64147: ढे लोपोऽकद्र्वाः¶
Padacheda: ढे | S | 7 | 1 |
लोपः | S | 1 | 1 |
अकद्र्वाः | S | 6 | 1 |
Sutrartha¶
‘कद्रू’ शब्दं विहाय अन्येषामुवर्णान्त-भसंज्ञकानाम् ढकारादौ तद्धितप्रत्यये परे लोपः भवति ।
उवर्णान्तस्य भसंज्ञकस्य तद्धितप्रत्यये परे ओर्गुणः (6.4.146) इत्यनेन गुणः विधीयते । तस्य अपवादरूपेण ढकारादि-प्रत्यये परे भस्य अङ्गस्य अन्तिमवर्णस्य लोपः भवति । परन्तु ‘कद्रू’ शब्दस्य विषये अयं लोपः न भवति । अत्र एकः विशेषः स्मर्तव्यः - ढकारे परे अङ्गस्य भसंज्ञा नैव भवति, परन्तु ढकारस्य आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इत्यनेन ‘एय्’ आदेशः यः विधीयते, तस्मिन् परे यचि भम् (1.4.18) इत्यनेन अङ्गस्य भसंज्ञा भवति । उदाहरणानि एतानि - 1. शीतबाहु + ढञ् [चतुष्पाद्भ्यो ढञ् (4.1.135) इति अपत्यार्थे ढञ्-प्रत्ययः । ञकारस्य इत्संज्ञा, लोपः] → शीतबाहु + एय [ढ= ढ् + अ । ढ् इत्यस्य आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति एय्-आदेशः । एय् + अ = एय । एकारादौ प्रत्यये परे यचि भम् (1.4.18) इति अङ्गस्य भसंज्ञा] → शैतबाहु एय [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → शैतबाह् + एय [ओर्गुणः (6.4.146) इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन ढे लोपोऽकद्र्वाः (6.4.147) इति अङ्गस्य अन्तिमवर्णस्य लोपः] → शैतबाहेय 2. मद्रबाहु + ऊङ् [स्त्रीत्वं द्योतयितुम् मद्रबाहु-शब्दात् बाह्वन्तात् संज्ञायाम् (4.1.67) इत्यनेन ऊङ्-प्रत्ययः] → मद्रबाहू + ढक् [स्त्रीभ्यो ढक् (4.1.120) इति अपत्यार्थे ढक्-प्रत्ययः । ककारस्य इत्संज्ञा, लोपः] → मद्रबाहू + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ढकारस्य एय्-आदेशः । यचि भम् (1.4.18) इति अङ्गस्य भसंज्ञा] → माद्रबाहू + एय [किति च (7.2.118) इति आदिवृद्धिः] → माद्रबाहू + एय [ओर्गुणः (6.4.146) इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन ढे लोपोऽकद्र्वाः (6.4.147) इति अङ्गस्य अन्तिमवर्णस्य लोपः] → माद्रबाहेय 3. मृकण्डु + ढक् [शुभ्रादिभ्यश्च (4.1.123) इति सूत्रेण शुभ्रादिगणे उपस्थितानां शब्दानां ढक् प्रत्ययः भवति । आकृतिगणोऽयम् । अतः ‘मृकण्डु’ शब्दस्य अस्मिन् गणे न स्थितेऽपि ढक् प्रत्ययः अनेन सूत्रेण विधीयते ।] → मृकण्डु + एय [आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् (7.1.2) इति ढ् वर्णस्य एय् आदेशः । यचि भम् (1.4.18) इति अङ्गस्य भसंज्ञा] → मार्कण्डु + एय [किति च (7.2.118) इति आदिवृद्धिः , उरण् रपरः (1.1.51) इति रपरः आकारः] → मार्कण्ड् + एय [ओर्गुणः (6.4.146) इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन ढे लोपोऽकद्र्वाः (6.4.147) इति अङ्गस्य अन्तिमवर्णस्य लोपः] → मार्कण्डेय ‘कद्रू’ इति दीर्घ-ऊकारान्त-स्त्रीलिङ्ग-शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - कद्रू + ढक् [स्त्रीभ्यो ढक् (4.1.120) इति अपत्यार्थे ढक्-प्रत्ययः । ककारस्य इत्संज्ञा, लोपः] → कद्रू + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ढकारस्य एय्-आदेशः । यचि भम् (1.4.18) इति अङ्गस्य भसंज्ञा] → काद्रू + एय [किति च (7.2.118) इति आदिवृद्धिः] → काद्रो+ एय [ओर्गुणः (6.4.146) इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणः] → काद्रवेय [एचोऽयवायवावः (6.1.78) इति अवादेशः]
Sutrartha (English)¶
The last letter of an उवर्णान्त-भसंज्ञक word is removed when followed by a ढकारादि-तद्धितप्रत्यय. But this does not happen for the word ‘कद्रू’.
