64154: तुरिष्ठेमेयस्सु¶
Padacheda: तुः | S | 6 | 1 |
इष्ठ-इमन्-ईयस्सु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
The affix तृ is elided before the affixes 1. इष्ठन् 2. इमनिव् and 3. ईयसुन्।
Vasu English Translation¶
The affix तृ is elided before the affixes 1. इष्ठन् 2. इमनिव् and 3. ईयसुन्। Thus करिष्ठः, विजयिष्ठः, वहिष्ठः, दोहीयसी धेनुः ॥ The whole affix तृ is elided; otherwise only the last vowel (टि) with the following consonant would have been elided by the following rules. The anuvritti of लुक् of the last aphorism should not be read into this, for had the elision taken place by लुक्, then the mark of the affix would also have disappeared likewise (1.1.63), and there would have remained no guna in विजयिष्ठ and करिष्ठ ॥ See (5.1.122), and (5.3.59); for these affixes. The affix इमन् has been read into this aphorism for the sake of the subsequent sutra, there being no example of तृ followed by इमन्; तृ is followed by इष्ठ and ईयस् by (5.3.59).
Bhashya¶
तुरिष्ठेमेयः सु (3151) (वार्तिकावतरणभाष्यम्) तुः सर्वस्य लोपो वक्तव्यः, अन्त्यस्य मा भूदिति । स तर्हि वक्तव्यः ? न वक्तव्यः ॥ (6626 उपसंख्यानसाधकवार्तिकम् ॥ 1 ॥) - सर्वलोपविज्ञानमन्त्यस्य वचनानर्थक्यात् - तुः सर्वलोपो विज्ञायते । कुतः ? अन्त्यस्य वचनानर्थक्यात् । अन्त्यस्य लोपवचने प्रयोजनं नास्तीति कृत्वा सर्वस्य भविष्यति ॥ अथवा - लुक् प्रकृतः सोऽनुवर्तिष्यते ॥ अशक्यो लुगनुवर्तयितुम् । किं कारणम् ? विजयिष्ठकरिष्ठयोर्गुणदर्शनात् । विजयिष्ठकरिष्ठयोर्गुणो दृश्यते । विजयिष्ठः । आसुतिङ्करिष्ठः ॥
Kashika¶
इष्ठन् इमनिच् ईयसुन् इत्येतेषु परतः तृशब्दस्य लोपो भवति। आसु॒तिं करि॑ष्ठः (ऋ० ७.९७.७)। विजयिष्ठः। वहिष्ठः। दोहीयसी धेनुः। सर्वस्य तृशब्दस्य लोपार्थं वचनम्। अन्त्यस्य हि टेः (६.४.१५५) इत्येव सिद्धः। लुगित्येतदत्र नानुवर्तते। तथाहि सति न लुमताङ्गस्य (१.१.६३) इति प्रतिषेधाद् गुणो न स्यात्। इमनिज्ग्रहणमुत्तरार्थम्। इतरौ तु तुश्छन्दसि (५.३.५९) इति भवतः॥
Siddhanta Kaumudi¶
तृशब्दस्य लोपः स्यादिष्ठेमेयः सु परेषु । अतिशयेन कर्ता करिष्ठः । दोहीयसी धेनुः ॥
Tattvabodhini¶
तुरिष्ठेमेयस्सु - तुरिष् ।टे॑रित्यनेनान्त्यलोपे सिद्धेऽप्यारम्भसामर्थ्यात्सर्वस्य तृशब्दस्य लोपस्तदाह -करिष्ठ इति । दोहीयसीति इयमनयोरतिशयेन दोग्ध्री ।भस्याऽढे तद्धिते सिद्धश्च प्रत्ययविधौ॑इति वचनात्तद्धिते कर्तव्ये प्रागेव पुंवद्भाव इति ङीपि निवृत्ते दोग्धृशब्दात्प्रत्ययः, ततस्तृचि निवृत्ते निमित्ताऽभावाद्धत्वजश्त्वयोरपि निवृत्तिः । अलौलिके विग्रहवाक्ये प्रागेव तयोरप्रवृत्तिःअकृतव्यूह॑परिभाषयेति तु तत्त्वम् । गुणस्तु प्रवर्तते । लुप्तेऽपि तृचि प्रत्ययलक्षणध्रौव्यात्, छान्दसमपितु॑रिति सूत्रम्,तुरिष्ठेमेयः,सु॑इति चणाविष्ठव॑दित्यति देशेन लोकेऽपि कर्तारमाचष्टे कारयतीत्यादावुपयोक्ष्यमाणत्वादिहोपन्यस्तम् ।
