71052: आमि सर्वनाम्नः सुट्¶
Padacheda: आमि | S | 7 | 1 |
सर्वनाम्नः | S | 5 | 1 |
सुट् | S | 1 | 1 |
Sutrartha¶
अवर्णान्तात् सर्वनामशब्दात् परस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य सुट्-आगमः भवति ।
अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् इत्यनेन सप्तम्या निर्दिष्टम् पदम् स्थानिनम् दर्शयति । अतः षष्ठीबहुवचनस्य आम्-प्रत्ययः अत्र स्थानी । यदि अयम् प्रत्ययः अकारान्तात् / आकारान्तात् शब्दात् परः आगच्छति, तर्हि अस्य प्रत्ययस्य सुट्-आगमः भवति । आद्यन्तौ टकितौ (1.1.46) इति अयमाद्यावयवरूपेण आगच्छति । यथा - 1. सर्व + आम् [सर्वादीनि सर्वनामानि (1.1.27) इत्यनेन सर्व-शब्दस्य सर्वनामसंज्ञा । स्वौजस्… (4.1.2) इत्यनेन षष्ठीबहुवचनस्य विवक्षायाम् आम्-प्रत्ययः] → सर्व + सुट् आम् [आमि सर्वनाम्नः सुट् (7.1.52) इति आम्-प्रत्ययस्य सुट्-आगमः] → सर्व + स् आम् [इत्संज्ञालोपः] → सर्वे साम् [बहुवचने झल्येत् (7.3.103) इति अङ्गस्य एकारादेशः] → सर्वेषाम् [आदेशप्रत्यययोः (8.3.59) इति प्रत्ययावयवस्य षत्वम् ] 2. यद् + साम् [सर्वादीनि सर्वनामानि (1.1.27) इत्यनेन सर्व-शब्दस्य सर्वनामसंज्ञा । स्वौजस्… (4.1.2) इत्यनेन षष्ठीबहुवचनस्य विवक्षायाम् आम्-प्रत्ययः] → य अ + आम् [त्यदादीनामः (7.2.102) इत्यनेन दकारसस्य विभक्तिप्रत्यये परे अकारादेशः] → य + आम् [अतो गुणे (6.1.97) इति द्वयोः अकारयोः पररूपः अकारः] → य + सुट् + आम् [आमि सर्वनाम्नः सुट् (7.1.52) इति आम्-प्रत्ययस्य सुट्-आगमः] → य स् आम् [इत्संज्ञालोपः] → ये स् आम् [बहुवचने झल्येत् (7.3.103) इति अङ्गस्य एकारादेशः] → येषाम् [आदेशप्रत्यययोः (8.3.59) इति प्रत्ययावयवस्य षत्वम् ] 3. सर्वा + आम् [सर्वादीनि सर्वनामानि (1.1.27) इत्यनेन सर्व-शब्दस्य सर्वनामसंज्ञा । अजाद्यतष्टाप् (4.1.4) इत्यनेन तस्य टाप्-प्रत्यये कृते ‘सर्वा’ इति प्रातिपदिकम् । स्वौजस्… (4.1.2) इत्यनेन षष्ठीबहुवचनस्य विवक्षायाम् आम्-प्रत्ययः] → सर्वा + सुट् आम् [आमि सर्वनाम्नः सुट् (7.1.52) इति आम्-प्रत्ययस्य सुट्-आगमः] → सर्वा स् आम् [इत्संज्ञालोपः] → सर्वासाम् 4. तत् + आम् [सर्वादीनि सर्वनामानि (1.1.27) इत्यनेन तत्-शब्दस्य सर्वनामसंज्ञा । स्वौजस्… (4.1.2) इत्यनेन षष्ठीबहुवचनस्य विवक्षायाम् आम्-प्रत्ययः] → त अ + आम् [त्यदादीनामः (7.2.102) इत्यनेन दकारसस्य विभक्तिप्रत्यये परे अकारादेशः] → त + आम् [अतो गुणे (6.1.97) इति द्वयोः अकारयोः पररूपः अकारः] → ता + आम् [अजाद्यतष्टाप् (4.1.4) इत्यनेन अकारान्तस्य प्रातिपदिकस्य टाप्-प्रत्ययः] → ता + सुट् आम् [आमि सर्वनाम्नः सुट् (7.1.52) इति आम्-प्रत्ययस्य सुट्-आगमः] → ता स् आम् [इत्संज्ञालोपः] → तासाम् ज्ञातव्यम् - वर्तमानसूत्रम् ह्रस्वनद्यापो नुट् (7.1.54) इत्यस्य अपवादरूपेण आगच्छति ।
Sutrartha (English)¶
An आम्-प्रत्यय appearing after an अकारान्त सर्वनामशब्द gets a सुट्-आगम.
Vasu English Summary¶
After a Pronominal अङ्ग (stem) ending in a अ or आ the affix आम् of the Genitive 6th-Case plural gets the augment स् at the beginning.
Vasu English Translation¶
After a Pronominal अङ्ग (stem) ending in a अ or आ the affix आम् of the Genitive 6th-Case plural gets the augment स् at the beginning. The word आत् of the last sutra is understood here. Thus सर्वेषाम्, विश्वेषाम्, येषाम्, तेषाम्, सर्वासाम्, यासाम्, तासाम् ॥ But भवताम् of भवत् ॥ The आम् of the sutra is the Genitive Plural ending आम्, and not the आम् of the Locative Singular ordained by (7.3.116); for that आम् takes the augments याट्, आट् or स्याट् (7.3.112) — (7.3.114), while the present आम् takes सुट् or नुट् ॥ Nor the आम् of the Perfect Tense (3.1.35) &c), because that refers to verb and Sarvanama nor the आम् of (5.4.11), for the same reason. The word आमि is exhibited in the sutra in the locative case, for the sake of the subsequent sutra (7.1.53). For the purposes of the present sutra, it should be construed, as if it was in the Genitive case (आमः सर्वनाम्नः सुट्), because सर्वनाम्नः being in the Ablative case, the augment सुट् will be added at the beginning of the affix following it, on the maxim तस्मादित्युत्तरस्य ॥
Bhashya¶
आमि सर्वनाम्नः सुट् त्रेस्त्रयः ॥ ह्रस्वनद्यापो नुट् ॥ इमे बहव आम्शब्दाः(4) - कास्प्रत्ययादाममन्त्रे लिटि । ङसोसाम् किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे । ङेराम्नद्याम्नीभ्य इति, कस्येदं ग्रहणम् ? ॥ षष्ठीबहुवचनस्य ग्रहणम्(1) ॥ अथास्य कस्मान्न भवति - कास्प्रत्ययादाममन्त्रे लिटीति ? ॥ अननुबन्धकग्रहणे हि न सानुबन्धकस्येति ॥ स तर्ह्यस्यैवमर्थोऽनुबन्धः कर्तव्य इहास्य ग्रहणं मा भूदिति ? ॥ ननु चावश्यं मकारस्येत्संज्ञापरित्राणार्थोऽनुबन्धः कर्तव्यः ॥ नार्थ इत्संज्ञापरित्राणार्थेन, इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ॥ इदमस्तीत्कार्यं - मिदचोऽन्त्यात्पर इत्यचामन्त्यात्परो यथा स्यात् ॥ प्रत्ययान्तादयं विधीयते, तत्र नास्ति विशेषोमिदचोन्त्यात्परइति वा परत्वे, प्रत्ययः पर इति वा (परत्वे(2)) ॥ यस्तर्हि न प्रत्ययान्तात् - ःइजादेश्च गुरुमतोऽनृच्छ इति ? ॥ अत्रापि आस्कारसोराम्वचनं ज्ञापकं - नायमचामन्त्यात्परो भवतीति ॥ कथं कृत्वा ज्ञापकम् ? ॥ ह्यस्ति विशेषः - आम्यचामन्त्यात्परे सत्यसति वा ॥ अयमस्ति विशेषोऽसत्यामि द्विर्वचनेन भवितव्यं, सति न भवितव्यम् ॥ सत्यपि भवितव्यम् ॥ कथम् ? ॥ आमस्तन्मध्यपतितत्वाद्धातुग्रहणेन ग्रहणात् । तदेतत्कासासोराम्वचनं ज्ञापकमेव - नायमचामन्त्यात्परो(1) भवतीति ॥ अथापि कथं चिदित्कार्यं स्यादेवमपि न दोषः, - क्रियते न्यास एव - आमअमन्त्रे(2) इति । यद्येवमामाऽमन्त्र इति प्राप्नोति ॥ शकन्धुन्यायेन निर्देशः ॥ अथ वाऽस्त्वस्य ग्रहणं को दोषः ? ॥ इह कारयांचकार हारयांचकार चिकीर्षांचकार जिहीर्षांचकार, ह्रस्वनद्यापो नुडिति नुट्प्रसज्येत ॥ लोपाऽयादेशयोः कृतयोर्न भविष्यति ॥ इदमिह संप्रधार्यं - लोपायादेशौ क्रियेतां(2) नुडिति; किमत्र कर्तव्यम् ? ॥ परत्वान्नुट् ॥ नित्यौ लोपाऽयादेशौ, कृतेऽपि नुटि प्राप्नुतोऽकृतेपि । तत्र नित्यत्वाल्लोपाऽयादेशयोः कृतयोर्विहतनिमित्तत्वान्नुग्न भविष्यति ॥ अथास्य कस्मान्न भवति - किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षइति ? ॥ अननुबन्धकग्रहणे हि न सानुबन्धकस्येति ॥ स तर्ह्येवमर्थोऽनुबन्धः कर्तव्यः ? ॥ ननु चावश्यमुगित्कार्यार्थोऽनुबन्धः कर्तव्यः ॥ नार्थ उगित्कार्यार्थेनाऽनुबन्धेन । लिङ्गविभक्तिप्रकरणे सर्वमुगित्कार्यां, न चामो लिङ्गविभक्ती स्तः । अव्ययमेषः ॥ मकारस्य तर्हीत्संज्ञापरित्राणार्थोऽनुबन्धः कर्तव्यः ॥ इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ॥ इदमस्तीत्कार्यं - मिदचोन्त्यात्पर इत्यचामन्त्यात्परो यथा स्यात् ॥ नैतदस्ति । घान्तादयं विधीयते तत्र नास्ति विशेषः - मिदचोन्त्यात्पर इति वा(1) परत्वे प्रत्ययः पर इति वा परत्वे ॥ अथापि कथं चिदित्कार्यं स्यादेवमपि न दोषः - क्रियते न्यास एव ॥ अथ वाऽस्त्वस्य ग्रहणं को दोषः ? ॥ इह-पचतितरां जल्पतितरां, - ह्रस्वनद्यापो नुडिति, नुट्प्रसज्येत ॥ लोपे कृते न भविष्यति ॥ इदमिह संप्रधार्थं लोपः क्रियतां नुडिति, किमत्र कर्तव्यम् ? ॥ परत्वान्नुट् ॥ एवं तर्हि ह्रस्वनद्यापो नुडित्यत्र यस्येति लोपोऽनुवर्तिष्यते ॥ अथास्य कस्मान्न भवति ङेराम्नद्याम्नीभ्यइति ? ॥ किं च स्यात् ? ॥ कुमार्यां किशोर्यां खट्वायां मालायां तस्यां यस्यामिति, - ह्रस्वनद्याप नुडिति नुट्प्रसज्येत ॥ आड्याट्स्याटोऽत्र बाधका भविष्यन्ति ॥ इदमिह संप्रधार्यम् - आड्याट्स्याटः क्रियन्तां, नुडिचि, - किमत्र कर्तव्यम् ? ॥ परत्वादाड्याट्स्याटः ॥ अथेदानीमाड्याट्स्याट्त्सु कृतेषु पुनः प्रसङ्गान्नुट्कस्मान्न भवति ? ॥ सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवेति ॥ (ह्रस्वनद्यापो) ॥
Kashika¶
आदिति वर्तते। अवर्णात् सर्वनाम्न उत्तरस्यामः सुडागमो भवति। सर्वेषाम्। विश्वेषाम्। येषाम्। तेषाम्। सर्वासाम्। यासाम्। तासाम्। आदित्येव — भवताम्। आमीति षष्ठीबहुवचनं गृह्यते, न ङेराम् नद्याम्नीभ्यः (७.३.११६) इति, तस्य हि परत्वादाङ्याट्स्याटो भवन्ति। यश्च किमेत्तिङव्ययघादामुः (५.४.११), आमश्च लिटि (३.१.३५), न तौ सर्वनाम्नः स्तः। सानुबन्धकाविति वा तौ न गृह्येते (परि०८१)। आमीति सप्तमीनिर्देश उत्तरार्थः। इह तु सर्वनाम्न इति पञ्चमीनिर्देशात् तस्मादित्युत्तरस्य (१.१.६७) इति षष्ठीप्रक्ऌप्तिर्भविष्यति॥
Siddhanta Kaumudi¶
अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः स्यात् । एत्वषत्वे सर्वेषाम् । सर्वस्मिन् । शेषं रामवत् । एवं विश्वादयोऽप्यदन्ताः । सर्वादयश्च पञ्चत्रिंशत् । सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, त्वत्, त्व नेम, सम, सिम ॥ (गणसूत्रम् -) पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । (गणसूत्रम् -) स्वमज्ञातिधनाख्यायाम् । (गणसूत्रम् -) अन्तरं बर्हिर्योगोपसंव्यानयोः । त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम् - इति । उभशब्दो द्वित्वविशिष्टस्य वाचकः । अतएव नित्यं द्विवचनान्तः । तस्येहपाठस्तूभकावित्यकजर्थः । नच कप्रत्ययेनेष्टसिद्धिः । द्विवचनपरत्वाऽभावेनोभयत उभयत्रेत्यादाविवाऽयच्प्रसङ्गात् । तदुक्तम् ।<!उभयोऽन्यत्र !> (वार्तिकम्) ॥ अन्यत्रेति द्विवचनपरत्वाऽभावे । उभयशब्दस्य द्विवचनं नास्तीति कैयटः । अस्तीति हरदत्तः । तस्माज्जस्ययजादेशस्य स्थानिवद्भावेन तयप्प्रत्ययान्ततया प्रथमचरमे (SK226)ति विकल्पे प्राप्ते विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वान्नित्यैव संज्ञा भवति । उभये । डतरडतमौ प्रत्ययौ । [(परिभाषा - ) प्रत्ययग्रहणे तदन्ता ग्रह्याः] । यद्यपि [(परिभाषा - ) संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहण नास्ति] सुप्तिङन्त (SK29)मिति ज्ञापकात् । तथापीह तदन्तग्रहणम् । केवलयोः संज्ञायाः प्रयोजनाऽभावात् । अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावाद्द्विबहुविषये निर्धारणे वर्तेते । तत्रान्यतमशब्दस्य गणे पाठाभावान्न संज्ञा । त्वत्व इति द्वावप्यदन्तावन्यपर्यायौ । एक उदात्तोऽपरोऽनुदात्त इत्येके । एकस्तान्त इत्यपरे । नेम इत्यर्थे । समः सर्वपर्यायः । तुल्यपर्यायस्तु नेह गृह्यते । यथासङ्ख्यमनुदेशः समानामिति ज्ञापकात् ।<!अन्तरं बहिर्योगेति (गणसूत्रम् -) गणसूत्रेऽपुरीति वक्तव्यम् !> (वार्तिकम्) ॥ अन्तरायां पुरि ॥
Laghu Siddhanta Kaumudi¶
अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः। एत्वषत्वे। सर्वेषाम्। सर्वस्मिन्। शेषं रामवत्। एवं विश्वादयोऽप्यदन्ताः॥ उभशब्दो नित्यं द्विवचनान्तः। उभौ उभौ। उभाभ्याम् उभाभ्याम् उभाभ्याम्। उभयोः उभयोः। तस्येह पाठोऽकजर्थः। उभयशब्दस्य द्विवचनं नास्ति। उभयः। उभये। उभयम्। उभयान्। उभयेन। उभयैः। उभयस्मै। उभयेभ्यः। उभयस्मात्। उभयेभ्यः। उभयस्य। उभयेषाम्। उभयस्मिन्। उभयेषु॥ डतरडतमौ प्रत्ययौ, प्रत्ययग्रहणे तदन्तग्रहणमिति तदन्ता ग्राह्याः॥ नेम इत्यर्धे॥ समः सर्वपर्यायस्तुल्यपर्यायस्तु न, यथासंख्यमनुदेशः समानामिति ज्ञापकात्॥
Balamanorama¶
