64079: स्त्रियाः

Padacheda: स्त्रियाः | S | 6 | 1 |

Sutrartha

‘स्त्री’ शब्दस्य अजादिप्रत्यये परे इयङ्-आदेशः भवति ।

‘स्त्री’ अयम् दीर्घ-ईकारान्तशब्दः । अस्य शब्दस्य अजादि प्रत्यये परे ‘इयङ्’ आदेशः भवति । अलोऽन्त्यस्य (1.1.52) इत्यनेन स्त्री-शब्दस्य अन्तिम-ईकारस्य अयमादेशः भवति । यथा - 1. स्त्री + औ/औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः] → स्त्र् इयङ् + औ [स्त्रियाः (6.4.79) इति इयङ्-आदेशः] → स्त्र् इय् औ [ङकारस्य इत्संज्ञा, अकारः उच्चारणार्थः । तयोः लोपः] → स्त्रियौ 2. स्त्री + टा [तृतीयैकवचनस्य प्रत्ययः] → स्त्र् + इयङ् + आ [स्त्रियाः (6.4.79) इति इयङ्-आदेशः] → स्त्रिया ज्ञातव्यम् - षष्ठी-बहुवचनस्य आम्-प्रत्यये परे ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन नुडागमे कृते ‘नाम्’ प्रत्ययः सिद्ध्यति । अयं प्रत्ययः अजादिः नास्ति, अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।

Sutrartha (English)

The word ‘स्त्री’ gets an इयङ्-आदेश when followed by an अजादि प्रत्यय.

Vasu English Summary

इवङ् is substituted for the ई of स्त्री before an affix beginning with a vowel.

Vasu English Translation

इवङ् is substituted for the ई of स्त्री before an affix beginning with a vowel. As स्त्री, स्त्रियौ, स्त्रियः; but स्त्रीणाम् the न् being added by a subsequent rule, supersedes this rule. The making this a separate sutra is for the sake of the subsequent aphorisms.

Kashika

स्त्री इत्येतस्याजादौ प्रत्यये परत इयङादेशो भवति। स्त्री, स्त्रियौ, स्त्रियः। स्त्रीणामित्यत्र परत्वाद् नुडागमः। पृथग्योगकरणमुत्तरार्थम्॥

Siddhanta Kaumudi

स्त्रीशब्दस्येयङ् स्यादजादौ प्रत्यये परे । स्त्रियौ । स्त्रियः ॥

Laghu Siddhanta Kaumudi

अस्येयङ् स्यादजादौ प्रत्यये परे। स्त्रियौ। स्त्रियः॥

Balamanorama

स्त्रियाः - स्त्रियाः । अचि श्नुधात्वित्यतोऽचीति इयङिति चानुवर्तते । तदाह — स्त्रीशब्दस्येत्यादिना । स्त्रियौ स्त्रिय इति । औजसोः रूपम् । अमि शसि च स्त्रियां स्त्रिय इति नित्यमियङि प्राप्ते ।

Tattvabodhini

स्त्रियाः - स्त्रीति । स्यायतोऽस्यां शुक्रशोणिते इतिस्त्री॑ ।स्यायतेर्ड्रट् ।लोपे व्यो॑रिति यलोपः । टित्त्वान्ङीप् । ङ्यन्तत्वात्सुलोपः ।

Padamanjari

स्त्री इत्येतस्येति । स्त्रीप्रत्ययान्तानं स्त्र्यर्थवॄतर्वा शब्दस्य ग्रहणं न भवति आण्नद्या, कुमार्या वयसि इत्यादिनिर्देशात् । उतरार्थमिति । उतरत्र स्त्रियाः एवानुवृत्तिर्यर्था स्यात्, श्नुधातुभ्रुवां मा भूत् ॥

Nyaas

स्त्रियाः इति। आण्नद्याः (7.3.112) , जातेरस्त्रीविषयादयोपधात् (4.1.63) इति निर्देशान्नेदं स्त्रीप्रत्ययानां ग्रहणम्, नापि स्त्र्यर्थवृत्तेः शब्दस्येति निश्चित्य स्त्रीशब्दस्यैव स्वरूपेण ग्रहणमिति दर्शयितुमाह -स्त्री इत्येतस्य इत्यादि। इतिकरणः स्त्रीशब्दस्य स्वरूपपदार्थता दर्शयति। अथ षष्ठीबहुवचने कस्मान्न भवतीत्याह -स्त्रीणाम् इत्यादि। परत्वात्? षष्ठीबहुवचने नुटा भवितव्यम्, तस्मश्च सत्यजादिः परः प्रत्ययो न भवतीतीयङ न प्रवर्तते। अथ किमर्थं पृथग्योगः क्रियते? न, अचि श्नुधातुस्त्रीभ्रुवाम् इत्येक एव योगः क्रियेतेति? अत आह -प्रथग्योगकरणम् इत्यादि। वाऽम्शसोः (6.4.80) इत्यत्र स्त्रीशब्दस्यैव विकल्पो यथा स्यात्, धातुभ्रुवोर्माभूदित्येवमर्थं पृथग्योगकरणम्॥

Prakriyasarvasvam

स्त्रीशब्दस्याचि पर इयङ् स्यात् । स्त्रियौ । स्त्रियः । नदीत्वाद्व्रस्वः । हे स्त्रि । स्त्री अम्-

Sudha

स्त्री । स्त्यायतः संगते भवतः शुक्रशोणितेऽस्यामिति स्त्री, तस्मात्सौ हल्ङ्यादि लोपे ‘स्त्री’ इति रूपम् । हे स्त्रि । अत्र नदीसंज्ञायाम् अम्बाऽर्थनद्योर्ह्रस्वः**(7.3.107) इति ह्रस्वे **एङ्ह्रस्वात् सम्बुद्धेः**(6.1.69) इति सुलोपे ‘हे स्त्रि’ इति । **स्त्रिया इति । अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इत्यतोऽचीति इयङिति चानुवर्तते, तदाह — **अस्यैयङित्यादिना स्त्रियौ । ‘स्त्री औ’ इति स्थिते **स्त्रियाः**(6.4.79) इतीयङि कृते संयुक्ते च जाते ‘स्त्रियौ’ इति रूपम् । एवं जसि - ‘स्त्रियः’ इति ।