71066: उपात् प्रशंसायाम्¶
Padacheda: उपात् | S | 5 | 1 |
प्रशंसायाम् | S | 7 | 1 |
Sutrartha¶
उप-उपसर्गपूर्वकस्य लभ्-धातोः यकारादि प्रत्ययस्य विषये ‘प्रशंसा’ इति अर्थे अभिधेये नुमागमः भवति ।
डुलभष् (प्राप्तौ, भ्वादिः (1.1130)) इति धातुः उप-उपसर्गेण सह प्रयुज्यते चेत् प्रशंसा (= स्तुतिः) अस्मिन् अर्थे यकारादि-प्रत्ययस्य विषये अस्य नुमागमः भवति । अत्र सूत्रे ‘यि’ इति विषयसप्तमी अस्ति, अतः यकारादि-प्रत्ययस्य केवलविवक्षायाम्, यकारादि-प्रत्ययस्य स्थापनात् पूर्वमेव अयम् नुमागमः भवति । नुमागमे कृते ‘लन्भ्’ इति यत् रूपम् जायते, तस्मादेव यथोचितं यकारादिप्रत्ययः विधीयते । उदाहरणानि एतानि – 1. उप + डुलभष् (प्राप्तौ, भ्वादिः) अत्र यकारादि-कृत्य-प्रत्ययस्य विवक्षायाम् -
उप + लभ्
--> उप + ल नुम् भ् [यकारादिप्रत्ययस्य विवक्षायाम् नुमागमः]
--> उप + लन्भ् [इत्संज्ञालोपः]
--> उप + लन्भ् + ण्यत् [हलन्तधातोः **ऋहलोर्ण्यत्** (3.1.124) इति ण्यत् प्रत्ययः ।]
--> उप + लन्भ् + य [इत्संज्ञालोपः]
--> उपलंभ्य [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः]
--> उपलम्भ्य [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः मकारः]
वाक्ये प्रयोगः - *हे पुत्र , त्वया विद्या उपलम्भ्या* । अत्र पुत्रम् उद्दिश्य 'त्वया विद्यायाः प्रशंसा करणीया' इति उक्तमस्ति । अतः अत्र नुमागमसहितं रूपं प्रयुज्यते । यदि प्रशंसाभिन्नः अर्थः इष्यते, तर्हि नुमागमस्य अनुपस्थितौ **पोरदुपधात्** (3.1.98) इत्यनेन यत्-प्रत्यये कृते जायमानम् 'उपलभ्य' इत्येव रूपं प्रयोक्तव्यम् । यथा, 'मया गृहात् किञ्चित् उपलभ्यम्' (प्राप्तव्यम् इत्याशयः)।
उप + डुलभष् (प्राप्तौ, भ्वादिः) अत्र ‘ल्यप्’ प्रत्ययस्य विवक्षायाम् नुमागमे कृते ततः नुमागमस्य लोपः अपि भवति -
उप + लभ्
--> उप + ल नुम् भ् [यकारादिप्रत्ययस्य विवक्षायाम् नुमागमः]
--> उप + लन्भ् [इत्संज्ञालोपः]
--> उप + लन्भ् + क्त्वा [**समानकर्तृकयोः पूर्वकाले** (3.4.21) इति क्त्वाप्रत्ययः]
--> उप + लन्भ् + ल्यप् [**समासेऽनञ्पूर्वे क्त्वो ल्यप्** (7.1.37) इति क्त्वाप्रत्ययस्य ल्यबादेशः]
--> उप + लभ् + य [**अनिदितां हल उपधायाः क्ङिति** (6.4.24) इति उपधानकारलोपः]
--> आलभ्य
<note>’ल्युट्’ इति प्रत्ययः यकारादिः नैव स्वीक्रियते अपितु अकारादिः स्वीक्रियते, यतः प्रक्रियायाः प्रारम्भे एव तस्य ‘अन’ इति आदेशः भवति । अतः ‘ल्युट्’प्रत्ययस्य विषये इदं सूत्रं नैव प्रवर्तते, अपि तु ‘लभ् + ल्युट्’ इत्यत्र लभेश्च (7.1.64) इत्यनेनैव नुमागमः सिद्ध्यति ।</note>
शास्त्रसंवादः
छात्रः - अत्र विषयसप्तमी किमर्थं स्वीक्रियते ? यदि अत्र परसप्तमीपक्षे ‘यकारादि-प्रत्यये परे’ इति सूत्रार्थः स्वीक्रियते, तथाऽपि उप-उपसर्गपूर्वकात् लभ्-धातोः आदौ पोरदुपधात् (3.1.98) इत्यनेन अच्-प्रत्ययं कृत्वा, ततः नुमागमे कृते ‘उपलम्भ्य’ इति समानमेव रूपं सिद्ध्यति । आचार्यः - यदि अत्र ण्यत्-प्रत्ययस्य स्थाने पोरदुपधात् (3.1.98) इत्यनेन अच्-प्रत्ययः क्रियते, तर्हि प्रत्ययस्य अकारः यतोऽनावः (6.1.213) इत्यनेन उदात्तः भवति । परन्तु अन्तिमरूपे यकारोत्तरः अकारः स्वरितः इष्यते । अतः अत्र आदौ यकारादि-प्रत्ययस्य विवक्षायाम् नुमागमे कृते लन्भ् इति रूपम् कृत्वा, ततः ‘ण्यत्’ प्रत्ययः विधीयते, येन गतिकारकोपपदात् कृत् (6.2.139) इत्यनेन पदस्य अन्त्यस्वरितत्वम् सम्यक् सिद्ध्यति ।
Sutrartha (English)¶
The verb root उप + लभ् gets a नुमागम in the anticipation of a pratyay that starts with य्, if the intended meaning of the resultant word is ‘to praise’.