आमि सर्वनाम्नः सुट् - सर्व-आम् इति स्थिते ‘ह्रस्वनद्यापः’ इति नुटि प्राप्ते- । आमि सर्वनाम्नः । ‘अज्जसेरसुक्’ इत्यतोऽनुवृत्तेन आदिति पञ्चम्यन्तेनअङ्गस्ये॑त्यधिकृतं पञ्चम्या विपरिणतं विशेष्यते, तदन्तविधिः,परस्ये॑त्यध्याहार्यम् ।उभयनिर्देशे पञ्चमीनिर्देशो बलीया॑निति न्यायेनतस्मादित्युत्तरस्ये॑ति परिभाषयाआमी॑ति सप्तम्यन्तं षष्टन्तमापद्यते । ‘सर्वनाम्न’ इति तु विहितविशेषणम् । ततश्च अवर्णान्तादङ्गात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः स्यादित्यर्थः । सम्पद्यते । तदाह — अवर्णान्तादित्यादिना ।अवर्णान्ता॑दित्यनन्तरम्अङ्गा॑दिति शेषः ।अवर्णान्तात्सर्वनाम्नो विहितस्याम॑ इति व्याख्याने तु येषां तेषामित्यादौ सुडागमो न स्यात् । तत्र आमो दकारान्ताद्विहितत्वात् ।सर्वनाम्नः परस्ये॑ति तु न व्याख्यातम् । तथा सति वर्णाश्रमेतराणामित्यसिद्धेरित्यग्रे मूल एव स्पष्टीभविष्यति । एत्वषत्वे इति ।बहुवचनेझल्ये॑दित्येत्वम् । संनिपातपरिभाषा त्वत्र न प्रवर्तते इति बहुवचने झल्येदित्यत्रेक्तम् । ‘आदेशप्रत्यययोः’ इति षत्वं सुटो ।ञपि, तदागमास्तद्ग्रहणेन गृह्यन्ते॑ इति प्रत्ययावयवत्वादिति भावः । सर्वेषामिति । नन्वामीति सप्तमीनिर्देशसामर्थ्यात्तस्मादित्युत्तरस्येति न प्रवर्तते । ततश्च आमि परे प्रकृतेरेव सुडागमो युक्त इति चेन्न, सप्तमीनिर्देशस्य ‘त्रेस्त्रयः’ इत्युत्तरार्थमावश्यकत्वादिति भावः । सप्तकेम्यवचनस्य ङसिङ्योरिति स्मिन्नादेशं सिद्धवत्कृत्याह — सर्वस्मिन्निति । शेषमिति । शिष्यते इति शेषं । कर्मणि घञ् ।घञजबन्ताः पुंसी॑-ति तु प्रायिकमिति भावः । एवमिति । सर्वशब्दवदित्यर्थः । नच सर्वशब्दस्य बहुत्वव्यापकसर्वत्वात्मकधर्मविशेषप्रवृत्तिनिमित्तकत्वाद्बहुवचनमेव न्याय्यमिति वाच्यं, सर्वशब्दो हि बह्ववयवारब्धसमुदाये वर्तते । तत्र यदाऽनुद्भूतावयवः समुदायो विवक्षितस्तदा भवत्येकवचनम् । यथा-सर्वो लोक इति । अनुद्भूतत्वम्विवक्षितसंख्याकत्वम् । यदात्वनुद्भूतावयवकौ समुदायौ तदा द्विवचनम् । यथा सर्वौ व्यूहाविति । यदा तूद्भूतावयवसमुदायस्तदा बहुवचनम् । यथा सर्वे जना इतचि । अथ के ते सर्वादयः शब्दाः कति च ते इत्यत्राह — सर्वादयश्च पञ्चतिंरशदिति । पञ्च च तिंरशच्चेति द्वन्द्वः, पञ्चाधिका तिंरशदिति शाकपार्थिवादित्वात्तत्पुरुषो वा ।सङ्ख्यायास्तत्पुरुषस्योपसङ्ख्यानां॑मिति डच्तु समासान्तो न भवति ।अन्यत्राधिकलोपा॑द#इत्युक्तेः ।पूर्वपरावरेति — गणान्तर्गतं सूत्रम् ।व्यवस्थायामसंज्ञायां च पूर्वादीनि सप्त सर्वादिगणप्रविष्टानि वेदितव्यानी॑त्यर्थः । सर्वनामसंज्ञा तुसर्वादीनि सर्वनामानी॑त्येव सिध्यति । ॒स्वमज्ञाती॑तिअन्तरं बहि॑रिति च गणसूत्रद्वयमेवमेव योज्यम् । व्यवस्थादिशब्दा अग्ने मूल एव व्याख्यास्यन्ते । इतिशब्दः — सर्वादिगणसमाप्ति-द्योतनार्थः । तत्र विआशब्दोऽपि सर्वशब्दवदेव । उभशब्दे तु विशेषमाह — तत्रेति । सर्वादिषु मध्य इत्यर्थः । अत एवेति । द्वित्विशिष्टवाचकत्वादेवेत्यर्थः । नित्यमिति । सर्वदा द्विवचनान्त एव नत्वेकवचनबहुवचने इति यावत् । तेन टाबादि न निवार्यते । नन्वेवं सति ‘जसः शीः’ ‘सर्वनाम्नः स्मै’ङसिङ्योः स्मात्स्मिनौ॑आमिसर्वनाम्नः सुट् इत्युक्तानां सर्वनामकार्याणां द्विवचनेऽभावादुभशब्दस्य सर्वादिगणे पाठो व्यर्थ इत्यत आह — तस्येहेति । तस्य=उभशब्दस्य, इह=सर्वादिगणे, पाठस्तु उभकावित्यत्रअव्ययसर्वनाम्नामकच्प्राक्टेः॑ इत्यकच्प्रत्ययार्थ इत्यर्थः । ननु मास्तूभशब्दस्य सर्वादिगणे पाठो, मास्तु च सर्वनामता, मास्तु च तत्प्रयुक्तोऽकच् । उभशब्दात्स्वार्थिके कप्रत्यये सत्यपि उभकाविति रूपसिद्धेः । न च काकचोः स्वरभेदः शह्क्यः । ‘तद्धितस्य’ इति प्रत्ययस्वरेण वा, ‘चितः सप्रकृतेः’ इति चित्स्वरेण वाऽन्तोदात्तत्वे विशेषाऽभावात् । उक्तं च भाष्ये — ॒काकचोः॑ को विशेषः ॑ इति । तत्राह — नचेति । कप्रत्ययेन उभकावितीष्टरूपसिद्धिर्नचेत्यन्वयः । कुत इत्यत आह — द्विवचनेति । द्विवचनपरत्वाऽभावे उभशब्दादयच् विहितः । अकचि तु सतितन्मध्यपतितस्तद्ग्रहणेन गृह्रते॑ इति न्यायेन उभशब्देनोभकशब्दोऽपि गृह्रते । तस्य च॒उभक-औ इत्यस्यां दशायां द्विवचनपरत्वादयच्प्रत्ययो न भवति । कप्रत्यये तु सति तस्य उभशब्दात्परतो विहितत्वेन तन्मध्यपतितन्याया.ञप्रवृत्त्या उभकशब्दस्योभशब्देन ग्रहणाऽभावादुभशब्दस्य कप्रत्ययव्यवधानेन द्विवचनपरकत्वाऽभावादयचि उभयकौ इति स्यात् । यथा ‘उभयत’उभयत्रे॑त्यत्र द्विवचनपरकत्वाऽभावादयच्प्रत्ययो ।ञस्ति तद्व दित्यर्थः । द्विवचने सति अयच्प्रत्ययो नेति यदभिहितं तत्उभयोऽन्यत्रे॑ति वदता वार्तिककृता उक्तमित्यर्थः । अन्यत्रेत्येततद्व्याचष्टे-अन्यत्र द्विवचनपरत्वाभावे इति । उदाहृतवार्तिके अन्यत्रेत्यनेन द्विवचनादन्यस्मिन् परे इत्यर्थो विवक्षितः,अन्याभावो द्विवचनटाब्विषयत्वा॑दिति पूर्ववार्तिके द्विवचनस्यैव प्रस्तुतत्वादिति भावः । टाब्ग्रहणं तु तत्राविवक्षितमिति कैयटादिषु स्पष्टम् । ततश्च सर्वनामतानिमित्तकाऽकजर्थ उभशब्दस्य सर्वादिषु पाठ इति स्थितम् । अत्र यद्वक्तव्यं तत्तद्धितप्रक्रियायाम्उभादुदात्तो नित्य॑मित्यत्र वक्ष्यते । अथोभयशब्दे विशेषमाह — उभयशब्दस्येति । उभौ अवयवौ यस्यावयविनः स उभयो मणैः । ‘उभादुदात्तः’ इत्ययच् । अवयववृत्तेः सङ्ख्यावाचिन उभशब्दादवयविन्यर्थेऽयच्प्रत्ययः स्या॑दिति तदर्थः । व्द्यवयवारब्धो मणिरित्यर्थः । मणेरवयविन एकत्वादुभय इत्येकवचनं उभयश्च उभयश्च उभयश्चेत्येवं द्व्यवयवारब्धद्विमणिविवक्षायामुभयौ मणी इति द्विवचनं तु न भवति,उभयोऽन्यत्रे॑त्युदाहृतवार्तिके उभयशब्दस्य द्विवचनान्तादन्यत्रैव प्रयोगविध्यवगमात् । नच तत्र वार्तिके स्वार्थिकायजन्तस्यैवोभयशब्दस्य