64156: स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः

Padacheda: स्थूल-दूर-युव-ह्रस्व-क्षिप्र-क्षुद्राणाम् | S | 6 | 3 |

यणादिपरम् | S | 1 | 1 |

पूर्वस्य | S | 6 | 1 |

च | S | 0 | 0 |

गुणः | S | 1 | 1 |

Sutrartha


Vasu English Summary

Before the affixes 1. इष्ठ 2. इमन् and 3. ईयस् the last semi-vowel is elided with that which follows it and for the first vowel, a गुण is substituted in 1. स्थूल 2. दूर 3. युवन् 4. ह्रस्व 5. क्षिप्र and 6. क्षुद्र।

Vasu English Translation

Before the affixes 1. इष्ठ 2. इमन् and 3. ईयस् the last semi-vowel is elided with that which follows it and for the first vowel, a गुण is substituted in 1. स्थूल 2. दूर 3. युवन् 4. ह्रस्व 5. क्षिप्र and 6. क्षुद्र। That is ल, र, वन्, व, र, and र are elided. Thus स्थविष्ठः, स्थवीयान्; दविष्ठः दवीयान्; यविष्ठ, यवीयान्; ह्रसिष्ठः, ह्रसीयान्, ह्रसिमा; क्षेपिष्ठः, क्षपीयान्, क्षेपिमा ॥ The words ह्रस्व, क्षिप्र, and क्षुद्र are read in Prithvadi class and take ‘iman’ affix (5.1.122). क्षोदिष्ठः, क्षोदायान्, क्षोदिमा ॥ Why do we say परं in यणादिपरं i.e. ‘the last semi vowel’? The first semi-vowel of युवन् and ह्रस्व i.e. य of यु and र of ह्र should not be elided. The word पूर्व is employed for the sake of distinctness.

Kashika

स्थूल दूर युव ह्रस्व क्षिप्र क्षुद्र इत्येतेषां यणादिपरं लुप्यत इष्ठेमेयस्सु परतः, पूर्वस्य च गुणो भवति। स्थूल — स्थविष्ठः। स्थवीयान्। दूर — दविष्ठः। दवीयान्। युवन् — यविष्ठः। यवीयान्। ह्रस्व — ह्रसिष्ठः। ह्रसिमा। ह्रसीयान्। क्षिप्र — क्षेपिष्ठः। क्षेपिमा। क्षेपीयान्। क्षुद्र — क्षोदिष्ठः। क्षोदिमा। क्षोदीयान्। ह्रस्वक्षिप्रक्षुद्रशब्दाः पृथ्वादिषु पठ्यन्ते। परग्रहणं किम्? यविष्ठः, यवीयान्, ह्रसिष्ठः, ह्रसीयान् इत्यत्र पूर्वस्य यणादेर्लोपो मा भूत्। पूर्वग्रहणं विस्पष्टार्थम्॥

Siddhanta Kaumudi

एषां यणादिपरं लुप्यते पूर्वस्य च गुण इष्ठादिषु । स्थविष्ठः । दविष्ठः । यविष्ठः । ह्रसिष्ठः । क्षेपिष्ठः । क्षोदिष्ठः । एवमीयम् । ह्रस्वक्षिप्रक्षुद्राणां पृथ्वादित्वात् ह्रसिमा । क्षेपिमा । क्षोदिमा ॥

Balamanorama

स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः - स्थूलदूर । एषामिति । स्थूल, दूर, युवन् ह्रस्व, क्षिप्र, क्षुद्र इत्येतेषामित्यर्थः । यणादीति । यण् — आदिर्यस्येति विग्रहः ।पर॑मितियणादी॑त्यस्य विशेषणम् । परभूतंयणादीत्यर्थः । लुप्यत इति । ‘अल्लोपोऽनः’ इत्यतोऽनुवृत्तं लोपपदमिह कर्मणि घञन्तमाश्रीयत इत्यर्थः । भावसाधनत्वे परमित्यनेन सामानाधिकरण्याऽसंभवात् । पूर्वस्येति । पूर्वत्वं यणपेक्षया बोध्यम् । इष्ठादिष्विति । ‘तुरिष्ठेमेयस्सु’ इत्यतस्तदनुवृत्तेरिति । भावः । स्थविष्ठ इति । स्थूलशब्दादिष्ठनि ल इत्यस्य लोपे ऊकारस्य गुण ओकारः । अवादेश इति भावः । ओर्गुणस्तु न प्रवर्तते, यणादिलोपस्याऽऽभीयत्वेनासिद्धत्वात् । एवमग्रेऽपि । दविष्ठ इति । दूरशब्दादिष्ठनि र इत्यस्य लोपे ऊकारस्य गुणे अवादेशः । यविष्ठ इति । युवन्शब्दादिष्ठनिव॑न्नित्यस्य लोपे गुणे अवादेशः ।पर॑मित्यनुक्तौ ‘यु’ इत्यस्यापि यणादेर्लोपः स्यात् । ह्यसिष्ठ इति । ह्रस्वशब्दादिष्ठनि ‘व’ इत्यस्य लोपः ।पर॑मित्यनुक्तावत्र रादेर्लोपः स्यात् । क्षेपिष्ठ इति । क्षिप्रशब्दादिष्ठनि र इत्यस्य लोपः, उकारस्य गुणः । एवमीयसिति । स्थवीयान्, दवीयान्, यवीयान्, ह्यसीयान्, क्षेपीयान्, क्षोदीयान् । इमनिजनुवृत्तेः प्रयोजनमाह — ह्रस्वक्षिप्रेति ।

