63081: अव्ययीभावे चाकाले

Padacheda: अव्ययीभावे | S | 7 | 1 |

च | S | 0 | 0 |

अकाले | S | 7 | 1 |

Sutrartha


Vasu English Summary

स is substituted for सह in an अव्ययीभाव समास when the second member is not a word denoting time.

Vasu English Translation

स is substituted for सह in an अव्ययीभाव समास when the second member is not a word denoting time. Thus सचक्रंधेहि, मधुरं प्राजः, but सहपूर्वाह्णम् the second member being a time denoting word (2.1.5).

Kashika

अव्ययीभावे च समासेऽकालवाचिन्युत्तरपदे सहस्य स इत्ययमादेशो भवति। सचक्रं धेहि। सधुरं प्राज। अकाल इति किम्? सहपूर्वाह्णम्॥

Siddhanta Kaumudi

सहस्य सः स्यादव्ययीभावे न तु काले । सचक्रम् । काले तु सहपूर्वाह्णम् । सदृशः सख्या ससखि । यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । क्षत्राणां सम्पत्तिः सक्षत्रम् । ऋद्धेराधिक्यं समृद्धिः । अनुरूप आत्मभावः संपत्तिरिति भेदः । तृणमप्यपरित्यज्य सतृणमत्ति । साकल्येनेत्यर्थः । नत्वत्र तृणभक्षणे तात्पर्यम् । अन्ते । अग्निग्रन्थपर्यन्तमधीते साग्नि ॥

Laghu Siddhanta Kaumudi

सहस्य सः स्यादव्ययीभावे न तु काले। हरेः सादृश्यं सहरि। ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम्। चक्रेणयुगपत् सचक्रम्। सदृशः सख्या ससखि। क्षत्राणां संपत्तिः सक्षत्रम्। तृणमप्यपरित्यज्य सतृणमत्ति। अग्निग्रन्थपर्यन्तमधीते साग्नि॥

Balamanorama

अव्ययीभावे चाकाले - अव्ययीभावे । सहस्य सः स्यादिति ।सहस्य सः संज्ञाया॑मित्यतस्तदनुवृत्तेरिति भावः । न तु काले इति । कालवाचके परे सहस्य सो नेत्यर्थः । सचक्रमिति । चक्रेण युगपत्प्रयुक्तमित्यर्थः । सहपूर्वाह्णमिति । समीपादौ अव्ययीभावः । सूत्रे सादृस्येति स्वार्थे ष्यञ् । तद्ध्वनयन्नाह — सदृशः सख्या ससखीति ।सहे॑त्यव्ययं सदृशार्थकमिति भावः । गुणभूतेऽपीति । वचनग्रहणसामर्थ्येनाऽव्ययार्थप्राधान्य एव समासप्रवृत्तेः गुणीभूतसादृश्येऽप्राप्त्या तद्ग्रहणमिति भावः । क्षत्राणां संपत्तिः सक्षत्रमिति । क्षत्रियाणामनुरूपं कर्मेत्यर्थः । सहेत्यव्ययमत्र संपत्तौ वर्तत इति भावः । संपत्तिसमृद्धिशब्दयोः पौनरूक्त्यं परिहरति-ऋद्धेरिति । धनधान्यादेस्त्यिर्थः । अनुरूप इति । अनुरूपः=योग्यः, आत्मभावः=स्वभावः । स्वोचितं कर्मेति यावत् । तृणमपीति ।परऽवरयोगे चे॑ति क्त्वा । पराऽवरत्वं बौद्धमेव । सहशब्दोऽत्राऽपरिवर्जने वर्तते, न तु तृणसहभावेऽपीति भावः । नन्वेवं सति साकल्ये कथमिदमुदाहरणं स्यादित्यत्र आह — साकल्येनेत्यर्थ इति । पात्रे परिविष्टं सकलं भक्षयतीति यावत् । न त्वत्रेति । तृणभक्षणस्याऽप्रसक्तेरिति भावः । अन्ते इति । ‘उदाहरणं वक्ष्यते’ इति शेषः । सूत्रेऽन्तशब्देन अन्तावयवसाहित्यं विवक्षितमित्यभिप्रेत्योदाहरति-अग्निग्रन्थपर्यन्तमित्यादि । अग्निशब्देनाऽग्निचयनप्रतिपादको ग्रन्थो विवक्षितः । तेनाऽन्तावयवेन सहितं ग्रन्थमिति विग्रहः । अग्निग्रन्थपर्यन्तमिति बहुव्रीहिः ।ग्रन्थ॑मित्यन्यपदार्थाध्याहारः । अधीत इति तु समासप्रविष्टम् । अन्तावयवेन अग्निग्रन्थेन सहितं वेदकल्पसूत्रादिभागमधीते इत्यर्थः । अत्र कृत्स्नस्यानध्येतव्यत्वादग्निग्रन्थपर्यन्ताध्ययने तत्कार्त्स्न्यानवगमात्साकल्यात्पृथगुक्तिः ।

