63114: संहितायाम्¶
Padacheda: संहितायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In the following sūtras up to the end of the पाद are to be supplied the words ‘in an uninterrupted flow of speech’.
Vasu English Translation¶
In the following sūtras up to the end of the पाद are to be supplied the words ‘in an uninterrupted flow of speech’. Thus sutra (6.3.135) declares “अ at the end of a two-syllabic inflected verb becomes long in the Hymns”. Thus विद्माहित्वा सत्पति शूर गोनाम् The word संहितायाम् should be read into that sutra to complete the sense. So that when the above words stand separately, we have विद्म, हि, त्वा, सत्पतिं, शूर, गोनाम् ॥
Kashika¶
संहितायामित्ययमधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामः संहितायामित्येवं तद् वेदितव्यम्। वक्ष्यति — द्व्यचोऽतस्तिङः (६.३.१३५) इति। वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म् (ऋ० १०.४७.१)। संहितायामिति किम्? विद्म, हि, त्वा, गोपतिम्, शूर, गोनाम्॥
Siddhanta Kaumudi¶
अधिकारोऽयम् ॥
Balamanorama¶
संहितायाम् - संहितायाम् । सुगमम् ।
Tattvabodhini¶
संहितायाम् - संहितायाम् । तेनद्विगुणाकर्णः॑इत्यादाववग्रहे दीर्घो न भवतीति सूत्राशयमुत्प्रेक्षयन्ति । अधिकारोऽयमिति । तेनविद्मा हि त्वा॑इत्यादौ पदकालेव्द्यचोऽतस्तिङः॑इति दीर्घो नेत्यादिप्रयोजनान्यीह्रानीति ।
Padamanjari¶
अनन्तरैर्यौगैरतरपदे कार्यं विधीयते, उतरपदं च समासे भवति । तत्र नित्यमेव संहितया भवितव्यम् संहितैकपदे नित्येति वचनात् । अवग्रहेऽपि क्वचित्कार्यं दृश्यते, क्वचिन्न, इकः काशे अनूकाशमित्यनु - कशमिति, अष्टनः संज्ञायाम्, अष्टाबन्धुरमित्यष्टा - बन्धुरमिति । अतो न तेष्ववश्यमस्योपयोग इति । यत्रानुतरपदे कार्यं विधीयते तदुदाहरति - वक्ष्यति द्व्यचोऽतस्तिङ् इति । अत्र हि तिङ्न्तस्य समासासम्भवादुतरपद इति न सम्बध्यते । वद्मा हि त्वेति । विदेर्लट्, मस्, विदो लटो वा ॥ एकर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य ॥ 6 - 3।115 ॥ तदिह लक्षणं गृह्यत इति । तत्रैव लक्षणशब्दस्य प्रसिद्धत्वात् विष्टादिपर्युदासाच्च । दात्रादिशब्द उपमानातदाकारे चिह्रए वर्तते ॥
Nyaas¶
अनीषदर्थ आरम्भः। कापथः इति। कुत्सितः पन्थाः कापथः, ऋक्पूः (5.4.74) इत्यादिनाकारः समासान्तः। काक्षः इति। कुत्सितोऽक्ष इति तत्पुरुषः। अथ वा - कुत्सिते अक्षिणी अस्येति बहुव्रीहिः, बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्? षच् (5.4.113) इति षच्? समासान्तः॥
Prakriyasarvasvam¶
अधिकारोऽयम् । छान्दसेष्वेव सफल इति हरः ॥ <karika>अधिकारो ह्ययं कर्णे लक्षणेत्यादिषु स्थितः । अवग्रहे पदच्छेदे चापि दीर्धनिवृत्तये ॥ ८८१ ॥</karika> <karika>लोके त्ववग्रहो नास्ति नोक्तो दीर्घः पदद्वये । तत्तदानुपयुक्तत्वादिहोक्तः संहिताग्रहः ॥ ८८२ ॥</karika>