाऽभावात् । न चेष्टापत्तिः, — अधातोग्र्रहणादेव सूत्रकृता तत्र ङीब्नेष्यत इत्यनुमानादिति दिक् । ननु नलोपिनोऽञ्चतेरेव नुमागमः स्यान्न तु पूजार्थस्य नकारवतोऽञ्चेतेरित्येवमर्थम्अचा॑मिति ग्रहणस्य सार्थकत्वात्कथमेतस्य सामान्यनियमार्थतेति चेदुच्यते — ॒अचा॑मित्यत्र नलोपोऽविवक्षितः । तथाच पूर्वोक्तनियमार्थता भाष्यकैयटटाद्युक्ता सङ्गच्छत एव । पूजार्थस्याऽञ्चेतेर्नुम#इ सत्यपिनश्चापदान्तस्ये॑ति सूत्रे जातिपक्षमाश्रित्य नत्वजातेरनुस्वारविधानेन समीहितरूपसिद्धेः । व्यक्तिपक्षे त्वनुस्वारस्य शर्षु पठितत्वादनुस्वारे परे नुमोऽनुस्वारे सति अनुस्वारद्वयवद्रूपमिष्यते ।अनचि चे॑ति द्वित्बेन तद्रूपस्य तवापि मते दुर्वारत्वात् । न च भवन्मते द्वित्वेनाऽनुस्वारत्रयं स्यादिति शङ्क्यम्,झरो झरी॑ति लोपेन निवारयितुं शक्यत्वात् ।लोपऽभावापक्षे त्रयाणां श्रवणं स्यादिति चेद्भष्यकैयटाद्युक्तनियमानुरोधेन तत्स्वीकारे बाधकाभावात् । इष्टानुरोधेन जातिपक्ष एवात्राश्रयणीयः । नुमागमः स्यादिति ।इदितो नुम् धातो॑रित्यतो नुमनुवर्तत इति भावः । ननुकुर्व॑न्नित्यादाविव संयोगान्तलोपस्याऽसिद्धत्वेन नान्तत्वाऽभावाद्दीर्घत्वं न स्यादित्याशङ्क्याह — इह दीर्घे कर्तव्य इति । बहुलग्रहणादिति । क्वचिदन्यदेवेत्यर्थकादित्यर्थः । बहूनार्थान् लातीति बहुलम् ।आतोऽनुपसर्गे॑इति कर्मण्युपपदे कः । आन्नुक्षन्निति ।आन्नुक्षन्पषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमान्विआप्सन्परिज्मन्मातरिआन्मघव॑न्नित्युणादिसूत्रेणेत्यर्थः । निपातनादिति । महेर्हकारस्य घकारोऽवुगागमः कनिप्रत्ययश्चेत्यस्य त्रितयस्य निपातनादित्यर्थः । प्रत्याख्यातमाकर इति । एवं च फलभेदे त्रादेशस्य प्रत्यख्यानाषसंभवादादेशपक्षेऽपि दीर्घो भाष्यादिसंमत एवेति बहुलग्रहणात्संयोगान्तलोपस्य नाऽसिद्धत्वमित्युक्तम् । यत्त्वाहुः — मतुप्पक्षेऽपि छान्दसत्वान्न दीर्घ इत्येव भाष्याशय इति, तन्न,मतुबन्तस्य छान्दसत्वे मानाऽभावादुदाहृतभट्टिप्रयोगविरोधाच्चेति दिक् । छन्दसीवनिपाविति ।मन्वर्थे ईवनिपौ स्तः छन्दसी॑ति वार्तिकार्थः ।सुमङ्गलीरियं वधूः॒॑मघवानमीमहे॑इत्युदाहरिष्यति वैदिकप्रक्रियायाम् । अन्तोदात्तंत्विति । यद्यपिश्रन्नुक्ष॑न्नित्यत्र कनिन्नन्ता एते॑ इत्युज्ज्वलदत्तादिग्रन्थपर्यालोचनयाऽऽद्युदात्तत्वं लभ्यते, तथापिउक्षा समुद्रो अरुणः सुपर्णः॒॑पूषा त्वेतो नयतु,॒॑अग्निर्मूर्धादिवः॑इत्यादौ तत्सूत्रोपात्तानामुक्षादीनामन्तोदात्तत्वस्यनिर्विवादतया कनिप्रत्यय एवोचित इति भावः ।

