71060: मस्जिनशोर्झलि

Padacheda: मस्जि-नशोः | S | 6 | 2 |

झलि | S | 7 | 1 |

Sutrartha

मस्ज्-धातोः नश्-धातोः च झलादि-प्रत्यये परे नुमागमः भवति ।

टुमस्जोँ (शुद्धौ, तुदादिः, (6.151)) तथा च णशँ (अदर्शने, दिवादिः, (4.91)) एतयोः धात्वोः झलादि-प्रत्यये परे नुमागमः भवति । उदाहरणानि एतानि — 1. मस्ज्-धातोः क्त-प्रत्ययान्तरूपम् -

टुमस्जोँ (शुद्धौ, तुदादिः, ओदित्)
→ मस्ज् + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययः]
→ मस न् ज् त [**मस्जिनशोर्झलि** (7.1.60) इति तकारे परे नुमागमः । यद्यपि अयम् मित्-आगमः अस्ति, तथापि इष्टरूपसिद्ध्यर्थम् अयम् अन्त्यात् पूर्वः (इत्युक्ते, जकारात् पूर्वः) विधीयते । यदि अत्र **मिदचोऽन्त्यात्परः** (1.1.47) इत्यनेन मकारोत्तर-अकारात् अनन्तरम् नुमागमः भवेत्, तर्हि **अनिदितां हलः उपधायाः क्ङिति** (6.4.24) इत्यनेन तस्य लोपः नैव सम्भवति, येन इष्टरूपसिद्धिः अपि न भवेत् । अतएव अत्र जकारात् पूर्वः नुम् विधीयते ।]
→ म स् ज् त [**अनिदितां हलः उपधायाः क्ङिति** (6.4.24) इति कित्-प्रत्यये परे अनिदित्-धातोः नकारलोपः]
→ म ज् त [**स्कोः संयोगाद्योरन्ते च** (8.2.29) इति सकारलोपः]
→ मग् त [**चोः कुः** (8.2.30) इति कुत्वम्]
→ मग्न [**ओदितश्च** (8.2.45) इति निष्ठातकारस्य नकारः]
  1. मस्ज्-धातोः तृच्-प्रत्ययान्तरूपम् -

टुमस्जोँ (शुद्धौ, तुदादिः, ओदित्)
→ मस्ज् + तृच् [**ण्वुल्तृचौ** (3.1.133) इति तृच्-प्रत्ययः]
→ मन् स्ज् + तृ [**मस्जिनशोर्झलि** (7.1.60) इति तकारे परे नुमागमः । **मिदचोऽन्त्यात्परः** (1.1.47) इति अयम् अन्तिम-अच्-वर्णात् परः भवति चेदपि न कश्चन दोषः, अतः तथैव प्रक्रिया अत्र निर्दिष्टा अस्ति । परन्तु पूर्वप्रक्रियासदृशः अयम् अन्तिम-जकारात् पूर्वः स्थाप्यते चेदपि सम्यक् एव । ]
→ मन् ज् तृ [**स्कोः संयोगाद्योरन्ते च** (8.2.29) इति सकारलोपः]
→ मन् ग् तृ  [**चोः कुः** (8.2.30) इति कुत्वम्]
→ मं ग् तृ [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः]
→ मं क् तृ [**खरि च** (8.4.55) इति चर्त्वम्]
→ मङ्क्तृ [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः ङकारः]
  1. नश्-धातोः तव्यत्-प्रत्ययान्तरूपम् -

णशँ (अदर्शने, दिवादिः)
→ नश् [**णो नः** (6.1.65) इति नत्वम्]
→ नश् + तव्यत् [**तव्यत्तव्यानीयरः** (3.1.96) इति तव्यत्-प्रत्ययः]
→ नन्  श् + तव्य [**मस्जिनशोर्झलि** (7.1.60) इति तकारे परे नुमागमः । **मिदचोऽन्त्यात्परः** (1.1.47) इति अयम् अन्तिम-अच्-वर्णात् परः भवति ।]
→ नन् ष् + तव्य [**व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति झलि परे शकारस्य षकारः]
→ नं ष् तव्य [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः]
→ नं ष् टव्य [**ष्टुना ष्टुः** (8.4.41) इति तकारस्य ष्टुत्वम् टकारः]
→ नंष्टव्य
  1. नश्-धातोः क्त्वा-प्रत्ययान्तरूपम् -

