64122: तॄफलभजत्रपश्च¶
Padacheda: तॄ-फल-भज-त्रपः | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
ए is substituted for अ of 1. तॄ 2. फल 3. भज and 4. त्रप and the reduplicate is elided when the affixes of the लिट् (Perfect Tense) having an indicatory क् (or ङ्) follow, as well as when थल् of the लिट् (Perfect Tense) having the augment इट् follows.
Vasu English Translation¶
ए is substituted for अ of 1. तॄ 2. फल 3. भज and 4. त्रप and the reduplicate is elided when the affixes of the लिट् (Perfect Tense) having an indicatory क् (or ङ्) follow, as well as when थल् of the लिट् (Perfect Tense) having the augment इट् follows. Thus तेरतुः, तेरुः, तेरिथ, फेलतुः, फेलुः, फेलिथ, भेजतु, भेजुः, भेजिथ, त्रेपे, त्रेपते, त्रेपिरे ॥ In the case of तॄ the rule applies to the अ obtained by Guna, contrary to (6.4.126), in फल् and भज् the rule, that no different substitute should be in the reduplicate, is not adhered to, and in त्रप the अ does not stand between two simple consonants.
Vart:- It should be stated that the rule applies to श्रन्थ also:- as, श्रेथतुः, श्रेथुः ॥
Kashika¶
तृ फल भज त्रप इत्येतेषामङ्गानामत एकारादेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतस्थलि च सेटि। तेरतुः, तेरुः। तेरिथ। फेलतुः, फेलुः। फेलिथ। भेजतुः, भेजुः। भेजिथ। त्रेपे, त्रेपाते, त्रेपिरे। तरतेर्गुणार्थं वचनम्। फलिभजोरादेशाद्यर्थम्। त्रपेरनेकहल्मध्यार्थम्॥ श्रन्थेश्चेति वक्त व्यम्॥ श्रेथतुः, श्रेथुः॥
Siddhanta Kaumudi¶
एषामत एकारोऽभ्यासलोपश्च स्यात्किति लिटि सेटि थलि च । त्रेपे । त्रेपाते । त्रेपिरे । ऊदित्वादिड्वा । त्रपिता । त्रप्ता । त्रपिषीष्ठ । त्रप्सीष्ट ।{$ {!375 कपि!} चलने$} । कम्पते । चकम्पे ।{$ {!376 रबि!} {!377 लबि!} {!378 अबि!} शब्दे$} । ररम्बे । ललम्बे । आनम्बे ।{$ {!379 लबि!} अवस्रंसने च$} ।{$ {!380 कबृ!} वर्णे$} । चकबे ।{$ {!381 क्लीबृ!} अधार्ष्ट्ये$} । चिक्लीबे ।{$ {!382 क्षीबृ!} मदे$} । क्षीबते ।{$ {!383 शीभृ!} कत्थने$} । शीभते ।{$ {!384 चीभृ!} च$} ।{$ {!385 रेभृ!} शब्दे$} । रिरेभे । अभिरभी क्वचित्पठ्यते । अम्भते । रम्भते ।{$ {!386 ष्टभि!} {!387 स्कभि!} प्रतिबन्धे$} । स्तम्भते । उत्तम्भते । उदः स्थास्तम्भोः-(SK118) इति पूर्वसवर्णः । विस्तम्भते । स्तन्भेः-(SK2272) इति षत्वं तु न भवति । श्नुविधौ निर्दिष्टस्य सौत्रस्यैव तत्र ग्रहणात् । तद्बीजं तु उदः स्थास्तम्भोः-(SK118) इति पवर्गीयोपधपाठः, स्तन्भेः (SK2272) इति तवर्गीयोपधपाठश्चेति । माधवः । केचिदस्य टकार औपदेशिक इत्याहुः । तन्मते, ष्टम्भते । टष्टम्भे ।{$ {!388 जभि!} {!389 जृभि!} गात्रविनामे$} ॥
Laghu Siddhanta Kaumudi¶
एषामत एत्त्वमभ्यासलोपश्च स्यात् किति लिटि सेटि थलि च। त्रेपे। त्रपिता, त्रप्ता। त्रपिष्यते, त्रप्स्यते। त्रपताम्। अत्रपत। त्रपेत। त्रपिषीष्ट, त्रप्सीष्ट। अत्रपिष्ट, अत्रप्त। अत्रपिष्यत, अत्रप्स्यत ॥ इत्यात्मनेपदिनः॥
Balamanorama¶
