64141: मन्त्रेष्वाङ्यादेरात्मनः

Padacheda: मन्त्रेषु | S | 7 | 3 |

आङि | S | 7 | 1 |

आदेः | S | 6 | 1 |

आत्मनः | S | 6 | 1 |

Sutrartha


Vasu English Summary

In the मन्त्र-s , the beginning of आत्मन् is elided when the affix of the Instrumental -3rd case singular follows.

Vasu English Translation

In the मन्त्र-s , the beginning of आत्मन् is elided when the affix of the Instrumental -3rd case singular follows. आङ् is the name of the Instrumental singular affix, given by ancient Grammarians. Thus त्मना देवेभ्यः, त्मना सोमेषु ॥ Why in the Mantras? Observe आत्मनो कृतम् ॥ Why in the Instrumental Singular? यदात्मन स्तन्नो वरिष्ठा ॥

Vart:- The elision of आ of ‘atman’ is found in other cases also, but not so frequently as in the Instrumental, as त्मन्यासमञ्जत मह्यम् ॥

Bhashya

मन्त्रेष्वाङ्यादेरात्मनः (3139) (अतिव्याप्त्यापादकभाष्यम्) मन्त्रेष्वात्मनः प्रत्ययमात्रे लोपः प्रसङ्क्तव्यः । इहापि यथा स्यात् - त्मन्या समञ्जन् । त्मनोरन्तरस्थ इति ॥ (अतिव्याप्तिनिरासभाष्यम्) यदि प्रत्ययमात्रे लोप उच्यते कथं आत्मन एव निर्मिमीष्व इति ? तस्मान्नार्थः प्रत्ययमात्रलोपेन । कथं - त्मन्या समञ्जन्, त्मनोरन्तरस्थ इति ? छान्दसत्वात्सिद्धम् । दृष्टानुविधिश्छन्दसि भवति ॥ (6610 सूत्रांशप्रत्याख्यानवार्तिकम् ॥ 1 ॥) - आदिग्रहणानर्थक्यमाकारप्रकरणात् - आदिग्रहणं चानर्थकम् । किं कारणम् ? आकारप्रकरणात् । आतः इति वर्तते ॥

Kashika

मन्त्रेषु आङि परत आत्मन आदेर्लोपो भवति। त्मना देवेभ्यः। त्मना सोमेषु। मन्त्रेष्विति किम्? आत्मना कृतम्। आङीति किम्? यदात्मनस्तन्नो वरिष्ठा॥ आङोऽन्यत्रापि दृश्यते॥ त्मन्या॑ सम॒ञ्जन् (ऋ० १०.११०.१०)॥

Siddhanta Kaumudi

आत्मन्शब्दस्यादेर्लोपः स्यादाङि । त्मना देवेषु (त्मना॑ दे॒वेषु॑) ॥

Padamanjari

आङिति पूर्वाचार्यप्रक्रियया तृतीयैकवचनस्य ग्रहणम् । आङेऽन्यत्रापि दृश्येत इति । तस्मादाङीति न वक्तव्यमित्यर्थः । आतः इत्यनुवृतेरादेरित्यपि शक्यमकर्तुम् । त्मन्येति । सप्तम्येकवचनस्य याशब्द आदेशः ॥

Nyaas

आङ इति तृतीयैकवचनस्यैषा संज्ञा पूर्वाचार्यैर्विहिता। आङोऽन्यत्रापि दृश्यते इति। मन्त्रेषु इति बहुवचननिर्देशादेतल्लभ्यते। बहुवचननिर्देशेन ह्रयमर्थः सूचितः -बहुविषयोऽयं निर्देश इति। एवञ्च बहुविषयो भवति यद्याङोऽन्यत्रापि क्वचिद्भवति, नान्यथा। त्मान्यासमञ्जत इति। सप्तम्येकवचने। अत्रादिलोपः। आदिग्रहणमुत्तरार्थम्। इह तु पूर्वसूत्रात्? आतः (6.4.140) इत्यनुवृत्तेरन्तरेणाप्यादिग्रहणमादेरेवलोपो भवतीति शक्यते विज्ञातुम्॥

Prakriyasarvasvam

तृतीयैकवचने परे आत्मन आदेर्लोपः स्यात् पुरुवारं पुरुत्मना । आङोऽन्यत्रापि दृश्यते । (वा.) त्मने तोकायो ‘अन्तिकस्य तसि कादि लोप आद्युदात्तत्वं च (वा. ६-४-१४९) एतच्छान्दसमाइ रामः । अन्तितो न दूरात् ।<!तमे तादेश्र!> (वा. ६-४-१४९) । चात् कादेश्र । अग्ने त्वं नो अन्तमः । अन्तितमः ।<!कादिलोपो बहुलं वाच्यः!> (वा.) अन्तिपत् । ‘पूर्वपदात्—’ (८-३-१०६) । इति षः ।<!ये च!> (वा—) अन्तियः । ‘भवे छन्दसि’ (४-४-११०) इति यत् ।