ग्रहणं, स्वार्थिकायजन्तोभशब्दोपक्रमेणैव तद्वार्तिकप्रवृत्तेरिति वाच्यम्, एतद्वार्तिकव्याख्यावसरेउभयो मणिः॑, ‘उभये देवमनुष्याः’ इति भाष्ये उदाहृतत्वेन तयप्समानार्थकायजन्तस्यापि तत्र ग्रहणावगमात् । एतदेवाभिप्रेत्यतद्धितश्चासर्वविभक्ति॑रित्यव्ययत्वमुभयशब्दस्य द्विवचनाभावेनाऽसर्वविभक्तित्वेऽपि न भवति,तसिलादयः प्राक्पाशपः॑,शस्प्रभृतयः प्राक् समासान्तेभ्य,॑अम्, ‘आम्’कृत्वोऽर्थाः॑, ‘तसिवती,’ नानाञा॑विति परिगणितत्वादिति कैयटेनोक्तम् । तदाह — कैयट इति । एवंच — उभयः उभये । उभयम्, उभयान् । उभयेन, उभयैः । उभयस्मै, उभयेभ्यः । उभयस्मात्, उभयेभ्यः । उभयस्य, उभयेषाम् । उभयस्मिन्ुभयेषु इत्येव रूपाणि । नतूभयावित्यादिद्विवचनान्तप्रयोग इति सिद्धं भवति । हरदत्त इत्यस्वरसोद्भावनम् । तद्बीजं तूभयोऽन्यत्रेति प्रागुक्तवार्तिकभाष्यविरोध एवेत्यन्यत्र विस्तरः । उभयशब्दाज्जसि सर्वादीनीति नित्यां सर्वनामसंज्ञां बाधित्वा परत्वात्प्रथमचरमतयाल्पार्धकतिपयनेमाश्च॑ इति सर्वनामसंज्ञाविकल्पप्राप्तिमाशङ्क्य परिहरति — तस्मादित्यादिना । तस्मात्ुभेयशब्दात्, जसि सति प्रथमचरमेति विकल्पे प्राप्ते नित्यैव संज्ञा भवतीत्यर्थः ।सर्वादीनीत्यनेने॑ति शेषः । ननु प्रथमचरमादिष्वनन्तर्भावात्कथमुभयशब्दस्य तयप्प्रत्ययान्तत्वमित्यत आह — अयजादेशस्य स्थानिवद्भावेनेति । ‘उभादुदात्त’ इति सूत्रे सङ्ख्याया अवयवे तयप् इति उभशब्दाद्विहितस्य तयपोऽयजादेशः, तयब्ग्रहणमननुवर्त्त्य अयच् स्वतन्त्रः प्रत्ययो वे॑ति पक्षद्वयं भाष्ये स्थितम् । तत्र प्रथमपक्षाभिप्रायेणात्र सर्वनामसंज्ञाविकल्पशङ्का बोध्या । ननु प्रथमचरमेति वकल्पस्य परत्वात्कथमिहसर्वादीनी॑तिनित्यैव संज्ञेत्यत आह-अन्तरङ्गत्वादिति । तदेवोपपादयत#इ — विभक्तिनिरपेक्षत्वेनेति ।प्रथमचरमे॑ति जसि विकल्पविधिर्जसपेक्षत्वेन विभक्त्यपेक्षत्वाद्बहिरङ्गः ।सर्वादीनी॑ति नित्यसंज्ञाविधिस्तु तदनपेक्षत्वादन्तरङ्गः,अल्पापेक्षमन्तरङ्ग॑मिति न्यायात् । अतोऽत्र परमपिप्रथमचरमे॑ति विकल्पं बाधित्वासर्वादीनी॑ति नित्यैव संज्ञा भवति, परादन्तरङ्गस्य बलीयस्त्वादिति भावः । तथा च शीभावो नित्य इत्याह-उभये इति । ननु डतरडतमशब्दयोः क्वापि प्रयोगादर्शनात्किमर्थस्तयोः पाठ इत्यत आह-डतरडतमौ प्रत्ययाविति ।किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच् ।वा बहूनां जातिपरिप्रश्ने डतमच् ।एकाच्च प्राचा॑मिति तद्धिताधिकारविहितौ डतरडतमौ प्रत्ययौ, ‘प्रत्ययः’ इत्यधिकृत्य तद्विधेः । अतः प्रत्ययग्रहणपरिभाषया डतरग्रहणेन कतरादिशब्दानां, च ग्रहणमिति भावः । शङ्कते — यद्यपीति । सुप्तिङन्तमिति । यदि संज्ञाविधावपि प्रत्ययग्रहणपरिभाषा प्रवर्तेत, तर्हिसुप्तिङ् पद॑मित्येव सूत्र्येत, प्रत्ययग्रहणपरिभाषयैव सुप्तिङन्तमित्यर्थलाभात् । अतः संज्ञाविधौ प्रत्ययग्रहणपरिभाषा न प्रवर्तत इति विज्ञायते । एवंच प्रकृते सर्वनामसंज्ञाविधौ डतरडतमग्रहणे प्रत्ययग्रहणपरिभाषानुपस्थानात्कथं तदन्तग्रहणमित्याक्षेपः । परिहरति — तथापीति । अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणाभावेऽपीह सर्वनामसंज्ञाविधौ डतरडतमग्रहणे तदन्तग्रहणस्त्येवेत्यर्थः । कुत इत्यत आह — केवलयोरिति ।न केवला प्रकृतिः प्रयोक्तव्या, नापि केवलः प्रत्ययः॑ इति न्यायेन केवलप्रत्यययोर्डतरडतमयोः प्रयोगानर्हत्वेन तयोः सर्वनामसंज्ञायां फलाऽभावादित्यर्थः । तस्माड्डतरडतमग्रहणेनात्र कतरकतमादिशब्दानां ग्रहणमिति स्थितम् । ननु डतरग्रहणेनैव सिद्धे सर्वादिगणे ।ञन्यतरशब्दपाठो व्यर्थः । अन्यतमशब्दस्यापि डतमप्रत्ययान्तत्वात्सर्वनामत्वापत्तिश्चेत्यत आह — अन्यतरान्यतमशब्दावव्युत्पन्नाविति । डित्थादिशब्दवत्प्रकृतिप्रत्ययविभागविहीनावित्यर्थः । किंयत्तदेकेभ्य एव डतरडतमविधानादिति भावः । नन्वेवं सत्यन्यतरान्यतमशब्दाभ्यां द्वबहुनिर्धारणावगमः कथमित्यत आह — स्वभावादिति । एवंचान्यतमशब्दस्य न सर्वनामत्वमित्याह — तत्रेति । एतयोर्मध्ये इत्यर्थः । अन्यतरशब्दस्य तु डतरडतमविधानादिति भावः । नन्वेवं सत्यन्यतरान्यतमशब्दाभ्यां द्विबहुनिर्धारणावगमः कथमित्यत आह — स्वभावादिति । एवंचान्यतमशब्दस्य न सर्वनामत्वमित्याह — तत्रेति । एतयोर्मध्ये इत्यर्थः । अन्यतरशब्दस्य तु डतरप्रत्ययान्तत्वाऽभावेऽपि सर्वादिगणे पाठादेव सर्वनामत्वमित्युक्तप्रायम् । अत ‘त्व’त्वे॑त्येकप्रातिपदिकभ्रमं वारयन् अप्रसिद्धार्थत्वाद्व्याचष्टे — त्व त्व इति द्वावप्यदन्तावन्यपर्यायाविति । अन्यशब्दसमानार्थकावित्यर्थः । द्वयोरप्यदन्तत्वे ।ञन्यतरपाठवैयथ्र्यं परिहरति-एक इति । इत्येके इति । इति कतिपये वृत्तिकृदादयो मन्यन्त इत्यर्थः । ‘एतं त्वं मन्ये’ इत्युदात्तत्वस्य ‘उत त्वः पश्यन्’ इत्यादावनुदात्तत्वस्य च ऋग्वेदे दर्शनादिति भावः । एकस्तान्त इति । संहितापाठेत्व॑दिति च्छेदमाश्रित्य प्रथमस्तकारान्तः, द्वितीयोऽदन्त इत्यपरे मन्यन्त इत्यर्थः । अन्यथा एकश्रुत्या वा स्वरविनिर्मुक्त वा सकृदेव पठेत्, तावतैव द्वयोरपि लाभात्,त्वत्त्वसमसिमेत्यनुच्चानी॑ति फिटसूत्राच्च ।स्तरीरु त्वद्भवति, सूत उ त्वत् इति ऋग्व्याख्यावसरे वेदभाष्येत्व॑दिति सर्वादिपठितोऽनुदात्तोऽयमन्यपर्यायः॑ इत्युक्तत्वाच्च ।त्वदधरमधुरमधूनि पिबन्त॑मिति जयदेवप्रयोगाच्च । तत्र हि त्वच्छब्दो ।ञन्यपर्यायः । त्वतोऽधर इति विग्लरहः । अन्यस्या अधर इत्यर्थः । नतु तवाधर इति विवक्षितं,पश्यति दिशि दिशि रहसि भवन्तम् इति पूर्ववाक्येनाऽन्वयानुपपत्तेः । नेम इत्यर्धे इति । ‘वर्तते’ इति शेषः ।