Vasu English Summary¶
The augment नुम् is added to लभ् ‘to get’ preceded by उप before य when the reference is to something praise-worthy.
Vasu English Translation¶
The augment नुम् is added to लभ् ‘to get’ preceded by उप before य when the reference is to something praise-worthy. As उपलम्भ्या भवता विद्या, उपलम्भ्यानि धनानि ॥ These words are formed by ण्यत् and have svarita on the final. Why do we say ‘when referring to something praise worthy’? Observe उपलभ्यमस्माद् वृषलात् किंचित्, this is formed with the यत् affix (3.1.98).
Kashika¶
उपादुत्तरस्य लभेः प्रशंसायां गम्यमानायां यकारादिप्रत्ययविषये नुमागमो भवति। उ॒प॒ल॒म्भ्या॑ भवता विद्या। उ॒प॒ल॒म्भ्या॑नि धनानि। ण्यत्प्रत्ययान्तत्वादन्तस्वरितत्वमेव। प्रशंसायामिति किम्? उपलभ्यमस्माद् वृषलात् किंचित्। पोरदुधत्वात् (३.१.९८) यत्प्रत्ययान्तमिदम्॥
Siddhanta Kaumudi¶
उपलम्भ्यः साधुः । स्तुतौ किम् । उपलब्धुं शक्य उपलभ्यः ॥
Balamanorama¶
उपात् प्रशंसायाम् - उपात्प्रशंसायाम् । उपात्परस्य लभेर्नुम् स्याद्यादौ प्रत्यये विवक्षिते प्रशंसायां गम्यमानायामित्यर्थः । उपलम्भ्यः साधुरिति । समीपे प्राप्य इत्यर्थः । साधुशब्दात् प्रशंसा गम्यते । इहापि नुमि कृते अदुपधत्वाऽभावाण्ण्यदेव । स्वरे विशेषः पूर्ववत् ।
Tattvabodhini¶
उपात् प्रशंसायाम् - उपात्प्रशंसायाम् । यादौ प्रत्यये विवक्षिते उपपूर्वाल्लभेर्नुम् स्यात्प्रशंसायाम् । सा चेह गम्यमानतया विशेषणम् । धात्वर्थस्तु प्राप्तिरेव,तेन यस्य प्राप्तिर्यस्माद्वा प्राप्तिः प्रशंसाहेतुर्भवति तदिहोदाहरणम् । विपरीतं तु प्रत्युदाहरणम् । इहापियादौ प्रत्यये विवक्षिते॑ इत्यर्थान्नुमि कृते ण्यति सत्यन्तस्वरितत्वं भवति । यति तु सत्युत्तरपदाद्युदात्तत्वं स्यात् । प्राचा तु स्वरे विशेषमनालोच्यपोरदुपधा॑दिति यतमेव स्वीकृत्य यति परे नुमिति व्याख्यातं, तदाकरिरोधादुपेक्ष्यमित्याहुः ।
Padamanjari¶
अत्र प्राप्तिरेव धात्वर्थः । प्रशंशा तु गम्यमानतया विशेषणम् । अतो यस्य प्राप्तिर्यतो वा प्राप्तिः प्रशंसाहेतुर्भवति तत्रोदाहरणम् । विपर्यये तु प्रत्युदाहरणम् ॥
Nyaas¶
प्रशंसायाम् इति। उपलभ्य इति स्तुतौ। अतिप्रशंस्य इत्यर्थः। उपलभ्यम् इति। प्रप्तव्यमित्यर्थः॥
Prakriyasarvasvam¶
उपालम्भेः प्रशंसायां द्योत्यायां नुम् स्यात् । <karika>”उपलम्भ्यं त्वया राज्यमिति कर्तृस्तुतिः क्वचित् । सद्भिरेवोपलम्भ्योऽज्ञ इति कर्मस्तुतिः क्वचित् ॥ ५७ ॥</karika> <karika>लाभो ज्ञानं च धात्वर्थः प्रशंसा द्योत्यते परम् । उपलम्भ्यः प्रशंसार्ह इत्येवाचष्ट शङ्करः” ॥ ५८ ॥</karika> अशस्ते तूपलभ्यः ।
Sutra Prayogas¶
उपलम्भ्याम-पश्यन्तः (भट्टिकाव्यम्): उपात्प्रशंसायाम् इति यत्प्रत्यये नुम्।