Tattvabodhini

स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः - स्थूलदूर । परग्रहणं यविष्ठो ह्यसिष्ठ इत्यत्र पूर्वयणादेर्वोपो माभूदिति । पूर्वग्रहणं तु स्पष्टार्थम् । परस्मिन् लुप्ते सामर्थ्यात्पूर्वस्यैव गुणवलाभात् । स्थविष्ठ इति । न चाऽत्रओर्गुम॑इत्येव सिद्धे गुणग्रहणं व्यर्खमिति वाच्यं, परयणादिलोपस्याभीयत्वेनाऽसिद्धत्वात् क्षिप्रक्षुद्रयोरोर्गुणस्य प्राप्त्यभावात् । क्षेपिष्ठः क्षोदिष्ठ इत्यसिद्धिप्रसङ्गाच्च । एवमिति । प्रेयान् । स्थेयान् । स्फेयाम् । वरीयानित्यादि । इमेयसोर्लोप इति । स चआदेः परस्ये॑इत्यादेरेव भवति ।

Nyaas

यद्यपि पूर्वं भावसाधनो लोपशब्द उपात्तः, तथापीह कर्मसाधनो गृह्रते; यणादिपरिमिति निर्देशात्। भावसाधने हि तस्मिन्? कर्त्तृकर्मणओः कृति (2.3.65) इति षष्ठी स्यात्। कर्मसाधने तु कर्मणस्तेनैषाभिहितत्वात्? प्रथमैव युज्यत इति मन्यमानो लापशब्दस्य कर्मशब्दस्य कर्मसाधनतां दर्शयन्नाह - यणादिपरं लुप्यते इति। कथं पुनस्तस्यैव भावसाधनस्य सतः कर्मसाधनतोपपद्यते? कः पुनराह - तस्यैव इति! प्रतिसूत्रं ह्रनुवर्तमानो लोपशब्दो भिद्यते। ननु च यणादौ परस्मिन्? लुप्ते सामर्थ्यात्? तत्पूर्वस्यैव गुणो विज्ञास्यते, तत्? किमर्थं पूर्वग्रहणम्? इत्याह - पूर्वग्रहणं विस्पष्टार्थम् ति॥

Prakriyasarvasvam

इष्ठेमेयस्सु परेषु यणादिपरं लुप्यते, पूर्वस्येको गुणश्च स्यात् । ह्रसिमा । इको गुणः । क्षेपिमा । क्षोदिमा ।

Sutra Prayogas

  • दवीयसी (किरातार्जुनीयम्): स्थूलदूर- इत्यादिना यणादिपरलोपः पूर्वगुणश्च।

  • स्थवीयः (किरातार्जुनीयम्): स्थूलदूर- इत्यादिना पूर्वगुणयणादिपरलोपौ।

  • दवीयानपि (शिशुपालवधम्): स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः इत्यादिना पूर्वगुणयणादिपरलोपौ।

  • क्षोदीयान् (शिशुपालवधम्): स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्रयोः यणादिपरलोपः पूर्वस्य च गुणः इति यणादिपरलोपः पूर्वगुणश्च।

  • स्थवीयसीः (शिशुपालवधम्): स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादि परं पूर्वस्य च गुणः इति पूर्वस्य गुणलोपौ।

  • यविष्ठ (भट्टिकाव्यम्): स्थूल-दूर… इत्यादिना युवशब्दस्येष्टनि यणादि-परलोपः पूर्वस्य च गुणः।

  • क्षोदयन्ति (भट्टिकाव्यम्): स्थूल-दूर इत्यादिना णौ यणादिपरलोपः पूर्वस्य च गुणः।