63034: स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु¶
Padacheda: स्त्रियाः | S | 6 | 1 |
पुंवत् | S | 0 | 0 |
भाषितपुँस्काद् | S | 5 | 1 |
अनूङ् | S | | | 6
समानाधिकरणे | S | 7 | 1 |
स्त्रियाम् | S | 7 | 1 |
अपूरणीप्रियाऽऽदिषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
In the room of a feminine word there is substituted an equivalent and uniform masculine form when it is a word which has an actual corresponding masculine and does not end in the feminine affix ऊङ् and is followed by another feminine word in the relation of apposition with it, but not when such subsequent word is an ordinal numeral, nor प्रिय etc.
Vasu English Translation¶
In the room of a feminine word there is substituted an equivalent and uniform masculine form when it is a word which has an actual corresponding masculine and does not end in the feminine affix ऊङ् and is followed by another feminine word in the relation of apposition with it, but not when such subsequent word is an ordinal numeral, nor प्रिय etc. The words of this sutra require a detailed analysis; स्त्रियाः ‘for a feminine word’, पुंवद् “like the masculine”, i.e. a substitute like the masculine takes the room of a feminine word. भाषितपुंस्कात् = भाषितपुमान्येन, by which a masculine is spoken of i.e. a word which has an equivalent masculine, the correspondence must be in the form (आकृति) and the connotation (आयाम) of the two words; that is when both the words are coextensive in their denotation, applying to the same objects, but of different genders. A word which has not the affix ऊङ् is called अनूङ् ॥ That feminine word which does not end in ऊङ् and has a corresponding masculine word, having the same form and connotation, (of course, with the exception of affixes) is called a भाषितपुंस्कादनूङ् स्त्रीशब्दः ॥ The word भाषितपुंस्कादनूङ् is a Bahuvrihi, the fifth affix is not elided anomalously. Of such a भाषितपुंस्कादनूङ् feminine word, there is the substitution of a masculine form. Provided that, the second member is a (समानाधिकरण) i.e. a word in apposition with the first, and (स्त्रियाम्) of the feminine gender : with the exception of an Ordinal numeral (पूरण) and of प्रिय &c.
Thus दर्शनीयभार्यः (= दर्शनीयाभार्या यस्य). Here दर्शनीया is a feminine word having a corresponding masculine word of the same form and force, namely, दर्शनीयः, moreover this feminine does not end in the affix ऊङ्, but in the affix आ; it is followed by another feminine word भार्या which is in the same case with it, and which is not a Numeral nor included in the प्रियादि class; hence this word दर्शनीया is changed to the corresponding masculine word दर्शनीय ॥ So also श्लक्ष्णचूडः, दीर्घजङ्घः ॥ Why do we say स्त्रियाः ‘for a feminine word’? Observe ग्रामणि ब्राह्मणकुलं दृष्टिरस्य = ग्रामणिदृष्टिः ॥ Why do we say which has an appropriate masculine (भाषितपुंस्कः)? Observe खट्वाभार्यः ॥ There is no corresponding masculine of खट्वा ॥ Why do we say “of the same connotation and form समानायामाकृतौ”? Observe द्रोणीभार्यः, the masculine word द्रोण has not the same significance as द्रोणी ॥ The words गर्भिभार्यः, प्रसूतभार्यः, and प्रजातभार्यः are anomalous. Why do we say not ending in ऊङ्? Observe ब्रह्मबन्धूभार्यः ॥ Why do we say ‘both words being in the same case and referring to another person’? Observe कल्याण्यामाता = कल्याणीमाता “the mother of Kalyani”. Why do we say स्त्रियाम् ‘followed by a feminine word’? Observe कल्याणी प्रधानमेषां = कल्याणीप्रधानाः (इमे) ॥ Here the second member प्रधान is a Neuter word. Why do we say ‘not being an ordinal Numeral’? Observe कल्याणी पञ्चमी यासां ताः = कल्याणी पञ्चमारात्रयः, so also कल्याणीदशमाः ॥ The Ordinal Numbers must be the Principal Ordinal and not the secondary Derivative Ordinals. Therefore the rule applies here कल्याणपञ्चमीकः पक्षः ॥ The samasanta affix अप् (5.4.116) also applies to an Ordinal which is a Principal and not what is used as a secondary word : and therefore the above compound does not take अप् ॥ Why do we say not before प्रिय &c. Observe कल्याणीप्रियः ॥
1 प्रिया, 2 मनोज्ञा, 3 कल्याणी, 4 सुभगा, 5 दुर्भगा, 6 भक्ति, 7 सचिवा, 8 स्वा (स्वसा), 9 कान्ता, 10 क्षान्ता, 11 समा, 12 चपला, 13 दुहिता, 14 वामना (वामा)15 तनया, 16 अम्बा ॥ The compound is दृढभक्तिः is anomalous.