प्र नेमस्मिन् ददृशे सोमो अन्तः॑ इत्यृचि तथा दर्शनादिति भावः । सम इति । सर्व शब्दसमानार्थक एव समशब्दः सर्वादिगणे पठित इत्यर्थः । तुल्यपर्यायस्त्विति । तुल्यशब्दसमानार्थक इत्यर्थः । ज्ञापकादिति । अन्यथा तत्र समेषामिति निर्दिशेदिति भावः । ननु अष्टाध्यायीपठितेअन्तरं बहिर्योगोपसंव्यानयोः॑ इति जसि सर्वनामसंज्ञाविकल्पविधायके सूत्रेअपुरीत वक्तव्य॑मिति वार्तिकपाठो भाष्ये दृश्यते । एवंचान्तराः पुर्य इत्यत्र जसि सर्वनामसंज्ञानिषेधेऽपि,अन्तरायां पुरी॑त्यत्र तन्निषेधा.ञबावादन्यतरस्यामिति स्यादित्यत आह — गणसूत्र इति । यद्यपीदं वार्तिकं जसि विकल्पविधिप्रकरणे पठितं तथाप्यन्तरं बहिरितिगणसूत्रस्यैवायं शेषो, नत्वष्टाध्यायीपठितस्या.ञन्तरं बहिरित्यस्य जसि विधायकस्य शेषः,जसश्शी॑त्यत्र अत इत्यनुवृत्त्या टाबन्तात्तत्प्राप्तिविरहात् । ततश्च पुर्यां विशेष्यभूतायामन्तरशब्दः सर्वादिगणे पाठं न लभते इत्येतद्वार्तिकार्थः पर्यवस्यति । एवञ्चजसोऽन्यत्रापि अन्तरशब्दस्य पुर्यां विशेष्यभूतायां सर्वनामत्वं नेति लभ्यते । अतोऽन्तरायां पुरीत्यादौ सर्वनामकार्यं स्याडादि न भवतीत्यभिप्रेत्योदाहरति — अन्तरायां पुरीति । यद्यप्यन्तरशब्द एव सर्वादिगणे पठितो, नतु टाबन्तः । तथापि लिङ्गविशिष्ट परिभाषया वा, एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा सर्वनामत्वप्राप्तिर्बोध्या । ‘सिम’ शब्दस्तुसिमः कृत्स्ने च शक्ते च स्यान्मर्यादावबद्धयोः॑ इति कोशे प्रसिद्धः ।
Tattvabodhini¶
आमि सर्वनाम्नः सुट् - अवर्णान्तादिति । अवर्णान्चतादङ्गत्पर्सयेत्यर्थः । तेनयेषां॑तेषा॑मित्यादौ नाऽव्याप्तिः । सर्वनाम्नो विहितस्येति ।सर्वनाम्नः परस्ये॑ति नोक्तं,वर्णाश्रमेतराणा॑मित्यत्र सुट्प्रसङ्गात्,द्वन्द्वेचे॑त्यनेन समुदायस्य सर्वनामसंज्ञानिषेधेऽप्यवयवस्याऽनिषेधात् । विहितविशेषणत्वाश्रयणे प्रमाणं तुदक्षिणोत्तरपूर्वाणा॑मिति भाष्यकारप्रयोग एव । आम इति ।सर्वनाम्न॑ इति पञ्चम्या निरवकाशतयाआमी॑ति सप्तम्याःत्रेस्त्रयः॑इत्युत्तरसूत्रे कृतार्थायाः षष्ठी प्रकल्प्यत इति भावः । पञ्चतिंरशदिति । पञ्च च तिंरशच्चेति द्वन्द्वः । पञ्चाधिकास्त्रशदिति तत्पुरुषो वा । न चसंङ्ख्यायास्तत्पुरुषस्ये॑ति वक्ष्यमाणवार्तिकेन समासान्तो डच्स्यादिति वाच्यम्, तत्रैव वार्तिकेअन्यत्राधिकलोपा॑ दित्युक्तत्वात् । ननु सर्वेषां नाम सर्वनामेत्यन्वर्थत्वात्संज्ञायाः सर्वविआआदय एव संज्ञिनो भविष्यन्ति नान्ये इति किमनेन पञ्चतिंरशदिति परिगनेन,सर्वादीनी॑ति सूत्रेण वा । मैवम् । परिगणनाऽभावे कृत्स्नसकलसमस्तादिष्वतिप्रसङ्गात् । एवं चपञ्चतिंरशत्सङ्ख्याकानि सर्वादीन्येव सर्वनामसंज्ञकानि नान्यानी॑ति नियमायसर्वाद#ईनी॑ति सूत्रमावश्यकं न त्वनुनासिकसंज्ञासूत्रमिव मन्दप्रयोजनमिति बोध्यम् । पूर्वपरावर । व्यवस्थायामसंज्ञायां यानि पूर्वपरावरदक्षिणोत्तरापराधराणि तानि सर्वादिगणसंनिविष्टानि नान्यानीत्यर्थः । सर्वनामसंज्ञा तुसर्वादीनि सर्वनामानि॑ इत्यनेनैव सिध्यति । एवमुत्तरसूत्रद्वयेऽपि बोध्यम् ।त्यद्तद् एतौ उक्तपरामर्शकौ ।तत्राद्यश्छान्दस॑ इति गणरत्नकारोक्तिर्नादर्तव्या । स्यश्छन्दसि बहुल॑मिति सूत्रे छन्दोग्रहणवैयथ्र्यापत्तेः । एक इति ।एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा । साधारणे समानेऽल्पे सङ्ख्यायां च प्रयुज्यते॑ । अत एवेति । द्वयोर्द्विवचनस्यैव युक्तत्वादिति भावः । नित्यं द्विवचनान्त इति । सर्वदा । द्विवचनान्त इत्यर्थः । न चैवमुभादुदात्तो नित्यम्,उभय सर्वनामत्वे कोऽर्थः॑-इति सूत्रकारभाष्यकारप्रयोगो विरुध्यत इति शङ्क्यम्, अर्थपरस्यैव नित्यं द्विवचनान्तता न तु स्वरूपानुकरणपरस्येत्यभ्युपगमात् । अथ सर्वादिषूभशब्दपाठो व्यर्थः, सर्वनामकार्याणां स्मायादीनां द्विवचनेऽभावात् । न चसर्वनाम्नस्तृतीया चे॑ति सूत्रेणोभाभ्यां हेतुभ्यामुभयोर्हेत्वोरिति षष्ठीतृतीयासिद्धिसतत्फलमिति वाच्यम् ।निमित्तकारणहेतुषु सर्वासां प्रायदर्शन॑मिति वार्तिकेनैव गतार्थत्वात् । न च वृत्तिकृतासर्वनाम्नस्तृतीया चे॑ति सूत्रे पठितत्वादिदमपि वार्तिकं सर्वनाम्न एव सर्वविभक्तिप्रापकं नान्यस्येति वाच्यम्, भाष्येहेतौ॑ इति सूत्रे तद्वार्तिकस्य पठितत्वादिदमपि वार्तिकं सर्वनाम्न एव सर्वविभक्तिप्राप्कं नान्यस्येति वाच्यम्, भाष्येहेतौ॑ इति सूत्रो तद्वार्तिकस्य पठितत्वात् । अत एवअन्नेन कारणेन वसति॑अन्नस्य कारणस्ये॑त्युदाहृतं हरदत्तेनेत्याशङ्ख्याह-तस्येह पाठस्त्विति । ननु कप्रत्ययेनापीष्टसिद्धेः किमनेनाऽकजर्थपाठेना । न च काऽकचोः स्वरे विशेषोऽस्तीति वाच्यम्, प्रत्ययस्वरेण चित्स्वरेण वाऽन्तोदात्तत्वे विशेषाऽभावादित्याशङ्क्याह- न चेति । उभशब्दस्य द्विवचनपरत्वमकच्प्रत्ययो न विहन्ति, टेः प्राग्जायमानत्वात्, तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात् । कप्रत्ययस्तु विहन्त्येव, प्रातिपदिकात्परत्र जायमानत्वादित्याशङ्ख्यामाह-द्विवचनपरत्वाभावेनेति । अयच्प्रसङ्गादिति । उभयशब्दात्रतसोः परतः स्वार्थे यथा अयज्यभवति तथा कप्रत्यये सति स्यादिति भावः । यद्यपि स्वार्थे अयज्दृष्टान्तेऽपि दुर्लभस्तथापिउभादुदात्त॑ इति सूत्रेनित्य॑मिति योगविभागात्सुलभ एव । तथाहि-॒उभादुदात्तः॑ ।द्वित्रिभ्या॑मिति सूत्राद्वेति नानुवर्तते, अस्वरितत्वात् । अवयववृत्तेः सङ्ख्यावाचिन उभशब्दादवयविन्यर्थे अयच् स्यात् । उभयो मणिः । उभयः पाशः । ततोनित्यम् । उभशब्दाद्वृत्तिविषये नित्यमयच्स्यात्स्वार्थे । तेनउभयतः॑,उभयत्र,॑उभयपक्षविनीतानिद्राः॑ इत्यादि सिद्धम् । नन्वेवमकचि कृतेऽप्ययज्दुर्वारः,वृत्तिविषये स्वार्थे नित्यमय॑जिति त्वयैवोक्तत्वादिति चेत्, एवं तर्हि योगविभागस्येष्टध्द्यर्थतयाउभौ साभ्यासस्ये॑ति निर्देशेन च यत्र द्विवचनं न श्रूयते तत्रैवायमिति व्याख्यायते, न तु वृत्तिविषय इति न दोषः । तदुक्तमिति ।वार्तिककृते॑ति शेषः ।