तॄफलभजत्रपश्च - संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपयोरप्राप्तावाह — तृफल । ‘अत एकहल्मध्ये’ इत्यतोऽत इति लिटीति चानवर्तते ।ध्वसो॑रित्यत एदिति, अभ्यासलोपश्चेति च,गमहने॑त्यस्मात्कितीति,थलि च सेटी॑ति सूत्रं च । तदाह — एषामिति । गुणशब्देन भाविताऽकारवत्त्वाद्वरूपादेशादित्वादेकहल्मध्यस्थत्वाऽभावाच्चाऽप्राप्ते विधिरियम् । आन्ब इति । द्विहल्त्वान्नुट् । ष्टभि स्कभीति । आद्यः षोपदेशः,ष्टुत्वेन तकारस्य टकारनिर्देशेन दन्त्यपरकसादित्वात् । ततः षस्य सत्वे ष्टुत्वस्य निवृत्तिः । तदाह -स्तम्भत् इति । नुम्यनुस्वार इति । इदित्त्वान्नुमिनश्चापदान्तस्ये॑ति तस्यानुस्वारः ।नुस्वारस्य ययी॑ति तस्य परसवर्णौ मकारः ।ष्टम्भे॑त्येव पाठे तु प्रतिपदोक्तत्वात्उदः स्थे॑त्यत्राऽस्यैव ग्रहणं स्यादिति भावः । पूर्वसवर्ण इति । सकारस्य थकारः । तस्यखरि चे॑ति चर्त्वे तकार इत्यर्थः । अत्र यद्वक्तव्यं तदुदः स्थास्तम्भोरित्यत्र हल्सन्धौ प्रपञ्चितम् । विस्तम्भत इति ।सात्पदाद्यो॑रिति षत्वनिषेध इति भावः । नन्वेवमपिस्तम्भे॑रिति षत्वं कुतो न स्यादित्यत आह - स्तम्भेरिति षत्वं तु नेति । कुत इत्यत आह — श्नविधाविति ।स्तन्भुस्तुन्बुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्चे॑ति सूत्रे निर्दिष्टस्यैव प्रतिपदोक्तस्य षत्वविधौ ग्रहणादित्यर्थः । नन्वेवं सतिउदः स्थास्तम्भो॑रिति पूर्वसवर्णविधावपि सौत्रस्यैव ग्रहणं स्यादित्यत आह — तद्बीजं त्विति । षत्वविधौ सौत्रस्यैव ग्रहणं, पूर्वसवर्णविधौ तु तदन्यस्यापीत्यत्र प्रमाणमित्यर्थः । ननु पूर्वसवर्णविधौ मोपधस्य, षत्वविधौ तु नोपधस्य पाठ इत्यत्र किं प्रमाणमित्यत आह — इति माधव इति । पाणिनिशिष्यपरम्परैव तत्र प्रमाणमिति भावः । लिटि ‘शपूर्वाः खयः’ इति षकारस्य निवृत्तौ ष्टुत्वनिवृत्त्या तकारः शिष्यते । तस्तम्भे । टकार औपदेशिक इति । स्वाभाविक एव टकारो नतु ष्टुत्वसंपन्न इत्यर्थः । तन्मते इति । तथा च षकारस्यापि स्वाभाविकत्वात् षत्वविधौ स्तन्भेरेव ग्रहणेऽपि षकारो निर्बाध इति भावः । टष्टम्भ इति । ‘शर्पूर्वा’ इतिटकार एव शिष्यत इति भावः । जभी जृभि गात्रविनाम इति । गात्रस्य विनामः = वक्रभावः । आद्य इदित् । द्वितीय इदित् । आद्यस्य इदित्त्वंश्वीदितो निष्ठाया॑मिति इण्निषेधार्थम् ।
Padamanjari¶
फल निष्पतौ, ञिफला विशरणे - द्वयोरपि ग्रहणम् । गुणाथमिति । न शसददवादिगुणानाम् इति प्रतिषेधं बाधितुमित्यर्थः । श्रेथतुरिति । पूर्वषत्कित्वनलोपौ ॥
Nyaas¶
तेरतुः तेरुः इति। ऋच्छत्यृताम् (7.4.11) इति गुणः। फेलतुः, फेलुः इति। फल निष्पत्तौ (धातुपाठः-530), ञि फला विशरणे (धातुपाठः-516) इति च। तरतेर्गुणार्थम् इति। न शसददवादिगुणानाम् (6.4.126) इति प्रतिषेधं वक्ष्यति। अतस्त्रतेरिदं वचनं गुण इत्येवमभिनिवृत्तस्यापि यथा स्यादित्येवमर्थम्। श्रन्थेश्चेति वक्तव्यम् इति। ग्रन्थ श्रन्थ सन्दर्थे (धातुपाठः-1511,1512) इत्यस्याप्येत्त्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -चकारोऽतत्र क्यिये, स चानुक्तसमुच्चयार्थः, तेन श्रन्थेरपि भविष्यतीति। श्रेथतुः, श्रेथुः इति पूर्ववदुपसंख्यानेन लिटः कित्त्वे नकारलोपः॥
Prakriyasarvasvam¶
एषां किति लिटि सेटि थलि चात एत्वमभ्यासलोपश्च स्यात् । फेलतुः । फेलिथ, फेल । पफाल, पफल । फेलिव । भावादौ फेले फेलाते१ । फेलिषे । फेलिढ्वे, फेलिध्वे । फेले, फेलिवहे । एवं तरत्यादेरेत्वम् । तेरतुः । भेजतुः । तङ् त्रेपे । आशीरादौ फल्यात् फलिता फलिष्यति । भावादौ फलिषीष्ट । फलिषीढ्वम्, फलिषीध्वम् ।। वज गतौ । वजतीत्यादि । यकि वज्यते । लुङि,
Vartika¶
श्रन्थेश्चेति वक्तव्यम् ।
Sutra Prayogas¶
अवतेरतुः (शिशुपालवधम्): तॄफलभजत्रपश्च इत्येत्वाभ्यासलोपौ।
फेलुः (भट्टिकाव्यम्): तृ-फल-भज- पश्च इत्येत्वमभ्यासलोपश्च।
भेजतुर् (भट्टिकाव्यम्): एत्वाभ्यासलोपौ तृ-फल इत्यादिना एत्वाभ्यासलोपौ।
तेरुर्भटाऽऽस्य-पद्मानि (भट्टिकाव्यम्): तृ-फल इत्यादिना एत्वाभ्यासलोपौ।
उत्तेरिथ (भट्टिकाव्यम्): तृ-फल- इत्यादिना एत्वाभ्यासलोपौ।