64097: इस्मन्त्रन्क्विषु च

Padacheda: इस्-मन्-त्रन्-क्विषु | S | 7 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The penultimate of छादि is shortened before the affixes 1. इस् 2. मन् 3. त्रन् and 4. क्वि।

Vasu English Translation

The penultimate of छादि is shortened before the affixes 1. इस् 2. मन् 3. त्रन् and 4. क्वि। Thus छदिस्, छद्मन् (neuter), छत्रम्, धामच्छत् and उपच्छत् The first three are Unadi affixes.

Kashika

इस् मन् त्रन् क्वि इत्येतेषु परतश्छादेरुपधाया ह्रस्वो भवति। छदिः। छद्म। छत्त्रम्। धामच्छत्। उपच्छत्॥

Siddhanta Kaumudi

एषु छादेर्ह्रस्वः स्यात् । तनुच्छत् । अनुनासिकस्य क्वि -(SK2666) इति दीर्घः । मो नो धातोः (SK341) । प्रतान् । प्रशान् । च्छ्वोः -(SK2561) इत्यूठ् । अक्षद्यूः । ज्वरत्वरः -(SK2654) इत्यूठ् । जूः । जूरौ । जूरः । तूः । स्रूः । ऊः । वृद्धिः । जनानवतीति जनौः । जनावौ । जनावः । मूः । मुवौ । मुवः । सुमूः । सुम्वौ । सुम्वः । राल्लोपः (SK2655) । मूर्छा, मूः । मुरौ । मुरः । धुर्वी, धूः ॥

Balamanorama

इस्मन्त्रन्क्विषु च - इस्मन्त्रन् । इस्, मन्, त्रन्, क्वि एषां चतुर्णां द्वन्द्वः ।छादेर्घेद्व्युपसर्गेस्य॑त्यतश्छादेरिति, ‘खचि ह्रस्वः’ इत्यतो ह्रस्व इति चानुवर्तते । तदाह — एषु छादेरिति । अर्थादाकारस्येति गम्यते, अलोन्त्यपरिभाषामाश्रित्य इकारस्य ह्रस्वविदौ प्रयोजनाऽभावात् । एवं च ‘ऊदुपधायाः’ इत्यत उपधाया इति नानुवर्तनीयम्, ण्यन्तस्य छादेर्दकारोपधत्वात् ।इस्- छदिः । मन्- छद्म । त्रन् - छत्रम् । क्वौ उदाहरति — तनुच्छदिति । तनुं छादयतीति विग्रहः । अथ तनेः शमेश्च क्विपि विशेषमाह — अनुनासिकस्येति ।अक्षद्यू॑रित्यत्र आह — च्छ्वोरिति । योरेकस्मिन् ऊठिजूरिति रूपम् । एवं त्वरेः तूरिति रूपम् । रिउआवेः क्विपि इकारवकारयोरूठि रुआऊरिति रूपम् । अवधातोः क्विपि अकारवकारयोरूठि ऊरिति रूपम् । वृद्धिरिति । जनानवतीति विग्रहे, अवेः क्विपि, अकारवकारयोरूठि , जन ऊ इति स्थिते आद्गुणं बाधित्वा ‘एत्येध्त्यूठ्सु’ इति वृद्धिरौकारादेश इत्यर्थः । मूरिति । मवेः क्विपि, अकारवकारयोरूठ् । सुम्बो सुम्व इति । अनेकाच्त्वाद्गतिपूर्वत्वाच्च यणिति भावः । रादिति । मुर्छाधातोः क्विपि ‘राल्लोपः’ इति चकारस्य लोपे सुलोपेर्वो॑रिति दीर्घे सुलोपेर्वो॑रिति दीर्घे धूरिति रूपमिति भावः ।

Nyaas

चकारश्चादेरनुकर्षणार्थः। छदिः इति। अचिशुचिहुसृपिच्छादिच्छदिभ्य इसिः (द।उ।9।30) इतीसिप्रत्ययः। छद्म इति। सर्वधातुभ्यो मनिन् (पं।उ।4।156) इति मिन्। छत्त्रम् इति। सर्वधातुभ्यः ष्ट्रन् (द।उ।8।79) इति ष्ट्रन्। योगविभागोऽनेकोपसर्गस्यापि यथा स्यात् -समुपातिच्छदिरिति॥

Prakriyasarvasvam

इसि मनि त्रे क्वौ च परे छादेर्ह्रस्वः स्यात् । प्रच्छत् । सूयच्छत् । इसादय उणादौ । ‘घुमास्थ—’ (६-४-६६) इतीत्वं वेणुधीः । क्षीरपीः । स्थाधातोस्तु क्विपि भाष्यप्रयोगादीत्वं न । शैलस्थाः । भूरिदासोमपादौ विच्त्वादनीत्वम् । तायृ पालने । ताय् व्, ‘लोपो व्योर्वलि’ (६-१-६६) इति पूर्वं लोपपदोक्तेरपृक्तलोपात् प्राग् यलोपः । पुनरपृक्तलोपः । ताः पालयिता । सोमपावदादन्तः । विरोहतीति वीरुत् वीरुधौ । न्यङ्क्वादित्वाद् धत्वदीर्घौ । अत्र धत्वं वेति कौमुद्युक्तेः हो ढः । वीरुट् । वीरुहौ । देवान् यजतीति क्विपि यजादित्वात् सम्प्रसारणम् । देवेज् । पदत्वे व्रश्चादिषः । देवेट् । देवेजौ । <karika>वपादेस्तु यवोब् विश्वोड् दोषवीश्व पटोत् तुकि । शत्रुहर्मधुरोद् दान्तो व्रजोः काननशूरिति ॥ ९२ ॥</karika> इति ।