उभयोऽन्यत्रेति । उभयेति यः स्वार्थिकोऽयजन्तः सोऽन्यत्र प्रयुज्यते, न तु द्विवचने परत इत्यर्थः । न चउभा॑वित्यादौ द्विवचनपरत्वं दुरुपपादम्, उभयत आश्रयणोऽन्तादिवद्भावविरहादिति वाच्यम्;उभशब्दादुत्पन्नं द्विवचनं लुका नापह्मतं यत्र ततोऽन्यत्रायजिति विवक्षितोर्थ॑ इति मनोरमायामुक्तत्वात् । एवं च सर्वादिषूभशब्दपाठोऽकजर्थ इति स्थितम् । भाष्ये तु — कप्रत्ययस्य स्वार्थिंकत्वेन स्वार्थाभिधानसमर्थत्वादुभशब्दात्परस्य द्विवचनपरत्वमस्तीत्याश्रित्योभशब्दपाठः सर्वादिगणे प्रत्याख्यातः । मनोरमायां तु-भाष्ये प्रत्याख्यानं प्रौढिवादमात्रं, कृत्तिमस्यैव द्विवचनस्येह ग्रहीतुमुचितात्वदन्यथात्रतसिलादावतिप्रसक्तत्वादित्यादि स्थितम् ।उभयशब्दस्येति । उभावयवौ यस्य उभयः ।उबादुदात्तो नित्य॑मिति तयपोऽयच् । नास्तीति । अनभिधानादिति भावः । तथा चोभयशब्दस्य द्विवचनानुत्पादादसर्वविभक्तत्वेनाऽव्ययत्वे प्राप्तेतद्धितश्चासर्वविभक्ति॑रिति सूत्रेकृत्ताद्धितानां ग्रहणं च पाठे॑ इति भाष्यं कैयटेनावतारितम् । अस्तीति ।पचतिरूप॑मित्यादिवारणेन पाठस्योपक्षीणत्वादनभिधाने प्रमाणं नास्तीति भावः । तस्मादिति । उभयशब्दादित्यर्थः । तयप्प्रत्ययान्ततयेति ।उभयशब्दस्ये॑ति शेषः । यदि तूभयशब्दादयच् स्वतन्त्रः, नतु तयप आदेश इति निष्कर्षः स्वीक्रियते, तदाऽपिप्रथमचरमतये॑ति वैकल्पिकप्राप्तिर्नास्त्येवेति बोध्यम् । नित्यैवेति ।उभया अमित्रा॑ इति तु छान्दसत्वाद्बोध्यम् । डतरडतमाविति ।किंयत्तदोर्निधारणे द्वयोरेकस्य डतरच्,वा बहूनां जातिपरिप्रश्ने डतमच्, एकाच्च प्राचा॑मिति विहितौ । अव्युत्पन्नाविति । एतच्च पस्पशायां कैयटे स्पष्टम् । एके इति । काशिकाकाराः ।एतं त्वं मन्ये॑इत्युनुदात्तस्य,उत त्वः पश्यन् इत्यनुदात्तस्य च दर्शनादिति भावः । एक इति । प्रथम इत्यर्थः । संहितया पाठे तान्तत्वस्याऽस्फुटत्वेऽपित्व॑दिति तान्तश्छेत्तव्यः । अन्यथा एकश्रुत्या सकृदेव पठेत् । न च तान्ते विप्रतिपत्तव्य ।त्वत्त्वसमसिमेत्यनुच्चानी॑ति फिट्सूत्रात् । तथाच ऋङ्भन्त्रः-॒स्तरीरु त्वद्भवति सूत उ त्वत् इति । जयदेवोपि प्रायुङ्क्त॒त्वदधरममधुरमधूनि पिबन्त॑मिति । त्वत्तोऽन्यस्या अधर इति विग्रहो न तु तवाधर इति,पश्यति दिशि दिशि रहसि भवन्त॑मिति पूर्ववाक्येन सहाऽनन्वयापत्तेः । सम इति । तथाच श्रूयते-॒मा नो वृकाय वृक्ये समस्मै॑ ।उतो समस्मिन् इत्यादि ।सिमः कृत्स्ने च शक्ते च स्यान्मर्यादावबद्धयोः॑ । गणसूत्र इति । यद्यपि भाष्येऽष्टाध्यायीस्थसूत्रेअपुरीति वक्तव्य॑मिति वार्तिकं पठितं, तथापि तद्गणसूत्रस्यैव शेषो न तु जसि विभाषाविधायकस्य ।अत॑ इत्यधिकृत्य जसः शीविधानादाबन्तात्प्राप्त्यभावात् । अन्तरायामिति । प्राकाराद्बाह्रायां, तदन्तर्विर्तिन्यां वेत्यर्थः । लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा सर्वनासतायाः प्राप्तिर्बोध्या । इत्थं सर्वादिगणं व्याख्यायेदानीं तदन्तर्गतत्रिसूत्रीसमानाकारामष्टाध्यायीस्थां त्रिसूत्रीं व्याचष्टे ।
Padamanjari¶
इमे बहव आमः - ङ्स् - ओस् - आम्, णेóराम्नद्याम्नीभ्यः, किमेतिङ्व्ययधादाम्वद्रव्यप्रकर्षे, कास्प्रत्ययादाममन्त्रे लिटि तेषु कस्येदमामो ग्रहणम् इत्याह - आमिति षष्ठीबहुवचनं गृह्यत इति । तस्य हि परत्वादिति । सुटो नुटश्च षष्ठीबहुवचनमवकाशः, आट्प्रभृतीनां चतुर्थ्येकवचनादि, णेóराम उभयप्रसङ्गे परत्वादाडादयो भवन्ति, तेषु कृतेषु सकृद्गतिन्यायाश्रयणात् सुट्नुटौ न भवतः । यश्च घादामुरिति । किमेतिङ्व्ययघादामु इत्येव । चस्त्वर्थे, तुरेव वा पठितव्यः । आम् च लिटीति । लिटि परतो य आम् कास्प्रत्ययात् इति विहित इत्यर्थः । न तौ सर्वनाम्नः परौ स्त इति । तेनात्र तावतयोरग्रहणम्, यस्य चात्र ग्रहणं तस्यैवोतरत्राप्यधिकार इति नुड्विधावपि तयोरग्रहणमिति भावः । आचारक्विबन्तानां सर्वादीनां सर्वार्थत्वाभावात्सर्वनामसंज्ञाभावात्सर्वनाम्नो लिट।लमोऽसम्भवः । यस्तु मन्यते - इह सामान्यग्रहणे सति यथासम्भवं प्रकरणे कार्यप्रतिपतिः, ततश्च तयोरपि नुट्प्रसङ्ग इति, तं प्रति परिहारान्तरमाह - सानुबन्धकाविति वेति । सामान्यग्रहणे तु सति पचतितरामित्यत्र यस्येतिलोपं बाधित्वा परत्वान्नुट् स्यात् । कारयाम्, चिकीषीमित्यत्र तु नित्यत्वाद् अयामन्त इत्ययादेशे, अतो लोपे च कृते ह्रस्वाभावान्नास्ति नुटः प्रसङ्गः । उतरार्थमिति । त्रेस्त्रयः इत्यामि परतो यथा स्तात । इह त्विति । पञ्चमीनिर्देशस्तु आत् इत्।यनुवृतेन सामानाधिकरण्यादवसीयते, एवं च कृत्वा हलि सर्वेषाम् इति निर्देशोपपतिः ॥
Nyaas¶
ह्रस्वनद्यापो नुट् (7.1.54) इति प्राप्ते वचनम्। आमीति षष्ठीबहुवचनं परिगृह्रते इति। इह बहव आमः सम्भवन्ति - षष्ठीबहुवचनम्, ङेराम्नद्याम्नीभ्यः (7.3.116) इति, किमेत्तिङव्ययधादाम्वद्रव्यप्रकर्षे (5.4.11) इति, कास्प्रत्ययादाममन्त्रे लिटि (3.1.35) इत्याम्; एतेषां यदि सर्वेषां ग्रहणं स्यात्? तदा सर्वेषाम्? ह्रस्वनद्यापो नुट् (7.1.54) इति नुट्? प्रसज्येत, तत्राप्येतदेवाम्ग्रहणमनुवर्तते, षष्ठीबहुवचनस्यैवेष्यते अतस्तदेव गृह्रत इत्याह - तस्य हि परत्वात् इत्यादि। सुटो नुटश्च षष्ठीबहुवचनमवकाशः, आट्प्रभृतीनां तु चतुरर्थ्येकवचनादिः ङेराम्नद्याम्नीभ्यः` (7.3.116) इति परत्वादाडादयो भवन्ति। तत्र आण्नद्याः (7.3.112) इत्याट् - कुमार्यामिति। याडापः (7.3.113) इति याट् - खट्वायामिति। तर्वनाम्नः स्याङ्ढ्रस्वश्च (7.3.114) इति स्याट् - सर्वस्यामिति। यस्तर्हि घान्तादाम्? विधीयते यश्च लिटआम्? तौ कस्मान्न गृह्रेते? इत्याह - यश्च किम् इत्यादि। तयोह्र्रको घान्ताद्विधीयतेऽपरो घातोः। न च घान्तस्य सर्वनामसंज्ञा, नापि घातोरिति। न तौ सर्वनाम्नः परौ सम्भवत इति न गृह्रेते। अथ तु सर्वनाम्नः परौ न सम्भवत इति कृत्वैतदर्थं तयोग्र्रहणमनुपपन्नम्, तथाऽप्युत्तरार्थं तूपपद्यते, विद्येते तौ हि हरस्वान्तात्? परौ - पचतितराम्, पचतितमाम्, चिकीर्षाञ्चकार, कारायाञ्चकार? इत्यत आह - सानुबन्धकादिति वा तौ न गृह्रेते इति। निरनुबन्धकपरिभाषयेति भावः। तत्र घादामोरुकारोऽनुबन्धः, इतरस्य त्वकारः। तथा चोक्तदम् - आमोऽमित्त्वमदन्तत्वादिति। उत्तरार्थः इत्यादि। त्रेस्त्रयः (7.1.53) इत्यामि परतो यथा स्यात्। एतदर्तोऽप्यामीति सप्तमीनिर्द्देशः कस्मान्न भवति, अस्ति ह्यत्रापि प्रयोजनम् - आमि परतः सर्वनाम्नः सुङ्? यथा स्यात्? इत्यत आह - इह तु इत्यादि। उभयनिर्देशे पञ्चमीनिर्द्देशो बलीयान् (शाक।प।97) इति तस्मादित्युत्तरस्य (1.1.67) इति सर्वनाम्नः इत्यनया पञ्चम्या आमीत्यस्याः सप्तम्याः षष्ठआं परिकल्पितामाम एव सुटा भवितव्यमिति नास्तीह निर्द्देशस्य प्रयोजनम्॥
