63100: अर्थे विभाषा

Padacheda: अर्थे | S | 7 | 1 |

विभाषा | S | 1 | 1 |

Sutrartha


Vasu English Summary

दुक् (द्) is optionally the augment of अन्य when अर्थ follows.

Vasu English Translation

दुक् (द्) is optionally the augment of अन्य when अर्थ follows. As अन्यदर्थः or अन्यार्थः ॥

Kashika

अर्थशब्द उत्तरपदेऽन्यस्य विभाषा दुगागमो भवति। अन्यदर्थः, अन्यार्थः॥

Siddhanta Kaumudi

अन्यदर्थः । अन्यार्थः ॥

Balamanorama

अर्थे विभाषा - अर्थे विभाषा ।अन्यस्य दु॑गिति शेषः ।

Nyaas

शकारः सर्वादेशार्थः। इदमिव पश्यतीति ईदृक्? इदृशः। पूर्ववत्? कञ्किवनौ। किमिव यश्यतीति कीदृक्? कीदृशः। व्युत्पत्तिमात्रार्थो विग्रहः कृतः। नात्रावयवार्थो विग्रहवाक्योपदर्शितो विद्यते। तथा हीदृग्? ईदृश इत्यनेन तुल्य इत्येषोऽर्थः समुदायादेव प्रतीयते। कीदृक्, कीदृश इत्यत्रापि केन तुल्य इति। किं परिमाणमस्येति कयान। इदं परिमाणमस्येति इयान्किमिदंभ्यां वो घः (5.2.40) इति वतुपो घत्वम्, तस्येयादेशे कृते यस्येति च (6.4.148) इतीकारलोपः। ननु च वतुपो वकारस्येयादेशोऽनेन विधीयते, न तु वतुप्? किमिदंभ्यां विधीयते? एवं मन्यते -वतुबस्मादादेशवचनाद्विज्ञायते, न ह्रन्यद्वतुपो लक्षणमस्ति। न चासतो वतुपो घादेशः शक्यो विज्ञातुमिति॥

Prakriyasarvasvam

अन्यदर्थम् । अन्यार्थम् ॥