Vasu English Summary¶
For उ of ऊ of a भ अङ्ग (stem) is elided before the affix एय (ढ) but not of the अङ्ग (stem) कट्रू
Vasu English Translation¶
For उ of ऊ of a भ अङ्ग (stem) is elided before the affix एय (ढ) but not of the अङ्ग (stem) कट्रू Thus कामण्डलेयः, शैतिवाहेयः, जाम्बेयः, माद्रवाहेयः, but काट्रवेयो मन्त्रमपश्यत् ॥
Kashika¶
ढे परत उवर्णान्तस्य भस्याकद्र्वा लोपो भवति। कामण्डलेयः। शैतवाहेयः। जाम्बेयः। माद्रबाहेयः। अकद्र्वा इति किम्? काद्रवे॒यो मन्त्र॑मपश्यत् (तै०सं०१.५.४.१)॥
Siddhanta Kaumudi¶
कद्रूभिन्नस्योवर्णान्तस्य भस्य लोपः स्यात् ढे परे । कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे ॥
Balamanorama¶
ढे लोपोऽकद्र्वाः - ढे लोपोऽकद्र्वाः । भस्येत्यधिकृतम् ‘ओर्गुणः’ इत्यत ओरिति षष्ठन्तेनानुवृत्तेनविशेष्यते । तदन्तविधिः । तदाह — कद्रूभिन्नस्येति ।अलोऽन्त्यस्ये॑त्यन्त्यलोपः । ओर्गुणापवादः । कामण्डलेय इति । कमण्डलोरपत्यमिति विग्रहः । ढकि #एयादेशे आदिवृद्धावुकारलोपः । ननु कमण्डलुशब्दवाच्यस्य जलपात्रस्याऽचेतनस्य कथमपत्ययोगः, तत्राह — कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे इति । अत एवकमण्डलुपदे आदधीते॑ति बह्वृचब्राआहृणं सङ्गच्छत इति भावः ।
Padamanjari¶
मद्रबाहुशब्दाद् बाह्वन्तात्संज्ञायाम् इत्युङ्, कद्रुशब्दादपि कद्रुकमण्डल्वोश्च्छन्दसि संज्ञायाम् इत्यूड्, ताभ्यामपत्ये स्त्रीभ्यो ढक्, अन्यत्र चतुष्पाद्भ्यो ढञ्, कमण्डलुपद आदधीतेति बह्वृग्ब्राह्मणम् । शृगालः - जम्बुः, शिवा - जम्बूः । जम्बुरेव जम्बजम्बुकः ॥
Nyaas¶
कामण्डलेयः, शैतबाहेयः इति। चतुष्पाद्भ्यो ढञ् (4.1.135) इति ढञ्। एवं जाम्बेयः इत्यत्रापि। माद्रबाहेयः इति। मद्रबाहुशब्दात्? बाह्वन्तात्? संज्ञायाम् (4.1.67) इत्यूङ, तदन्तात्? स्त्रीभ्यो ढक् (4.1.120) । काद्रवेयः इति। कद्रूकमण्डल्वोश्छन्दसि संज्ञायाम् (4.1.71,72) इत्यूङ तदन्तात्? पूर्ववङ्ढक्॥
Prakriyasarvasvam¶
ढे परे भलोपः स्यात् । कद्र्वास्तु न । कमण्डलूसंज्ञायाः पुत्रः कामण्डलेयः । कद्र्वास्तु काद्रवेयः । ‘बडवाकुश्वाकोकिलाभ्योऽपत्येऽण् वाच्यः’ । बडवासुतो बाडवः । क्रुञ्चः स्त्री क्रुञ्चा । क्रौञ्चः । कौकिलः । भूमीसपत्नीगोपिकागोपालिकादेस्तु शिवाद्यण्येव ॥