Padamanjari

धातुवर्जितानामिति । नेदमधातोरित्यस्याथप्रदर्शनम् , तस्यान्यपरत्वात् । तस्माद् अञ्चतिग्रहणं नियमार्थम् इति यद्वक्ष्यते, तत्सिद्ध एवायमर्थः प्रदर्शितः । अधातोः इत्यस्य त्वर्थप्रदर्शने उगितामङ्गानामञ्चतेश्चाधातोश्चोहगितो नुम् भवतीति प्रदर्शनीयम् । अञ्चतेश्चेति । अजिति प्रत्यहारग्रहणं तु न भवति नपुंसकस्य झलचः इति पुनरज्ग्रहणात् । तत्र हि प्रत्याहारस्यैव ग्रहणम्, नाञ्चतेः, झलन्तत्वात् । भावनिति । अत्वसन्तस्य चेति दीर्घः । अत्रावयवे कृतं लिङ्गं समुदास्यापि विशेषकं भवतीत्यङ्गस्योगित्वम् । प्राङिति । ऋत्विक् इत्यादिना क्विन, सुः, हल्ङ्यादिसंयोगान्तलोपौ, क्विन्प्रत्ययस्य कुः इति कुत्वम् - नकारस्य ङ्कारः । अञ्चतिग्रहणं नियमार्थमिति । न हि अधातोः इति प्रतिषेधादप्राप्ते विध्यर्थमेतद्भवति । एवं ह्यधातोरिति न वक्तव्यम् नियमादेव सिद्धेः । उखास्रदिति । वसुस्रंसु इत्यादिना दत्वम् । अधातोरिति किमिति । अञ्चतिग्रहणान्नियमादेव धातोर्न भविष्यतीति प्रश्नः । अधातुभूतपूर्वस्यापीति । यस्य कदाचिदधातुत्वं दृष्ट्ंअ तस्य सम्प्रति धातुत्वे सत्यपि यथा स्यादित्यर्थः । गोमत्यतेरिति । सुप आत्मनः क्यच्, अवद्यमानः प्रत्ययः - अप्रत्ययः, स पुनः क्विप् । अतो लोपः, क्यस्य विभाषा इति यलोपः, नुम् - गोमान् । कथं पुनरत्र दीर्घत्वम्, यावता अत्वासन्तस्य चाधातोः इत्युच्यते नैष दोषः, अधातोः इति विभज्यते, तत्सामर्थ्यादसन्तस्यैष प्रतिषेधः, नात्वन्तस्य । अत एव तत्र वृतौ असन्तस्यैव प्रत्युदाहरणमुपन्यस्तम् ॥