णशँ (अदर्शने, दिवादिः)
→ नश् [**णो नः** (6.1.65) इति नत्वम्]
→ नश् + क्त्वा [**समानकर्तृकयोः पूर्वकाले** (3.2.21) इति क्त्वा-प्रत्ययः]
→ नन्  श् + त्वा [**मस्जिनशोर्झलि** (7.1.60) इति तकारे परे नुमागमः । **मिदचोऽन्त्यात्परः** (1.1.47) इति अयम् अन्तिम-अच्-वर्णात् परः भवति ।]
→ नश् +त्वा / नन्श् + त्वा [**जान्तनशां विभाषा** (6.4.32) इति कित्-प्रत्यये परे नश्-धातोः उपधानकारस्य वैकल्पिकः लोपः नकारलोपः]
→ न ष् + त्वा / नन्ष् + त्वा [**व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति झलि परे शकारस्य षकारः]
→ न ष् त्वा / नंष् + त्वा [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः]
→ न ष् ट्वा / नंष् ट्वा [**ष्टुना ष्टुः** (8.4.41) इति तकारस्य ष्टुत्वम् टकारः]
→ नष्ट्वा / नंष्ट्वा

मस्ज्-धातोः नुमागमस्य विषये विशेषविधानम्

‘नुम्’ अयम् आगमः मित्-आगमः अस्ति, अतः मिदचोऽन्त्यात्परः (1.1.47) इत्यनेन अयम् अन्त्यात् अचः परः भवेत् । नश्-धातोः विषये एतादृशः आगमः क्रियते चेत् न कोऽपि दोषः । परन्तु मस्ज्-धातोः विषये कित्-प्रत्यये परे एतादृशः नुमागमः विधीयते चेत् इष्टरूपम् नैव साधयितुम् शक्यते । अतः, मस्ज्-धातोः विषये (आवश्यकं चेत्) अयं नुमागमः अन्तिम-वर्णात् पूर्वम् (इत्युक्ते, जकारात् पूर्वम्) विधीयते । हलोऽनन्तराः संयोगः (1.1.7) इत्यत्र भाष्ये विद्यमानात् **मस्जेरन्त्यात् पूर्वः मित् अनुषङ्गसंयोगादिलोपार्थम् ** इति वचनात् अस्य प्रामाण्यम् स्पष्टी भवति । इदमेव भाष्यवाक्यम् वर्तमानसूत्रस्य काशिकाव्याख्याने अपि निर्दिष्टम् अस्ति ।

सूत्ररचनाविशेषाः

  1. अस्मिन् सूत्रे ‘मस्जिनशोः’ इत्यत्र ‘मस्जि’ तथा ‘नशि’ इति धातुनिर्देशः <!इक्श्तिपो धातुनिर्देशे!> इति वार्त्तिकम् अनुसृत्य इक्-प्रत्ययेन सह कृतः अस्ति ।

  2. यस्मिन् विधिः तदादौ अल्ग्रहणे इत्यनया परिभाषया ‘झलि’ इत्यस्य अर्थः ‘झलादौ’ इति स्वीक्रियते ।

Sutrartha (English)

The verb roots मस्ज् and नश् get a नुमागम when followed by a झलादि प्रत्यय.

Vasu English Summary

The augment नुम् is added after the vowel of the roots मस्ज् and नश् before an affix beginning with any consonant other than a semi-vowel or a nasal.