Praudhamanorama¶
अवर्णान्तादिति। अवर्णान्तादङ्गात्परस्येत्यर्थः। अतो येषां केषां तेषामित्यादौ नाव्याप्तिः। सर्वनाम्ना विहितस्याम इति। सर्वनाम्नः परस्येति तु नोक्तम्, दक्षिणोत्तरपूर्वाणामित्यत्र सुट्प्रसङ्गात्। ‘द्वन्द्वे च’ इति निषेधो हि समुदायस्य न त्ववयवस्य। न च तस्मादयमाम् विहितः, किं तु समुदायादेवेति न सुट्। विहितविशेषणत्वस्याश्रयणे प्रमाणं तु ‘दक्षिणोत्तरपूर्वाणाम्’ इति भाष्यप्रयोग एव। पञ्चत्रिंशदिति। पञ्च च त्रिंशच्चेति द्वन्द्वः। पञ्चाधिकांस्त्रिंशदिति तत्पुरुषो वा। यत्तु प्रत्याहारा एरचत्वारिंशदिति प्राचो ग्रन्थं व्याचक्षाणैरुक्तम्— नायं मध्यमपदलोपी तत्पुरुषः। तथा सति ‘राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु’ ‘संख्या’ इति विधीयमानः पूर्वपदप्रकृतिस्वरो न स्यात्। तस्मात्समाहारद्वन्द्व एवायम्। एकविंशतिरित्यादौ नपुंसकत्वं तु न भवति लोकाश्रयत्वाल्लिङ्गस्येति। तच्चिन्त्यम्, समासभेदेन स्वरभेदे इष्टापत्तेः। तथा च ‘बहुव्रीहौ संख्येये’ इति सूत्रे संख्यायास्तत्पुरुषस्योपसंख्यानं निÏस्त्रशाद्यर्थमन्यत्राधिकलोपात्’ इति वार्तिकं व्याचक्षाणो भाष्यकार आह—एकाधिका विंशतेरेकविंशतिः, द्वाविंशतिरिति। अत एवेति। द्वयोर्द्विवचनस्यैव न्याय्यत्वादिति भावः। नन्वेवं सर्वादिषु पाठो व्यर्थः, सर्वनामकार्याणां स्मायादीनां द्विवचनेऽभावात्। न च उभाभ्यां हेतुभ्यामुभयोर्हेत्वोरित्यत्र ‘सर्वनाम्नस्तृतीया च’ इति पाक्षिकतृतीया तत्फलमिति युक्तम् ‘निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्’ इति वार्तिकेन गतार्थत्वात्। न च वृत्तिकृता ‘सर्वनाम्नस्तृतीया च’ इति सूत्रे पठितत्वादिदं वार्तिकं सर्वनामसंज्ञासापेक्षमिति वाच्यम् भाष्ये ‘हेतौ’ इति सूत्रे तस्य पठितत्वात्। अत एवान्नेन कारणेन वसति, अन्नस्य कारणस्येत्युदाहृतं हरदत्तेनेत्याशङ्क्याह- अयच्प्रसङ्गादिति। अयं भावः—‘उभादुदात्तो नित्यम्’ इत्यत्र ‘उभादुदात्तः’योगो विभज्यते। अवयववृत्तेः संख्यावाचिन उभशब्दादवयविन्यर्थेऽयच् स्यात्। उभयोः मणिः। ततो ‘नित्यम्’ । उभशब्दाद् वृत्तिविषये नित्यमयच्स्यात् स्वार्थे। तेनोभयपक्षविनीतनिद्रा इत्यादौ अयच् यथा नित्यं एवं कप्रत्ययेऽपि स्यादिति। नन्वेवमकचि कृतेऽपि अयज् दुर्वार इति चेन्मैवम्। योगविभागस्येष्टसिध्यर्थतया ‘उभौ साभ्यासस्य’ इति निर्देशेन च यत्र द्विवचनं न श्रूयते तत्रैवायमिति व्याख्यानात्। तथा च वार्तिकम्— ‘अन्याभावो द्विवचनटाब्विषयत्वात्’ इति। अकचि हि सति ‘तन्मध्यपतितः तद्ग्रहणेन गृह्यते’इति न्यायेनोभयशब्दस्य द्विवचनविषयत्वं न विहन्यते, कप्रत्यये तु विहन्यतैव। तदुक्तमिति। वार्तिककृतेति शेषः। यद्यपि पूर्ववार्तिके टाबप्युक्तस्तथाऽपि नासौ विवक्षितः, टाब्विषयत्वमपि द्विवचनपरत्व एव बोद्धव्यमिति कैयटादिभिव्र्याख्यातत्वादित्याशयेन व्याचष्टे— द्विवचनपरत्वाभावे इति। टाबेकादेशस्यापि पूर्वान्तत्वेन ग्रहणाद् द्विवचनपरत्वमस्तीति भावः। यद्यप्युभावित्यादौ द्विवचनपरत्वं दुरुपपादमुभयत आश्रयणेऽन्तादिवद्भावविरहात् तथाप्युभशब्दादुत्पन्नं द्विवचनं लुका नापहृतं यत्र ततोऽन्यत्रायच् इतीह विवक्षितोऽर्थः। यद्यपि भाष्ये कप्रत्ययस्यापि स्वार्थिकत्वेनोभशब्दात् परस्य द्विवचनत्वमस्तीत्याश्रित्योभशब्दपाठः प्रत्याख्यातः, तथाऽपि प्रौढिवादमात्रं तत्। कृत्रिमस्यैव द्विवचनस्येह ग्रहीतुमुचितत्वात्। अन्यथा त्रतसिलादावतिप्रसक्तत्वात्। ननु कारकविभक्त्यन्ताद्विहितौ त्रतसिलौ स्वार्थिकत्वेऽपि द्वत्त्वमात्रं नाभिदत्त इति चेद् न, कप्रत्ययस्याप्यज्ञातार्थबोधकत्वात् पञ्चकपक्षेऽधिकबोधकत्वध्रौव्याच्चेति दिक्॥ नास्तीति। अनभिधानादिति भावः। तथा चोभयशब्दस्य द्विवचनानुत्पादादसर्वविभक्तिकत्वेनाव्ययत्वे प्राप्ते ‘तद्धितश्चासर्वविभक्तिः’ इति सूत्रे ‘कृत्तद्धितानां ग्रहणं च पाठे’ इति भाष्यं कैयटेनावतरितम्। अस्तीति। पचतिकल्पं पचतिरूपमित्यादिवारणेन पाठस्योपक्षीणत्वादनभिधाने प्रमाणं नास्तीति भावः। तयप्प्रत्ययान्तस्येति। उभयशब्दस्येति भावः। नित्यैवेति। ‘परेऽवर उभया अमित्राः’ इति तु छान्दसत्वाद्बोध्यम्। अव्युत्पन्नाविति। एतच्च पस्पशायां कैयटे स्पष्टम्। एके— काशिकाकाराः। ‘एतन्त्वं मन्ये’ इत्युदात्तस्य ‘उतत्वः पश्यन्’ इत्यनुदात्तस्य च दर्शनादिति भावः। एकः— प्रथमः। संहितया पाठे तान्तत्वस्यास्फुटत्वेऽपि तान्तश्छेत्तव्योऽन्यथा एकश्रुत्या सकृदेव पठेत्। न च विप्रतिपत्तव्यम् ‘त्वत्त्वसमसिमेत्यनुच्चानि’ इति फिट्सूत्रात्। तथा च ऋङ्मन्त्रः— ‘स्तरीरु त्वद्भवति सूत उ त्वम्’ इति। वेदभाष्यकाराश्चेत्थं व्याचख्युः— त्वदिति सर्वनामसु पठितोऽनुदात्तोऽयमन्यपर्याय इति। जयदेवोऽपि प्रायुङ्क्त- ‘त्वदधरमधुरमधूनि पिबन्तम्’ इति। त्वत्तोऽन्यस्या अधर इति विग्रहः, न तु तवाधर इति। ‘पश्यति दिशि दिशि रहसि भवन्तम्’ इति पूर्ववाक्येन सहानन्वयापत्तेः। नेम इति। श्रूयते च — ‘प्र नेमस्मिन्ददृशे