Nyaas

उगिति प्रत्याहारग्रहणम् - उक्? इद्? येषां तान्युगिन्ति, अङ्गविशेषणञ्चैतत्, अत आह - उगितामङ्गानाम् इति। अजिति प्रत्याहारस्य ग्रहणमेवेदं वा स्यात्, अञ्चतेर्वा लुप्तनकारस्य? तत्र यदि प्रत्याहारग्रहणं स्यात्, नपुंसकस्य झलचः (7.1.72) इत्यत्र सूत्रे पुनरज्ग्रहणं न कुर्यात्, तद्धि प्रत्याहाग्रहणम्, नाञ्चेः; झला साहचर्यात्। तस्मादञ्चतेरिदं ग्रहणमित्यालोच्याह - अञ्चतेश्च इत्यादि। भवान् इति। अत्वसन्तस्य चाधातोः (6.4.14) इति दीर्घः। श्रेयान् इति। प्रशस्यशब्दात्? द्विवचनविभज्योपपदे तरबीयसुनौ (5.3.57) इतीयसुन्, प्रशस्यस्य श्रः (5.3.60) इति श्रादेशः, प्रकृत्यैकाच् (6.4.163) इति प्रकृतिवद्भावाट्टिलोपाभावः, आद्गुणः (6.1.87) , सान्तमहतः संयोगस्य (6.4.10) इति दीर्घः। ननु चात्र नाङ्गमुगित्, किं तर्हि? प्रत्ययः? नैतदस्ति; अङ्गमप्युगिदेव। कथम्? अवयवावयवेनापि समुदायस्य सम्बन्धो भवत्येव, यथा - देवैदत्तस्याङ्गुलिरित्यत्र देवदत्तस्यावयवस्य हस्तस्य योऽवयवोऽङ्गुलिस्तेन देवदत्तस्य सम्बन्धः। तस्मादिहापि प्रत्ययस्यावयवो य उक्? इत्संज्ञकस्तेनाङ्गस्यापि सम्बन्धोऽस्त्येवेत्यङ्गमप्युगिदेव। प्राङ् इति। प्राञ्चतति ऋत्विगादिसूत्रण (3.2.59) क्विन्, नुम्हल्ङ्यादि (6.1.66) संयोगान्तलोपौ (8.2.23) , क्विन्प्रत्ययस्य कुः (8.2.62) इति कुत्वम् - नकारस्य ङकारः। प्राञ्चौ, प्राञ्चः इति। चुत्वम् - नकारस्य ञकारः। अथाञ्चतिग्रहणं किमर्थम्, यावतोगित्त्वादेव तस्य नुम्? सिद्धः? इत्यत आह - अञ्चतिग्रहणम् इत्यादि। उखारुआत्, पर्णध्वत्` इति। रुआऊन्सु ध्वन्सु `अधः पतने (धातुपाठः-754,755), [अवरुआंसने - धातुपाठः-] उखायां रुआंसते, पर्णानि ध्वंसते। क्विप्च (3.2.76) इति क्विप्, नलोपः, वसुरुआंसुध्वंस्वनडुहां दः (8.2.72) इति सकारस्य दकारः, तस्य वाऽवसाने (8.4.56) चर्त्वम् - तकारः।अधातोरिति किम् इति। अञ्चतिग्रहणादेव नियमार्थाद्धातेर्न भवतीत्यभिप्रायः। अधातोरिति नायं प्रसज्यप्रतिषेधः, किं तर्हि? पर्युदास इति मन्यमान आह - अधातुभूतपूर्वस्यापि यथा स्यात् इति। पूर्वपक्षवादिनाऽधातोरिति प्रसज्यप्रतषेधोऽयमिति मन्यमानेन चोदितम्। सिद्धान्तवादिना पर्युदासेन परिह्मतम्। गोमत्यति इति। गोमच्छब्दात् सुप आत्मनः क्यच्ट (3.1.8) । `गोमत्यतेरप्रत्ययः इति। अश्रावी प्रत्ययोऽप्रत्ययः, स पुनः क्विप्, अतो लोपः (6.4.48) इति दीर्घः - गोमान्। कस्मात्? पुनरसत्यधातुग्रहणेऽत्र न सिध्यतीत्यत आह - अत्र हि इत्यादि। असत्यधातुग्रहणेऽञ्चतिग्रहणान्नियमाद्यथोखरुआदित्यादौ न भवति, तथात्रापि न स्यात्। भवति ह्रयमपि धातुः - सतद्यपि धातुत्वे क्विबन्तत्वे क्विबन्ता धातुत्वं न जहति (व्य।प।132) इति कृत्वा। तस्मादधातुग्रहणं क्रियते - योऽप्यवस्थान्तरेऽधातुरासीत्? तस्य गरहणं यथा स्यात्। अथ गोमानिति कथमत्र दीर्घत्वम्? कथं च न स्यात्? अधातोरिति प्रतिषेधः, नात्वन्तस्य। अत्र ह्रधातोरिति किम्? पिण्डं प्रसत इति पिण्डग्रः, चर्म वस्त इति चर्मवः - इत्यसन्तस्यैव प्रत्युदाहरणमुपनयस्तम्, नात्वन्तस्य। अथ वा - चकारन्तत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन क्वचिद्धातोरयीति भविष्यति॥