Tattvabodhini

अव्ययीभावे चाकाले - चक्रेण युगपदिति । अत्र केचित् — युगपच्चक्रमिति समासेनैव भवितव्यं, युगपच्छब्दस्याप्यव्ययत्वात्, किं तु चक्रेणैककालमित्यादि विग्रहीतुमुचितमित्याहुः । सहपूर्वाह्णमिति । साकल्येऽव्ययीभावः । गुणभूतेऽपीति । यदि सादृश्य इति नोच्येत, तर्हि यत्र सादृश्यं प्रधानमवगम्यते तत्रैव स्यात्, अव्ययार्थप्राधान्यस्याऽव्ययीभावे औत्सिर्गिकत्वादिति भावः । अन्त इति ।इदानीमेतावान् प्रदेशोऽध्येतव्य॑इति यावतो ग्रन्थप्रदेशस्य परिग्रहः कृतस्तदपेक्षा समाप्तिरिहाऽन्तशब्देन विवक्षिता । सा चाऽसकलेऽप्यध्ययने भवतीति साकल्यात्पृथगुच्यते । साग्नीति । अग्निशब्दस्तत्प्रतिपादकग्रन्थे वर्तते । स टच तृतीयान्तो नित्यं समस्यते । न चैवमग्निना सहेति प्रयोगो दुर्लभ इति वाच्यम् । साहित्यमात्रविवक्षायां तत्प्रयोगस्योपपत्तेः । अन्तत्वविवक्षायां तु समासस्य नित्यत्वादग्निग्रन्थपर्यन्तमित्यस्वपदविग्रहो दशितः । यत्तु केचित् — अग्निरन्तोऽस्येति प्रथमान्तेनाऽग्रेरन्तत्वमिति षष्ठन्तेना वा विग्रहः, समासोऽपि प्रथमान्तेन षष्ठन्तेन वेत्याहुः । तन्न । सहशब्दस्यान्तवाचकत्वाऽभावात् । अन्तत्वस्य तु सुतरामलाभात् । सहयुक्ते तृतीयाया न्याय्यत्वाच्च ।सतृणमत्ती॑त्यत्र साकल्यस्येव साग्नीत्यत्रान्तत्वस्यापि साहित्येद्योत्यतया तत्र तृतीयान्तेन समासं स्वीकृत्य इह तत्परित्यागस्य निष्प्रमाणत्वाच्च । अत्रेदं बोध्यम् -॒तदधीते॑इत्यध्वेतृप्रत्ययस्य वैकल्पिकत्वास्ताग्नीत्यत्राऽण्नोक्तः । कृतेऽप्यध्येत्रणिसर्वादेः सादेश्च लुग्वक्तव्यः॑इति वक्ष्यमाणत्वात्साग्नीत्येव रूपमिति॥

Padamanjari

अकालवाचिनीति । स्वरुपग्रहणं न भवति , ग्रन्थान्ताधिके च इत्यत्र ग्रन्थग्रहणात्, तद्धि समुहूर्तमित्यादौ यथा स्यादित्येवमर्थम् । यदि यात्र स्वरुपग्रहणं भवति, तदा मुहूर्तादौ निषेधाभावादनेनैव सिद्धत्वादनर्थकं तत्स्यात् । सचक्रमिति । यौगपद्येऽव्ययीभावः । सपुरमिति । ऋक्पूरब्धूः इत्यकारः समासान्तः । सहपूर्वाह्वमिति । साकल्येऽव्ययीभावः ॥

Praudhamanorama

सहपूर्वाह्णमिति। साकल्येऽव्ययीभावः। गुणभूतेऽपीति। यदि सादृश्य इति नोच्येत ततो यत्र सादृश्यं प्रधानं तत्रैव स्यात्, अव्ययार्थप्राधान्यस्याव्ययीभावे औत्सर्गिकत्वादिति भावः। अन्त इति। इदानीमेतावान्प्रदेशेऽध्येतव्य इति यावतः प्रदेशस्य परिग्रहः कृतस्तदपेक्षया समाप्तिरिहान्तो विवक्षितः। स चासकलेऽप्यध्ययने भवतीति साकल्यात् पृथगुच्यते। अग्निशब्दस्तदर्थे ग्रन्थे वर्तते स तृतीयान्तः समस्यते। यद्यप्यग्निना सहेति प्रयोगार्हमेव तथाऽपिसाहित्यमात्रे तथा। अन्तत्वविवक्षायां तु समसो नित्यः। अत एवाग्निग्रन्थमित्यस्वपदविग्रहो दर्शितः। यत्तु अग्निरन्तोऽस्येति प्रथमान्तेनाग्नेरन्तत्वमिति षष्ठ्यन्तेन वा विग्रह इति प्रथमान्तेन षष्ठ्यन्तेन वा समास इति; तन्न, सहशब्दस्यान्तवाचकत्वाभावात्। अन्तत्वस्य तु सुतरामलाभात्। तस्याध्ययनेऽनन्वयाच्च। सहयुक्ते तृतीयाया न्यायत्वाच्च। सतृणमत्तीत्यत्र साकल्यस्येव साग्नीत्यत्रान्तत्वस्यापि साहित्यद्योत्यतया तत्र तृतीयान्तेन समासं स्वीकृत्येह तत्परित्यागस्य निर्मूलत्वाच्च।

Prakriyasarvasvam

अकाल उत्तरपदेऽव्ययीभावे सहस्य सः स्यात् । सकृष्णमस्ति पार्थस्य । तत्सादृश्यमित्यर्थः । अथानुपूर्व्ये—अनुज्येष्ठं यान्ति । यौगपद्ये—आशा युगपज्जयति साशं जयति । सादृश्यमत्र सदृशपरम् । सकृष्णं पार्थः । अनुरूपं तथात्वं सम्पत्तिः । अनुरूपं क्षत्रियत्वं सक्षत्रियम् । साकल्ये—तॄणेनाप्यन्यूनमत्ति । सतृणमत्ति । अन्तवचने क्रमपर्यन्तं सक्रममधीते । सर्वत्र अव्ययीभावे चाकाले इति सहस्य सः । अकाल इत्युक्तेः सहमध्याह्नमधीत इत्यत्र सत्वं न । मध्याह्नान्तमित्यर्थः ॥

Sutra Prayogas

  • स-राजं (भट्टिकाव्यम्): अव्ययीभावे चा- काले- इति स भावः।