64061: वाक्रोशदैन्ययोः

Padacheda: वा | S | 0 | 0 |

आक्रोश-दैन्ययोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

The long is optionally substituted for the इ in क्षि before the Past Participle in क्त when it is not in the sense of the future Passive Participle in ण्यत् when the word means ‘imprecation’ or ‘a miserable plight’.

Vasu English Translation

The long is optionally substituted for the इ in क्षि before the Past Participle in क्त when it is not in the sense of the future Passive Participle in ण्यत् when the word means ‘imprecation’ or ‘a miserable plight’. Thus क्षितायुरेधि or क्षीणायुरेधि, क्षितकः or क्षीणकः, क्षितोयं तपस्वी, क्षीणोऽयं तपस्वी ॥ When not having the sense of cursing or miserable condition, we have one form only, as क्षीणश्चन्द्रः ॥

Kashika

आक्रोशे गम्यमाने दैन्ये च क्षियो निष्ठायामण्यदर्थे वा दीर्घो भवति। क्षितायुरेधि, क्षीणायुरेधि। दैन्ये — क्षितकः, क्षीणकः। क्षितोऽयं तपस्वी, क्षीणोऽयं तपस्वी॥

Siddhanta Kaumudi

क्षियो निष्ठायां दीर्घो वा स्यादाक्रोशे दैन्ये च । क्षीणायुर्भव । क्षितायुर्वा । क्षीणोऽयं तपस्वी । क्षितो वा ॥

Balamanorama

वाऽऽक्रोशदैन्ययोः - वाऽऽक्रोशदैन्ययो- । अण्यदर्थ इत्यनुवर्तते ।ण्यदर्थो भावकर्मणी॑इत्युक्तम् । आक्रोशे उदाहरति — क्षीणायुर्भवेति ।गत्यर्थाकर्मके॑ति कर्तरि क्तः । दैन्ये उदाहरति — क्षीणोऽयं तपस्वीति । कृश इत्यर्थः ।

Padamanjari

क्षितायुरिति । पूर्ववत्कर्तरि क्तः । क्षीणक इति । अनुकम्पायाम् इति कन् । प्राप्तविभाषेयम् । अण्यदर्थ इत्येव - क्षितं सर्वमस्य, क्षितमस्य तपस्विनः ॥

Nyaas

क्षितायुः इति। पूर्ववत्? कर्तरि क्तः। एवमुतरत्रापि। क्षितकः इति। अनुकम्पायां कन्। आकोशदैन्याभ्यामन्यत्र पूर्वेण नित्यं भवति। अण्यदर्थ इति किम्? क्षितं जाल्मस्य, क्षितकमस्य तपस्विनः॥

Prakriyasarvasvam

शापे दैन्ये च द्योत्ये क्षिय उक्तदीर्घो वा स्यात् । दीर्घपक्षे नत्वम् । क्षीणायुः क्षितायुर्वास्तु दुष्टः । क्षीणा क्षिता वेयं श्रान्त्या । भावेऽपि दीर्घो वेति कौमुदी । क्षीणं क्षितं वानेन । श्यैङ आत्वम् । श्या त ॥