Vasu English Translation

The augment नुम् is added after the vowel of the roots मस्ज् and नश् before an affix beginning with any consonant other than a semi-vowel or a nasal. As मङ्क्ता, मस्ज् + तृच् (no इट् by (7.2.10)), add न् = मस् न् ज् + तृ, elide स् by (8.2.29), change ज् to क्, and न् to anusvara, which then becomes ङ् ॥ मङ्क्तुम्, मङ्क्तव्यम्, मंष्टा, मंष्टुम् and मंष्टव्यम् ॥ But मज्जनम् and नशिता, and मग्न (6.4.32). In मग्नः and मग्नवान्, the नुम् is supposed to be placed the last consonant in मस्ज्, in order that it may get elided.

Kashika

मस्जि नशि इत्येतयोरङ्गयोर्झलादौ प्रत्यये नुमागमो भवति। मङ्क्ता। मङ्क्तुम्। मङ्क्तव्यम्। नंष्टा। नंष्टुम्। नंष्टव्यम्। झलीति किम्? मज्जनम्। नशनम्। मस्जेरन्त्यात् पूर्वं नुममिच्छन्त्यनुषङ्गादिलोपार्थम् (१.१.४७ वा०)। मग्नः। मग्नवान्॥

Siddhanta Kaumudi

नुम् स्यात् । ननष्ट । नेशिव । नेश्व । नेशिम । नेश्म । नशिता । नंष्टा । नशिष्यति । नङ्क्ष्यति । नश्येत् । नश्यात् । अनशत् । प्रणश्यति ॥

Laghu Siddhanta Kaumudi

नुम् स्यात्। ननंष्ठ। नेशिव, नेश्व। नेशिम, नेश्म। नशिता, नंष्टा। नशिष्यति, नङ्क्ष्यति। नश्यतु। अनश्यत्। नश्येत्। नश्यात्। अनशत्॥॥ {$ {! 13 षूङ् !} प्राणिप्रसवे $} (धातुपाठे (04.0027)) ॥ सूयते। सुषुवे। क्रादिनियमादिट्। सुषुविषे। सुषुविवहे। सुषुविमहे। सविता सोता॥॥ {$ {! 14 दूङ् !} परितापे $} (धातुपाठे (04.0028)) ॥ दूयते॥ {$ {! 15 दीङ् !} क्षये $} (धातुपाठे (04.0029)) ॥ दीयते॥

Balamanorama

मस्जिनशोर्झलि - नुम् स्यादिति ।इदितो नु॑मित्यतस्तदनुवृत्तेरिति बावः । ननंष्ठेति । व्रश्चादिषत्वम् । ष्टुत्वम् । प्रणश्यतीति ।उपसर्गादसमासे॑इति णत्वम् ।

Tattvabodhini

मस्जिनशोर्झलि - नष्टेति ।नशेर्वा॑ इति कुत्वमिहन शङ्क्यं, पदान्त एव तद्विधानात् । अन्यथा नष्टं नष्टिरित्यादि न सिध्येत् । प्रणश्यतीति ।उपसर्गादसमासेऽपी॑ति णत्वम् ।

Padamanjari

टुअमस्जो शुद्धौ तृच्, एकाचः, इतीट्प्रतिषेधः, अन्त्याज्जकारात्पूर्वो नुम्, स्कोः संयोगाद्योरन्ते चेति सलोपः, कुत्वम्, अनुस्वारपरसवर्णौ । नंष्टेति । रधादिभ्यश्च इतीडभावपक्षे नुम् । मज्जनमिति । जकारे परतः सकारस्य श्चुत्वे च प्राप्ते जश्त्वस्यासिद्धत्वात् श्चुत्वम्, शकारस्य जश्त्वम् - जकारः । मस्जेरित्यादि । यद्यन्त्यादचः परः स्यातदा नसजानां समुदायस्यैका संयोगसंज्ञेति सकारस्यासंयोगादित्वाल्लोपो न स्यात् । अथापि सजयोः पृथक्संयोगसंज्ञामाश्रित्य लोपः स्याद् एवमपि तस्य लोपस्यासिद्धत्वान्नकार उपधा न भवतीति तस्य लोपो न स्यात् । तस्मादन्त्याज्जकारात्पूर्वः सजयोर्मध्ये नुमेषितव्यः ॥

