71050: आज्जसेरसुक्¶
Padacheda: आत् | S | 5 | 1 |
जसेः | S | 6 | 1 |
असुक् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
After a अङ्ग (stem) ending in अ or आ the affix अस् of the Nominative 1st-Case plural gets, in the छन्दस् (Vedas), the augment अस् (असुक्) at the end.
Vasu English Translation¶
After a अङ्ग (stem) ending in अ or आ the affix अस् of the Nominative 1st-Case plural gets, in the छन्दस् (Vedas), the augment अस् (असुक्) at the end. Thus ब्राह्मणासः पितरः सोम्यासः for ब्राह्मणाः and सोम्याः ॥ Rig VI.75.10. ये पूर्वासो य उपरासः (Rig X. 15.2) for पूर्वे and उपरे ॥ So also पुतासः (Rig I.3.4) Why is not, after the adding of the augment असुक्, the जस् changed to शी in the last example, as required by (7.1.17), and on the maxim पुनः प्रसङ्गः विज्ञानात्? No, the maxim that applies here is सकृद् गतौ विप्रतिषेधे यद्बाधितं, तद्बाधितमेव ॥ .
Bhashya¶
आज्जसेरसुक् इह - ये पूर्वासो य उ परासः । आज्जसेरसुगित्यसुकि कृते जसिग्रहणेन(2) ग्रहणाच्छीभावः प्राप्नोति ॥ एवं तर्हि जसि पूर्वान्तः करिष्यते ॥ यदि पूर्वान्तः क्रियते का रूपसिद्धिः-ब्राह्मणा सः पितरः सोम्यासः ? ॥ सवर्णदीर्घत्वेन सिद्धम् ॥ न सिद्ध्यति - अतो गुण इति पररूपत्वं प्राप्नोति ॥ अकारोच्चारणसार्मथ्यान्न भविष्यति ॥ यदि तर्हि प्राप्नुवन्विधिरुच्चारणसार्मथ्याद्बाध्यते सवर्णदीर्घत्वमपि न प्राप्नोति ॥ नैषः(3) दोषः - यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते - यस्य तु विधोर्विमित्तमेव नासौ बाध्यते ॥ पररूपं च प्रत्यकारोच्चारणमनर्थकं, सवर्णदीर्घत्वस्य पुनर्निमित्तमेव । अथ वाऽसुट्करिष्यते । एवमपि-ये पूर्वासो य उ परास इत्यसुटि कृते जयो ग्रहणोन ग्रहणाच्छीभावः । प्राप्नोति ॥ नैषः(3) दोषः - निर्दिश्यमानस्यादेशा भवन्तीत्येवमस्य न भविष्यति ॥ यस्तर्हि निर्दिश्यते तस्य कस्मान्न भवति ? ॥ असुटा व्यवहितत्वात् ॥ सिध्द्यति सूत्रं तर्हि भिद्यते ॥ यथान्यासमेवाऽस्तु । ननु चोक्तं ये पूर्वासो य उ परासः. असुकि कृते जसिग्रहणेन ग्रहणाच्छीभावः प्राप्नोती(1)ति ॥ नैषः दोषः, - इदमिह संप्रधार्यं - शीभावः क्रियतामसुगिति; किमत्र कर्तव्यम् ॥ परत्वादसुक् ॥ अथेदानीमसुकि कृते पुनः प्रसङ्गविज्ञानाच्छीभावः कस्मान्न भवति ? ॥ सकृद्गतौ विप्रविषेधे यद्बाधितं तद्बाधितमेवेति ॥ ( आज्जसेरसुक् ) ॥
Kashika¶
अवर्णान्तादङ्गादुत्तरस्य जसेरसुगागमो भवति छन्दसि विषये। ब्राह्म॑णासः॒ पित॑रः॒ सोम्या॑सः (ऋ०६.७५.१०)। ब्राह्मणाः सोम्या इति प्राप्ते। ये पूर्वा॑सो॒ य उप॑रासः (ऋ०१०.१५.२) इत्यत्र परत्वादसुकि पुनः प्रसङ्गविज्ञानात् शीभावः प्राप्तः, सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव इति न भवति॥
Siddhanta Kaumudi¶
अवर्णान्तादङ्गात्परस्य जसोऽसुक् स्यात् । देवासः (दे॒वासः॑) । ब्राह्मणासः (ब्रा॒ह्म॒णासः॑) ॥
Padamanjari¶
जसेः इति पूर्वाचार्यानुरोधेन निर्द्देशः । ब्राह्मणास इति । असुकि कृते जसः सकारस्य श्रवणम्, असुकः सकारस्य विसर्जनीयः । येपूर्वास इत्यादि । चोद्यम् - उपरास इति । अपरशब्दस्यादेरुकारश्छान्दसः । यदि पुनरयं पूर्वान्तः क्रियते - अस्य जस्यसुक् इति, नैवं शक्यम्, अतो गुणे पररुपत्वं हि स्यात् । अकारोच्चारणं तु - उतरसूत्रे एदध्यस्यतीत्यादौ श्रवणार्थ स्यात् । सकृद्गतावित्यादि परिहारः । यद्यप्येत्सर्वनामसंज्ञाया पूर्वादिषु जसि विकल्पनादेव सिद्धम्, उभयासो जातवेदःस्याम इत्यत्र तु शीभावप्रसङ्गः, अत्र हि प्रथमचरम इति वकल्पं बाधित्वा सर्वादिषु पाठान्नित्या संज्ञा भवति, सा ह्यन्तरङ्गा ॥
Nyaas¶
जसेरिति पूर्वाचार्यनिर्द्देशः। पूर्वाचार्या हि जसिरित्येवं विहतवन्तः। ये पूर्वासो ये परास इत्यत्र इत्यादि चोद्यम्। एतच्च जातौ पदार्थे। तत्रान्यत्र चरितार्थत्वाच्छास्त्रयोस्तुल्यबलयोर्विरोधे सति परस्पर प्रतिबन्धादप्रवृत्तौ प्राप्तायां विप्रतिषेधे परं कार्यम् (1.4.2) इति क्रियते - विप्रतिषेधे परं भवति, तत्र कृते यदि पूर्वमपि प्राप्नोति तदपि भवतीति जातिपदार्थः पुन प्रसङ्गविज्ञानस्य विषयः। सकृत् इत्यादिना परीहारः। एव च ष्यक्तो पदार्थेऽन्यत्राकृतार्थत्वाद्द्वयोरपि शास्त्रयोरीदृशे विषये पर्यायेण प्रवृत्तौ प्राप्तायामयं नियम आरभ्यते - विप्रतिषेधे परमेव भवति, न पूर्वमिति। तेन पुनः प्रसङ्गविज्ञानाभावाद्बाधितः शोभावो न भवति। न ह्रसति पुनःप्रसङ्गे यद्वाधितं तदुत्सहते पुनर्भवितुम्॥
Prakriyasarvasvam¶
अवर्णान्तात् परस्य जसेः असुक् स्यात् । असस् । रुत्वविसर्गौ । ब्राह्मणासः । पितरः सोम्यासः । ‘क्त्वापि—’ (७-१-३८) इत्यतोऽपीति सर्वत्राधिकृतम् । तेन देवाः इत्यपीति ।<!त्रयाणामिति प्राप्ते त्रीणामित्यपि छन्दसीष्यते!> (वा. ७-१-५३) त्रीणामिव समुद्राणाम् ।