64175: ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि¶
Padacheda: ऋत्व्य-वास्त्व्य-वास्त्व-माध्वी-हिरण्ययानि | S | 1 | 3 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् (Vedas) the following are irregularly formed 1. ऋत्व्य 2. वास्त्व्य 3. 4. वास्त्व 5. माध्वी and 6. हिरण्यय।
Vasu English Translation¶
In the छन्दस् (Vedas) the following are irregularly formed 1. ऋत्व्य 2. वास्त्व्य 3.4. वास्त्व 5. माध्वी and 6. हिरण्यय। The word ऋत्व्य is derived from ऋतु, and वास्त्व्य from वास्तु with the affix यत्, उ being changed to व ॥ ऋतौ भवम् = ऋत्व्यम्, वास्तौ भवम् = वास्त्व्यम् ॥ वास्त्व is from वस्तु, as वस्तुनि भवः = वात्स्वः with the affix अण् ॥ माध्वी from मधु with the affix अण् in the feminine, as माध्वीर्नः सन्त्वोषधीः ॥ हिरण्यय is from हिरण्य with the affix मयट्, there म being elided.
Kashika¶
ऋत्व्य वास्त्व्य वास्त्व माध्वी हिरण्यय इत्येतानि निपात्यन्ते छन्दसि विषये। ऋतु वास्तु इत्येतयोर्यति यणादेशो निपात्यते। ऋतौ भवम् ऋत्व्यम् (पै०सं० १९.२५.१४)। वास्तौ भवं वास्त्व्यम्। वस्तुशब्दस्याणि यणादेशो निपात्यते। वस्तुनि भवो वा॒स्त्व॑म् (मै०सं० २.२.४)। मधुशब्दस्याणि स्त्रियां यणादेशो निपात्यते। माध्वी॑र्नः स॒न्त्वोष॑धीः(ऋ०१.९०.६)। हिरण्यशब्दाद् विहितस्य मयटो मशब्दस्य लोपो निपात्यते। हि॒र॒ण्ययम् (ऋ०१.२५.१३)॥
॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य चतुर्थः पादः॥
Siddhanta Kaumudi¶
ऋतौ भवमृत्व्यम् । वास्तुनि भवं वास्त्व्यम् वास्त्वं च । मधुशब्दस्याणि स्त्रिया यणादेशो निपात्यते । माध्वीर्नः सन्त्वोषधीः (माध्वी॑र्नः स॒न्त्वोष॑धीः) । हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते । हिरण्ययेन सविता रथेन (हिर॒ण्यये॑न सवि॒ता रथे॑न) ॥
Padamanjari¶
मलोपो निपात्यत इति । तस्यासिद्धत्वाद्यस्येतिलोपाभावः । एवमपि अकृत्सार्वधातुकयोर्दीर्घः इति दीर्धः प्राप्नोति, अङ्गवृतेः पुनर्वृतौ इति वचनान्न भविष्यति । क्वचितु मकारलोप इति पठन्ति । तत्र यस्येति लोपे कृते प्रत्ययाकारस्य श्रवणम् ॥
Nyaas¶
ऋत्व्यम्, वास्त्व्यम् इति। भवे छन्दसि (4.4.110) इति यत्। वास्त्वम् इति। तस्येदम् (4.3.120) इत्यण्। एवं माध्वी इत्यत्रापि। हिरण्ययः इति। पूर्ववन्मयट्॥इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरहणपञ्जिकायां षष्ठाध्यायस्य चतुर्थः पादः॥श्रीबोधिसत्त्वदेशीयाचार्थजिनेन्द्रबुद्धिपादविरचितान्यासापरपर्यायाकाशिकाविवरणपञ्जिकाख्याकाशिकाव्याख्या- - -सप्तमोऽध्यायःप्रथमः पादः
Prakriyasarvasvam¶
ऋतुवास्त्वोः भवे यति ऋत्व्यं वास्तव्यम् । वास्तोरणि वास्तवम् । मधोरणि । माध्वीनंः सन्त्वोषधीः । मयटि हिरण्ययमुत भोगम् ।