Nyaas

मङ्क्ता इति। टुमस्जो शुद्धौ (धातुपाठः-1415), तृच्, पूर्ववदिडभावः, कुत्वञ्च, अन्त्याज्जकारात्? पूर्वो नुम्, स्कोः (8.2.29) इत्यादिना सकारलोपः, अनुस्वत्रपरसवर्णो। नेष्टा इति। रधादिभ्यश्च (7.2.45) इति यदेण्नास्ति तदायं नुम्, व्रश्चादिसूत्रेण (8.2.36) षत्वम्, ष्टुत्वम्। इट्पक्षे झलादित्वाभावान्नुम्? नास्ति - नशितेति। मज्जनम्, नशनम् इति। ल्युट्, झलां जश् झशि (8.4.53) इति जश्त्वम् - सकारस्य दकारः, तस्य चत्वं जकार-। मस्जेः इत्यादि। यदि मस्जेरन्त्यादचः परो नुम्? स्यात्, असंयोगदित्वात्? मलोपो न प्राप्नोति, अनुपधत्वान्न नलोपः, स चेष्यते; अन्यथा मग्नो मानवानिति न सिध्यत्। तस्मादन्त्यात्पूर्वमाचार्या मस्जेर्नुममिच्छन्ति। कथं पुनरिष्यमाणोऽप्ययमर्थो लभ्यते? नशेरल्पाच्तरस्य पूर्वनिपातलक्षमव्यभिचारचिह्नात्। स हि लक्षणनिरपेक्षतां सूचयन्? मिदचोऽन्त्यात्परः (1.1.47) इत्येतदपीह लक्षणं नापेश्रत इति सचयति। तस्मश्चानपेक्षिते लक्ष्यानुरोधाद्यत्र मस्जेर्नुमि कृते सतीष्टं सिध्यति तत्रैव विधीयते। तेन मस्जेरन्त्यास्पर्वं नुम्? सिद्धो भवति। मग्नः इति। ओदितश्च (8.2.45) इति निष्ठानत्वम्॥

Prakriyasarvasvam

अनयोर्झलादौ प्रत्यये परे नुं स्यात् । मस्जेरन्त्यात्पूर्व नुममिच्छन्तीति सजयोर्मध्ये नुं स्यात् । मस्न्ज् तृ । संयोगादित्वात् सलोपः । मन्ज् तृ । चोः कुः । मन्ग् तृ ‘खरि च’ (८-४-५५) इति चत्त्वम् । मन् क्तृ । नस्यानुस्वारपरसवर्णी । मङ्क्ता । भुज् । कुत्वचत्वें भोक्ता । रुज् । रोक्ता । स्वञ्जादीनां स्वन्ज् सन्ज् इति नोपधत्वादनुस्वारपरसवर्णौ । परिष्वङ्क्ता । सङ्क्ता । रङ्क्ता । भङ्क्ता । विजिवद् विजिरपि पृथक्करणार्थोऽयम् । वेक्ता२ । सृज् तृ,

Sutra Prayogas

  • निनङ्क्षु (भट्टिकाव्यम्): मस्जि-नशोर्झलि इति नुम् ।

  • न्यमाङ्क्षीत् (भट्टिकाव्यम्): मस्जि-नशोर्झलि इति दुम्।

  • न्यमाङ्क्षुर् (भट्टिकाव्यम्): मस्जि- नशोर्झलि इति नुम् ।

  • प्रनष्टुम् (भट्टिकाव्यम्): मस्जि-नशोर्झलि इति नुम्।

  • विनङ्क्ष्यति (भट्टिकाव्यम्): मस्जि नशोः इति नुम्।