Praudhamanorama

अधातोरिति। अधातुभूतपूर्वस्यापीत्यर्थः। अञ्चतिग्रहणं हि नियमार्थम्—धातोश्चेद्भवति तर्ह्यञ्चतेरेवेति। एवं च गोमानिवाचरति गोमानित्यादौ सम्प्रति धातुत्वेऽपि विध्यर्थमधातुग्रहणम्। एतच्च मूले एव स्फुटीभविष्यति। ननु कुर्वन् इत्यादाविव संयोगान्तलोपस्यासिद्धत्वेन नान्तत्वाभावाद्दीर्घत्वं न स्यादित्याशङ्क्याह— बहुलग्रहणादिति। क्वचिदन्यदेवेत्यर्थकादित्यर्थः। निपातनादिति। महेर्हकारस्य घकारः अवुगागमः कनिप्रत्ययश्चेत्यस्य त्रितयस्य निपातनादित्यर्थः। प्रत्याख्यातमिति। तथा च ‘छन्दसीवनिपौ’इत्यत्र कैयटेनोक्तम्—‘मघवा बहुलम्’इत्येतन्न कर्तव्यं श्वान्नुक्षन्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वयस्य सिद्धत्वादिति। यत्त्वत्र वार्तिककृतोक्तम्— अर्वणस्तृ मघोनश्च न शिष्यं छान्दसं हि तत्। मतुब्वन्योर्विधानाच्च छन्दस्युभयदर्शनात् ॥1॥ इति, यच्च तद्व्याख्यानावसरे कैयटेन भाषायामसाधुतेत्युक्तम्, तद्वनिबन्तमद्ध्योदात्तमघवन्-शब्दविषयकम्। छन्दस्येव वनिब्विधानात्। अतो न कैयटस्य पूर्वाऽपरविरोध इति ध्वनयन्नाह— अन्तोदात्तं त्विति। यद्यपि श्वन्नुक्षन्नित्यत्र कनिनन्ता एते इत्युज्ज्वलदत्तादिग्रन्थमहिम्ना आद्युदात्तत्वं लभ्यते, तथापि ‘उक्षा समुद्रो अरुणः सुपर्णः, पूषा त्वेतो नयतु, अग्निर्मूर्धा, निर्मज्वानं न पर्वणो जभार, त्वमर्यमा भवति यत्’ इत्यादौ तत्सूत्रोपात्तानामुक्षन्नादीनामन्तोदात्तत्वस्य निर्विवादतया कनिप्रत्यय एवोचित इति भावः। ‘मघवा बहुलम्’ इति सूत्रे मघोन इति प्रतीकमुपादाय मघशब्दस्याकारस्य ‘यस्य’ इति लोपमाशङ्क्य ‘नैतदस्ति, अन्यदेव हीदमव्युत्पन्नं प्रातिपदिकम्, तथा हि- भाषायामप्यस्य प्रयोगो दृश्यते’ इति वदन्न्यासकारोऽपि मघवन्शब्दस्यान्तोदात्तत्वे भाषायामपि साधुत्वे चाऽनुकूलः। एवं स्थिते मतुपमाश्रित्य त्रादेशं प्रत्याचक्षाणौ भाष्यवार्तिककृतौ मघवानित्यत्र त्रादेशपक्षेऽपि दीर्घं स्वीकुरुत एव। फलभेदे प्रत्याख्यानासम्भवात्। अतो बहुलग्रहणान्नाऽसिद्धत्वमिति यदुक्तं तद्भाष्यादिसंमतमेव। यत्त्वाहुः, मतुप्पक्षेऽपि छान्दसत्वान्न दीर्घ इत्येव भाष्यस्याऽऽशय इति; तन्न। मतुबन्तस्य छान्दसत्वे मानाभावात्। उदाहृतभट्टिकैयटविरोधाच्चेति दिक्। एतेन श्वान्नुक्षन्नित्यत्र निपातितस्य मघवन्नित्यस्य त्रादेशे दीर्घाभावात् मघवन्निति क्षीरस्वामिग्रन्थः प्रत्युक्तः। तथा च कातन्त्रसूत्रं ‘सौ मघवान् मघवा च’ इति। विचारचिन्तामणावपि ‘मघवानेव मघवा’ इत्युक्तम्। काशिकायामपि दीर्घ एव दृश्यते इत्यलं बहुना।

