64021: राल्लोपः¶
Padacheda: रात् | S | 5 | 1 |
लोपः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
After र् there is the elision of छ् and व् before क्वि and झलादि ङित् and कित् affixes – अनुनासिकस्य क्विझलोः क्ङिति (6.4.15).
Vasu English Translation¶
After र् there is the elision of छ् and व् before क्वि and झलादि ङित् and कित् affixes – अनुनासिकस्य क्विझलोः क्ङिति (6.4.15). Thus from मुर्छा — मूर्, मुरौ, मुरः, मूर्तः, मूर्तवान्, मूर्तिः, the त of Nishtha is not changed into न by (8.2.57). So also from हुर्छा we have हूर्, हुरौ, हुरः, हूर्णः, हूर्णवान्, हूर्त्तिः ॥ So also the व is elided, as from तूर्वीः - तूर्, तुरौ, तुरः, तूर्णः, तूर्णवान्, तूर्त्तिः ॥ धुर्वी :- धुः, धुरौ, धुरः, धूर्णः, धूर्णवान्, धूर्त्ति ॥
Kashika¶
रेफादुत्तरयोश्छ्वोर्लोपो भवति क्वौ परतो झलादौ क्ङिति च परतः। मुर्छा — मूः, मुरौ, मुरः। मूर्तः। मूर्तवान्। मूर्तिः। ‘न ध्याख्यापृमूर्च्छिमदाम् (८.२.५७) इति निष्ठानत्वाभावः। हुर्छा — हूः, हुरौ, हुरः। हूर्णः। हूर्णवान्। हूर्तिः। राल्लोपे सतुक्कस्य छस्याभावात् केवलो गृह्यते। वकारस्य — तुर्वी — तूः, तुरौ, तुरः। तूर्णः। तूर्णवान्। तूर्तिः। धुर्वी — धूः, धुरौ, धुरः। धूर्णः। धूर्णवान्। धूर्तिः॥
Siddhanta Kaumudi¶
रेफात्परयोश्छ्वोर्लोपः स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये । इति वलोपः । लघूपधगुणः ॥
Laghu Siddhanta Kaumudi¶
रेफाच्छ्वोर्लोपः क्वौ झलादौ क्ङिति। धूः। विद्युत्। ऊर्क। पूः। दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः। जूः। ग्रावस्तुत्। क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणं च (वार्त्तिकम्)। वक्तीति वाक्॥
Padamanjari¶
मुर्छेअति । मुर्छा मोहसमुच्छ्राययोः । हुर्छेअति । हुर्छा कौटिल्ये । ननु च पूर्वत्र सतुक्कस्य च्छकारस्य ग्रहणं वितुक्कश्चायम्, तत्कथमत्र लोपः इत्याह - राल्लोप इत्यादि । ननु यदि नाम रेफात्परः सतुक्कशच्छकारो न सम्भवति, किमेतावताऽप्रकृतस्यासंस्थितस्य केवलस्य च्छस्य ग्रहणं भवति तस्मादेवं व्याख्येयम् - पूर्वत्र द्विच्छकारो निर्द्देशः, तत्रैकः सतुक्कः, अपरस्तु केवलो गृहीतः, त त्र च राल्लोप सतुक्कस्य च्छस्यासम्भाव्तकेवलो गृह्यत इति । यदि द्विच्छकारकः पूर्वत्र निर्द्देशः, च्छवोरिति निर्द्देशो नोपपद्यते, कथम् समाहारद्वन्द्वे एकवचनप्रसङ्गः नैष दोषः पूर्वं द्वयोरच्छकारयोः समाहारद्वन्द्वं कृत्वा पश्चाद्वकारेणेतरेतरयोग द्वन्द्वः करिष्यते । एवमपि द्वन्द्वाच्चुदषहान्तात्समहारे इति समासान्तः प्राप्नोति तर्हि च्छकारवकारयोः समाहारद्वन्द्वं कृत्वा तेन सह सतुक्कस्य च्छस्येतरेतरयोगे द्वन्द्वो भविष्यति । यदि पूर्वत्र वितुक्को गृह्यते, वाञ्च्छतेः क्विपि शत्वं प्राप्नोति इष्टमेवैतत्संगृहीतम् - वांशौ, वांश इत्येव भवितव्यम् ॥
Nyaas¶
मूर्छा इति। मुर्छा मोहसमुच्छ्राययोः (धातुपाठः-212)। हूर्छा इति। हुर्छा कौटिल्ये (धातुपाठः-211) कथं पुनरत्र च्छकारलोपो भवति, यावता नात्र सूत्रे छकार उपात्तः; योऽपि प्रकृतः सोऽपि सतुक्कः, नात्र तुगस्ति, न हि रेफस्य च्छे क्वचित्? तुग्विहितः? इत्याह -राल्लोपे सतुक्कस्य इत्यादि। उत्तरत्रानुवृत्तिर्यथा स्यादिति पूर्वसूत्रे च्छकारस्य स्वरितत्वं प्रतिज्ञातम्, न च रः परः सतुक्कः सम्भवति। तत्र समाथ्र्यात्? तुग्रहित एवानुवर्तते। अथ वा -पूर्वसूत्रे द्विच्छकानिर्देशः; तत्रैकः सतुक्कः, परस्तुग्रहितः। सम्भवति चागमशासनस्यानित्यत्वाद्धा तुग्रहितश्छकारः। एवञ्च कृत्वा यदुक्तम् -नङो ङित्त्वं गुणप्रतिषेधार्थमिति, तदुपपन्नं भवति। तदेवं यद्यपि पूर्वसूत्रे छकारौ प्रकृतौ, तथापि रेपात्? परः सतुक्को न सम्भवति। केवलो यस्तुग्रहितः स एवानुवर्तते। तूः, धूः इति। तुर्वी थुर्वी दुर्वी धुर्वी हिंसार्थाः (धातुपाठः-570-573)॥
Prakriyasarvasvam¶
क्वचादौ परे रेफात् परयोश्छ्वोर्लोपः स्यात् । मूर्च्छेः मूर् । पदत्वे,
Sutra Prayogas¶
राज्य-धुरां (भट्टिकाव्यम्): रालोपः इति वलोपः।
स्कन्त्वा (भट्टिकाव्यम्): क्त्विस्कन्दिस्यन्दोः इत्यनुनासिकलोपप्रतिषेधः ।