Padamanjari¶
दोहीयसीत्यत्र घत्वादीनामसिद्धत्वात्पूर्वं तृशब्दस्य लोपे कृते पश्चान्निमिताभावातेपामभावः । लोपो भवति इत्युक्त, तत्रन्त्यस्य प्राप्नात्यत आह - सर्वस्येति । कारणमाह - अन्त्यस्य हीति । नन्वेवमनन्तरो लुगेव विधेयः, एवं सुखमेव सर्वस्य निवृत्तिर्लभ्यते अत आह - लुगित्येतत्विति । कः पुनस्तदनुवृतौ दोषः स्याद् अत आह - तथा हीति । न च पूर्वमेव गुणो भवति अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते इति वचनात् । इमनिज्ग्रहणमुतरार्थमिति । नेहार्थम्, तृशब्दातस्यासम्भावात् । न चेदमेव कल्पकं भवितुमर्हति, उतरार्थतयाप्युपपतेः । नन्वेवमजादी गुणवचनादेव इति नियमादिष्ठेयसुनोरपि न सम्भवः अत आह - इतरौ त्विति ॥
Nyaas¶
तुः इति। विसेषकराननुबन्धानुत्सृज्य तृंस्तृचोः सामान्येन ग्रहणम्। करिष्ठः इति। करोतेस्तृन्। तदन्तादतिशायन इष्ठन्, तृशब्दस्य लोपः। विजयिष्ठः इति। विपूर्वाज्जयतेस्तृन्। वहिष्ठः इति। अत्रापि वहेस्तृन्। तदन्तादिष्ठन्, हो ढः (8.2.31) इति ढत्वम्। तृशब्दस्य लोपे कर्तव्ये पूर्वत्रासिद्धम् (8.2.1) इत्यसिद्धम्, तेन पूर्वलोप एव क्रियते, तस्मिन्? कृते झलि यदान्ते च विधीयमानं ढत्वं निमित्ताभावान्न प्रवर्तेते। दोहीयसी इति। दुहेस्तृजन्तादीयसुन्, उगितश्च (6.3.45) इति ङीप्। अत्रापि लोपे कर्तव्ये दादेर्धातोर्धः (8.2.32) इत्येतदप्यसिद्धमिति पूर्वं लोपः, तस्मिन्? सति पूर्ववद्धत्वं न प्रवर्तते। अथ अलोऽन्त्यस्य (1.1.52) इत्यन्त्यस्यायं लोपः कस्मान्न भवति? इत्याह - सर्वस्य इत्यादि। तत्रैव कारणमाह - अन्त्यस्य इत्यादि। यद्यन्त्यस्य स्याद्वचनवैयथ्र्यमापद्येत; अन्त्यस्य टेः इत्येवं सिद्धत्वात्। तस्मादन्त्यलोपवचने प्रयोजनं नास्तीति सर्वस्य तृशब्दस्य लोपो यता स्यादित्येवमर्थमिदं वचनं विज्ञायते। यदि तर्हि तृशब्दस्य लोपार्थं वचनमनन्तरो लुगेव कस्मान्न विधीयते, एवं तर्हि सर्वस्य सुखमेव लोपोऽवसीयते, प्रत्ययादर्शनस्य लुग्विधानात्? इत्यत आह - लुगित्येतत्तु इत्यादि। कः पुनस्तत्र सति दोषः स्यात्? इत्यत आब - तथा हि इत्यादि। यदि लुगित्येतदिहानुवर्तत, ततः अन्तरङ्गानपि विधीन्? बहिरङ्गो लुग्? बाधते (व्या।प।128) इति कृत्वा पूर्वं लुका भवितव्यम्, ततश्च न लुमताङ्गस्य (1.1.63) इति प्रत्ययलक्षणनिषेधः स्यात्; करिष्ठः, विजयिष्ठ इत्यत्रार्धदातुकलक्षणो गुणो न स्यात्। तस्मान्मा भूदेष दोष इति लुगित्येतदिहानुवर्तते। अथेमनिज्ग्रहणं किमर्थम्, यावता तृशब्दात्? पर इमानिज्न सम्भवति। तथापि पृथ्वादिभ्य इमनिज्वा (5.1.122) वर्णदृढादिभ्यः ष्यञ् च (5.1.123) इत्यनेन योगद्वयेन स विहितः, न तृशब्दान्तं किञ्चित्? पृथ्वादिषु दृढादिषु वा मध्ये पठते, नापि वर्णवाच्यस्तीत्यत आह - इतरौ तु इत्यादी॥