Prakriyasarvasvam

अधातोरुगितो झलन्तस्याङ्गस्य लुप्तनकारस्याञ्चतेश्च सर्वनामस्थाने परे नुम् स्यात् । प्राञ्च् पदत्वे संयोगान्तलोपः । नस्य कुत्वं ङः । प्राङ् । युजेश्च क्विनि लुप्ते, सौ ।

Sudha

उगिदचामिति । अत्र इदितो नुम् धातोः**(7.1.58) इत्यतो नुमित्यनुवर्तते । मघवान् । मघवन् + सु इत्यत्र **मघवा बहुलम्**(6.4.128) इति तृ इत्यन्तादेशे कृते मघवतृ + सु इति जाते ऋकारस्येत्संज्ञत्वे लोपे च विहिते मघवत् + सु इति जाते **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इति नुमि मित्वादन्त्यादचः परे उमि गते ‘मघवन्त् सु’ इति स्थिते सोरुकारस्येत्संज्ञायां लोपे च **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति स् लोपे त्कारस्य **संयोगान्तस्य लोपः**(8.2.23) इति लोपे **मघवा बहुलम्**(6.4.128) इति बहुलग्रहणात्संयोगान्तस्य लोपस्यासिद्धत्वाभावेन **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तस्योपधाया दीर्घत्वे च कृते ‘मघवान्’ इति रूपम् । मघवन्तौ । मघवन् + औ अत्र **मघवा बहुलम्**(6.4.128) इति ‘तृ’ इत्यन्तादेशे कृते ऋकारस्येत्संज्ञायां लोपे च **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इति नुमि मित्वादन्त्यादचः परे उमि गते संयोगे च कृते ‘मघवन्तौ’ इति रूपम् । एवं ‘मघवन्तः’ इति बोध्यम् । सुटि त्रादेशे नुम् चेति भावः । शसादौ त्रादेशः, न तु नुम् ।असर्वनामस्थानत्वात् । **हे मधवन् । मघवन् + सु अत्र तृआदेशे ऋगते, नुमि, उमि गते सोरुकारे गते च ‘मधवन् त् स्’ इति स्थिते हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति सलोपे त् इत्यस्य संयोगान्तलोपे संयोगान्तलोपस्यासिद्धत्वान्नलोपाभावे ‘हे भधववन्’ इति रूपम् । मघवद्भ्याम् । मघवन् + भ्याम् अत्र **मघवा बहुलम्**(6.4.128) इति तृ इत्यन्तादेशे ऋगते **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसंज्ञायां **झलां जशोऽन्ते**(8.2.39) इति जश्त्वे ‘मघवद्भ्याम्’ इति रूपम् । तृत्वाभावे मघवेति । नान्तात्सौ राजवद्रूपमिति भावः । **सुटि राजवदिति । मघवा, मघवानौ, मघवानः । हे मघवन् । मघवानम्, मघवानौ ।

Sutra Prayogas

  • सध्र्यङ्रतः (भट्टिकाव्यम्): उगिदचाम् इति नुम् ।

  • अध्यङ् (भट्टिकाव्यम्): उगिदचां सर्वनामस्थानेऽधातोः इति नुम्।

  • आनञ्चु (भट्टिकाव्यम्): अत आदेः इति दीर्घः।