सोम’ इति। सम इति। तथा च श्रूयते ‘नभन्तामन्यके समे’ । ‘मानो वृकाय वृक्ये समस्मै’। ‘उरुष्याणो अघायतः समस्मात्’ । ‘उतो समस्मिन्ना’ इत्यादि । ‘सिमः कृत्स्ने च शक्ते च स्यान्मर्यादावबद्धयोः’ । श्रूयते च—‘आद्रात्रो वासस्तनुते सिमस्मै’। ‘उच्छुक्रमत्कमजते सिमस्मात्’। उभयत्रापि सिमशब्दः सर्वपर्याय इति वेदभाष्यम्। गणसूत्र इति। यद्यपि भाष्ये अष्टाध्यायीस्थे सूत्रे ‘अपुरि इति वक्तव्यम्’ इति वार्तिकं पठितं तथापि तद्गणसूत्रस्य शेषः, न तु जसि विभाषाविधायकस्य। ‘अत’ इत्यधिकृत्य जसः शीविधानात् टाबन्तात्प्राप्त्यभावात्। अन्तरायामिति। प्राकाराद्बाह्यायां तदन्तर्वर्तिन्यां वेत्यर्थः। लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा प्राप्तिर्बोध्या। त्यद्, तद्, एतौ उक्तपरामर्शकौ। तत्राद्यश्छान्दस इति गणरत्नकारः। तन्न, ‘स्यश्छन्दसि बहुलम्’ इति सूत्रे छन्दोग्रहणवैयर्थ्यापत्तेः। एकोऽन्यार्थो प्रधाने च प्रथमे केवले तथा। साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते॥
Prakriyasarvasvam¶
अवर्णान्तात्सर्वनाम्नः परस्यामः सुट् स्यात् । झल्येत् । षत्वम् । सर्वेषाम् । ङेः स्मिन् । सर्वस्मिन् । शिष्टं कृष्णवत् ।। सर्वादिपाठकार्यं न संज्ञात्वे चोपसर्जने । सर्वः कश्चन सर्वायाप्यतिसर्वाय विष्णवे ।। ५७८ ।। उभशब्दस्य द्विवचनटाब्मात्रविषयत्वात् स्मैभावादिस्तसिलादिश्च नास्तीति सर्वनामत्वकार्यं ‘सर्वनाम्नस्तृतीया च’ (२-३-२७) इत्यादि स्वल्पमेव । उभौ । उभौ । उभाभ्यामित्यादि ।।
Sarala¶
अवर्णान्तादिति । अवर्णान्तादङ्गात्परस्येत्यर्थः, तेन येषां तेषामित्यादौ सुट् सिद्धिः । एत्वषत्वे इति । एत्वं - बहुवचने झल्येत् (७.३.१०३) इत्यनेन, षत्वम् - आदेशप्रत्यययोः (८.३.५९) इत्यनेनेति विवेकः । ननु सर्वनामसञ्ज्ञाकार्यमेकवचनबहुवचनयोरेवेति नित्यं द्विवचनान्तोभशब्दस्य सर्वादिषु पाठ इह व्यर्थोऽत आह - तस्येति । तस्य - नित्यद्विवचनान्तस्य उभशब्दस्य । इह - सर्वादिगणे । अकजर्थः - अव्ययसर्वनाम्नामकच् प्राक् टेः (५.३.७१) इत्यनेनोभकावित्यादावकजर्थः । भाष्ये “उभयो मणिः” “उभये देवमनुष्याः” इति एकवचने बहुवचन च उभयशब्दप्रयोगो दृश्यते, न तु द्विवचने तत्प्रयोगोऽत उभयशब्दस्य द्विवचनं नास्ति इत्यभिप्रायः । तदेवम् - उभयः, उभये - प्रथमा । उभयम्, उभयान् - द्वितीया । उभयेन, उभयैः - तृतीया । एवमग्रऽपि । उभयशब्दस्य द्विवचनं नास्तीति कैयटः । अस्तीति हरदत्तः । इति = इत्यनया परिभाषया, तदन्ताः = डतर-डतम-प्रत्ययान्ताः कतर-कतम-यतर-यतम-ततर-ततम-एकतर-एकतमशब्दाः सर्वादिगणे बोध्या इत्यर्थः । सर्वपर्यायः - सर्वार्थकः समशब्दोऽत्र गणे ग्राह्य इत्यर्थः । तुल्यार्थकस्य सर्वादिगणे पाठे तु समानामिति अत्र “समेषा”मिति स्यादिति भावः ॥
Sudha¶
आमि सर्वनाम्न इति । आज्जसेरसुक्**(7.1.50) इत्यत “आत्” इति पञ्चम्यन्तमनुवर्तते । तदनुरोधेन **अङ्गस्य**(6.4.1) इत्यधिकृतं पञ्चम्या विपरिणतं विशेप्यते, तदन्तविधिः, परस्येत्यध्याहार्यम् । <!उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्!> इति न्यायेन **तस्मादित्युत्तरस्य**(1.1.67) इति परिभाषया आमि इति सप्तमीः आम इति षष्ठ्यन्तमापद्यते । सर्वनाम्नः इति विहितविशेषणन्तदाह -**अवर्णान्तादित्यादिना । सर्वेषामिति । सर्वशब्दात् षष्ठीबहुवचनविवक्षायाम् आमि, “सर्व-आम्” इति स्थिते आमि सर्वनाम्नः सुट्**(7.1.52) इति सुटि उटो लोपे, टित्त्वादाद्यावयवे ‘सर्व स् आम्’ इति जाते **बहुवचने झल्येत्**(7.3.103) इत्यनेन वकारोत्तरवर्तिनोऽकारस्यैत्त्वे **आदेशप्रत्यययोः**(8.3.59) इति षत्वे च “सर्वेषाम्” इति रूपम् । **सर्वस्मिन्निति । सर्वशब्दात् सप्तम्येकवचनविवक्षायां ङौ सति तस्य स्थाने ङसिङ्योः स्मात्स्मिनौ**(7.1.15) इति स्मिनादेशे कृते सर्वस्मिन् इति रूपम् । **शेषं रामवदिति । सर्वयोः सर्वेषु । एवं विश्वादय इति । सर्वशब्दवत् विश्वशब्दः । तथाहि – ‘विश्वः, विश्वौ विश्वे’ प्रथमा, विश्वं विश्वौ विश्वान्’ द्वितीया । विश्वेन विश्वाभ्यां विश्वैः, तृतीया । विश्वस्मै विश्वाभ्यां विश्वेभ्यः, चतुर्थी । विश्वस्मात् विश्वाभ्याम् विश्वेभ्यः, पञ्चमी । विश्वस्य विश्वयोः विश्वेषाम् षष्ठी । विश्वस्मिन् विश्वयोः विश्वेषु सप्तमी इति ॥ तस्येह पाठोऽकजर्थं इति । उभशब्दो द्वित्वविशिष्टस्य वाचकः । अत एव नित्यं द्विवचनान्तः । ननु एवं सति जसः शी**(7.1.17) **सर्वनाम्नः स्मै**(7.1.14) **ङसिङ्योः स्मात्स्मिनौ**(7.1.15) **आमि सर्वनाम्नः सुट्**(7.1.52) इत्युक्तानां सर्वनामप्रयुक्तकार्याणां द्विवचने अभावादुभशब्दस्य सर्वादिगणे पाठो व्यर्थ इति चेद्, न । **अव्ययसर्वनाम्नामकच् प्राक् टेः**(5.3.71) इति अकजर्थं सर्वादिगणे तस्य पाठस्यावश्यकत्वात् । यद्यत्र पाठो न क्रियेत ; तहिं सर्वनामसंज्ञा न स्यात्, सर्वनामसंज्ञाभावे तु नाकच् | तेन “उभकौ” इति न सिद्धयेतेति भावः । **डतरडतमाविति । अत्र <ऽप्रत्ययग्रहणे तदन्ता ग्राह्याःऽ> इति परिभाषया डतरान्तडतमान्तौ ग्राह्यौ । केवलयोः तयोः संज्ञायाः प्रयोजनाभावात् । प्रत्ययाविति । किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच्**(5.3.92) **वा बहूनां जातिपरिप्रश्ने डतमच्**(5.3.93) **एकाच्च प्राचाम्**(5.3.94) इति विहितौ । **तदन्ता ग्राह्या इति । डतरग्रहणेन कतरादिशब्दानाम्, डतमग्रहणेन कतमादिशब्दानाञ्च ग्रहणमिति भावः । नेम इत्यर्धं इति । ‘प्र नेमस्मिन् ददृशे सोमो अन्तः’ इत्यृचौ तथा दर्शनादिति भावः । समः सर्वपर्याय इति । सर्वशब्दसमानार्थक एव समशब्दः सर्वादिगणे पठित इत्यर्थः । तुल्यपर्यायस्त्विति । तुल्यशब्दसमानार्थक इत्यर्थः । ज्ञापकादिति । अन्यथा तत्र समेषामिति निर्दिशेदिति भावः ।