64041: विड्वनोरनुनासिकस्यात्

Padacheda: विट्-वनोः | S | 7 | 2 |

अनुनासिकस्य | S | 6 | 1 |

आत् | S | 5 | 1 |

Sutrartha


Vasu English Summary

A stem ending in a nasal and followed by the affix विट् or वन् always substitutes for long आ for its nasal.

Vasu English Translation

A stem ending in a nasal and followed by the affix विट् or वन् always substitutes for long आ for its nasal. Thus अब्जाः, गोजाः, ऋतजाः, अद्रिजाः, गोषाः (e. g. गोषा इन्द्रोनृषा असि Rig V.), कूपखाः, शतखाः, सहस्रखाः, दधिकाः, अग्रेगा उन्नेतणाम् ॥ The affix विट् (which is totally elided) is added under (3.2.67). The स of सन् is changed to ष by (8.3.108). in गोषा ॥ With the affix वन् we have the following :– विजावा, अग्रेजावा (3.2.75). The repetition of the word अनुनासिक in this sutra shows that the limitation of anudattopadesa &c. which applied to the अनुनासिक of sutra (6.4.37) does not apply here.

Kashika

विटि वनि च प्रत्यये परतोऽनुनासिकान्तस्याङ्गस्याकार आदेशो भवति। अ॒ब्जा गो॒जा ऋ॑त॒जा अ॑दि्॒रजाः (ऋ० ४.४०.५) । गो॒षा इ॑न्दो नृ॒षा अ॑सि (ऋ० सं० ९.२.१०)। कूपखाः। शतखाः। सहस्रखाः। दधिक्राः। अग्रेगा उन्नेतृणाम्। जनसनखनक्रमगमो विट् (३.२.६७) इति विट् प्रत्ययः। सनोतेरनः (८.३.१०६) इति षत्वं गो॒षा इ॑न्दो नृ॒षा अ॑सीत्यत्र। वन् विजावा। अग्रेजावा। अन्येभ्योऽपि दृश्यन्ते (३.२.७५) इति वनिप् प्रत्ययः। अनुनासिकस्येति वर्तमाने पुनरनुनासिकग्रहणमनुनाकिमात्रपरिग्रहार्थम्, अन्यथा ह्यनुदात्तोपदेशवनतितनोत्यादीनामेव स्यात्॥

Siddhanta Kaumudi

अनुनासिकस्य आत्स्यात् । विजायत इति विजावा । ओणृ । अवावा । विच् । रोट् । रेट् । सुगण् ॥

Laghu Siddhanta Kaumudi

अनुनासिकस्याऽत्स्यात्। विजायत इति विजावा॥ ओणृ अपनयने॥ अवावा। विच्॥ रुष रिष हिंसायाम्॥ रोट्। रेट्। सुगण्॥

Balamanorama

विड्वनोरनुनासिकस्यात् - विड्वनोरनुनासिकस्याऽऽत् । विड्वनोरिति सप्तमी । अनुनासिकस्य — आदिति छेदः । विजावेति । जनेर्वनिप् । जनेर्नकारस्य आकारः । सवर्णदीर्घः । अवावेति । ओणेर्वनिप् । णकारस्य आकारः । अवादेशः । विजिति । ‘उदाह्यियते’ इति शेषः । रोट् रेडिति ।रुष, रिष हिंसायाम् विच् ।वेरपृक्तस्ये॑ति वलोपः । सुगण्णिति । गमएर्विच् ।

Tattvabodhini

विड्वनोरनुनासिकस्यात् - अवावेति । अनुनासिकस्य आत्वे अवादेशः । सौ दीर्घनलोपौ । रोट् रेडिति । रुष रिष हिंसायाम् । उपधागुणः । जश्त्वचर्त्वे ।

Padamanjari

अग्रेगा इत्यादि । यद्यप्यकारविधानेऽपि सवर्णदीर्घेण सिद्ध्यति, अतो गुणे इति पररुपत्वे हि अतोलोपमेव विदध्यात् । ये त्वकारोपधा न भवन्ति, तदर्थ दीर्घोच्चारमम् - घुण घूर्ण भ्रमणे, अन्यभ्योऽपि दृश्यन्ते इति वनिप्, ध्वावा, धूरावा । क्षिणु - क्षावा, ऋणु - रावा, ओणृ - अवावा ॥

Nyaas

अब्जाः इति। अप्सु जायत इत्युपपदसमासः, पकारस्य जश्त्वम् -बकारः। गोषा इति। षणु दाने (धातुपाठः-1464) विजवा इति। जन जनने (धातुपाठः-1105), जनी प्रादुर्भावे (धातुपाठः-1149) इति वा। अग्रेगाव [अग्रेजावा इति काशिका पाठः] इति। तत्पुरुषे कृति बहुलम् (6.3.14) इति सप्तम्या अलुक्। अथानुनासिकग्रहणं किमर्थम्, यावतानुदात्तोपदेशेत्यादेः (6.4.37) सूत्रादनुनासिकगरहणमनुवर्तत एव? इत्याह -अनुनासकस्येति वर्तमाने -इत्यादि। तद्धि प्रकृतमनुनासिकग्रहणमनुदात्तोपदेशग्रहणेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्माददमन्यदनुनासिकग्रहणं क्रियते -अनुनासिकमात्रस्य यथा स्यात्। अथेह दीर्घोच्चारणं किमर्थम्? ह्रस्व एवोच्येत, ह्रस्वेऽपि कृते सत्यकः सवर्णे दीर्घत्वेन सिद्ध्यत्येव; अतो गुणे (6.1.97) पररूपत्त्वं प्राप्नोति, अतो न सिद्धयतीत्येतन्नाशङ्कनीयम्, अकारविधानसामर्थ्यात्; यदि हि अतो गुणे पररूपत्वं स्यात्, तदा प्रकृतं लोपग्रहणमेव विदध्यात्? ततो ह्रस्व एव कर्तर्व्यः। नैतदस्ति; ह्यत्वे हि सति घुण धूर्णने (धातुपाठः-437) [भ्रमणे -धातुपाठः-] इत्यस्माद्वनिपि विहिते ध्वावा इति न सिद्ध्येत्? ततो दीर्घस्यैव विधानं युक्तम्॥

Prakriyasarvasvam

अनुनासिकस्य विटि वनि च परे आत्वं स्यात् । ओ आ वन् । अवादेशः अवावा । घूर्णैर्ण्यात्वं घूरावा । विचि, स्रोतो वहतीति स्रोतोवह् । पदान्ते, हो ढः । जश्त्वचर्त्वे स्रोतोवट् स्रोतोवहौ । रिषिरुष्योर्विच् । गुणः रेष् रोष् पदान्ते षस्य जश्त्वं डः । चर्त्वे, रेट् । रोट् । एषु क्विप् चेद्वहेः प्रसारणमनयोरगुणश्च स्यात् । दृश्यन्त इत्युक्तेर्यथाप्रयोगमेवैते स्युः ।