63087: तीर्थे ये¶
Padacheda: तीर्थे | S | 7 | 1 |
ये | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
स is substituted for समान् before तीर्थ when the affix यत् is added to it.
Vasu English Translation¶
स is substituted for समान् before तीर्थ when the affix यत् is added to it. Thus सतीर्थ्यः = समाने तीर्थे वासी (4.4.107). ‘a fellow-student’?
Kashika¶
तीर्थशब्द उत्तरपदे यत्प्रत्ययपरे परतः समानस्य स इत्ययमादेशो भवति। सतीर्थ्यः। समानतीर्थ वासी (४.४.१०७) इति यत् प्रत्ययः॥
Siddhanta Kaumudi¶
तीर्थे उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात् । सतीर्थ्यः, एकगुरुकः । समानतीर्थेवासी (SK1658) इति यप्रत्ययः ॥
Balamanorama¶
तीर्थे ये - तीर्थे ये । यशब्दादकारान्तात्सप्तम्येकवचनम्, अकारो न विवक्षितः, प्रत्यय इति विशेष्यमद्याहार्यम् ।यस्मिन् विधि॑रिति तदादिविधिः । तदाह — यादौ प्रत्यये इति । नाऽत्रयप्रत्ययान्ते तीर्थशब्दे परे इति व्याख्यातुं शक्यते,समानतीत्थे वासी॑ति समानतीर्थशब्दात्कृतसमासादेव वासीति तद्धितार्थे यप्रत्ययविधानात् । स च यप्रत्ययोऽन्तरङ्गे सभावे कृते एव भवति ।समर्थानां प्रथमाद्वे॑ति सूत्रेण परिनिष्ठितादेव तद्धितोत्पत्तेर्वक्ष्यमाणत्वात्कृतेऽपि सभावे एकदेशविकृतन्यायेन भूतपूर्वगत्या वा समानतीर्थशब्दसत्त्वात् । अतो युप्रत्ययपरकत्वं समानशब्दस्य कथमित्यत आह — विवक्षिते इति । सतीथ्र्य इति । समाने तीर्थे वासीत्यर्थः । अत्र सामीप्ये सप्तमी । समानशब्दस्त्वेकपर्यायः । तीर्थशब्दो गुरौ, तदाह — एकगुरुक इति । तद्धितार्थे समासप्रवृत्तयो तद्धितं दर्शयति — समानेति ।निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ॑ इत्यमरः ।
Tattvabodhini¶
तीर्थे ये - तीर्थे ये । अकारो न विवक्षितः ।प्रत्यये॑इति विशेष्यं तु व्याख्यानाल्लभ्यते । तेनयस्मिन्विधि॑रिति तदादिविधिरित्याह -यादौ प्रत्यय इति ।
Padamanjari¶
विभाषोदरे ॥ यप्रत्ययान्त इति । पूर्वसूत्रे ये इति यकारादेः प्रत्ययस्य ग्रहणं यप्रत्ययोऽन्ते समीपे यस्य स तथोक्तः । तत्र यदा सभावः, तदा सोदराद्यः, यदा तु न तदा समानोदरे शयितः इति यत् ॥
Prakriyasarvasvam¶
यप्रत्ययान्ते तीर्थे परे समानस्य सः स्यात् । समानगुरौ वासी सतीर्थ्यः ॥