Bhashya¶
स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु (2893) (पुंवद्भावाधिकरणम्) (भाषितपुंस्कपदार्थे पक्षद्वयोपस्थापकभाष्यम्) भाषितपुंस्कादिति कथमिदं विज्ञायते -समानायामाकृतौ यद्भाषितपुंस्कम्, आहोस्वित् क्वचिद्यद्भाषितपुंस्कमिति ? किं चातः ? (प्रथमपक्षे दोषभाष्यम्) यदि विज्ञायते -समानायामाकृतौ यद्भाषितपुंस्कमिति, गर्भिभार्यः - प्रसूतभार्यः - प्रजातभार्यः - अत्र न प्राप्नोति ॥ (द्वितीयपक्षे दोषभाष्यम्) अथ विज्ञायते -क्वचिद्यद्भाषितपुंस्कमिति, द्रोणीभार्यः - कुटीभार्यः - पात्रीभार्यः -अत्रापि प्राप्नोति ॥ (सिद्धान्तपक्षोपस्थापकभाष्यम्) अस्तु तर्हि समानायामाकृतौ यद्भाषितपुंस्कमिति । कथं तर्हि गर्भिभार्यः -प्रजातभार्यः - प्रसूतभार्य इति ? कर्तव्योऽत्र यत्नः ॥ (ऊङो निषेधप्रकरणे पाठोपस्थापकभाष्यम्) अथ किमर्थमूङः पृथक् प्रतिषेध उच्यते न यत्रैवान्यः प्रतिषेधस्तत्रैवायमप्युच्येत - न कोपधायाः (37) इत्युक्त्वा ततः ऊङश्च इत्येवोच्येत । तत्रायमप्यर्थः - द्विः प्रतिषेधो न वक्तव्यो भवति ॥ (निषेधप्रकरणे पाठे दोषभाष्यम्) नैवं शक्यम् । पठिष्यति ह्याचार्यः - पुंवत्कर्मधारये प्रतिषेधार्थमिति । स पुंवद्भावो यथेह भवति - कारिका वृन्दारिका -कारकवृन्दारिका, एवमिहापि स्यात् - ब्रह्मबन्धूर्वृन्दारिका - ब्रह्मबन्धूवृन्दारिकेति ॥ (पृथक्प्रतिषेधे दोषनिवारकभाष्यम्) अथ पृथक्प्रतिषेधेऽप्युच्यमाने यस्मादेव स प्रतिषिद्धार्थ आरम्भः कस्मादेवात्र न भवति ? पृथक्प्रतिषेधवचनसार्मथ्यात् । अथवा - अनूङिति तत्रानुवर्तिष्यते ॥ अथवा - नायं प्रसज्यप्रतिषेधः । किं तर्हि ? पर्युदासोऽयं यदन्यदूङ इति । स च प्रतिषेधार्थ आरम्भः ॥ (स्त्रीग्रहणे पक्षत्रयोपस्थापकभाष्यम्) किं पुनरिदम्पुंवद्भावे स्त्रीग्रहणं - स्त्रीप्रत्ययग्रहणम्, उत स्त्रीशब्दस्य ग्रहणम्, आहोस्वित् स्त्र्यर्थस्य ग्रहणम् । कश्चात्र विशेषः ? (6421 प्रथमपक्षे दोषवार्तिकम् ॥ 1 ॥) - पुंवद्भावे स्त्रीग्रहणं स्त्रीप्रत्ययग्रहणं चेत् तत्र पुंवदित्युत्तरपदे तत्प्रतिषेधविज्ञानम् - पुंवद्भावे स्त्रीग्रहणं स्त्रीप्रत्ययग्रहणं चेत् तत्र पुंवदित्युत्तरपदे तत्प्रतिषेधोऽयं विज्ञायेत । कस्य ? स्त्रीप्रत्ययस्य ॥ (प्रथमपक्षदोषसंभवाक्षेपभाष्यम्) किमुच्यते स्त्रीप्रत्ययस्य प्रतिषेध इति, न पुनरन्यदपि किंचित् पुंसः प्रतिपदं कार्यमुच्यते यत्समानाधिकरण उत्तरपदे भाषितपुंस्कस्यातिदिश्येत ? (समाधानभाष्यम्) अनारम्भात् पुंसि । न किंचित् पुंसः प्रतिपदं कार्यमुच्यते यत्समानाधिकरणे उत्तरपदे भाषितपुंस्कस्यातिदिश्येत । तत्र किमन्यच्छक्यं विज्ञातुमन्यदतः स्त्रीप्रत्ययप्रतिषेधात् ॥ (दोषोपपादकभाष्यम्) कथं पुनः पुंवत् इत्यनेन स्त्रीप्रत्ययस्य प्रतिषेधः शक्यो विज्ञातुम् ? वतिनिर्देशोऽयम् । कामचारश्च वतिनिर्देशे वाक्यशेषं समर्थयितुम् । तद्यथा - उशीनरवन्मद्रेषु यवाः सन्ति, न सन्तीति । मातृवदस्याः कलाः सन्ति, न सन्तीति । एवमिहापि पुंवन्न भवति इत्येवं वाक्यशेषं समर्थयिष्यामहे । यथा पुंसः स्त्रीप्रत्ययो न भवति, एवं समानाधिकरणे उत्तरपदे भाषितपुंस्कस्यापि न भवतीति ॥ (6422 प्रथमपक्षस्वीकारे दोषवार्तिकम् ॥ 2 ॥) - प्रातिपदिकस्य च प्रत्यापत्तिः - प्रातिपदिकस्य च प्रत्यापत्तिर्वक्तव्या । एनी भार्या अस्य - एतभार्यः, श्येनी भार्या अस्यश्येतभार्यः ॥ पुंवद्भावेन किं क्रियते ? स्त्रीप्रत्ययस्य निवृत्तिः । अर्थोऽनिवृत्तः - स्त्रीत्वम्, तस्यानिवृत्तत्वात् केन नशब्दो न श्रूयेत ? स्त्रियामित्युच्यमानः प्राप्नोति ॥ (6423 प्रथमपक्षस्वीकारे दोषवार्तिकम् ॥ 3 ॥) - स्थानिवत्प्रसङ्गश्च - स्थानिवद्भावश्च प्राप्नोति । पट्वी भार्या अस्य - पटुभार्यः । पुंवद्भावेन किं क्रियते ? स्त्रीप्रत्ययस्य निवृत्तिः । तस्य स्थानिवद्भावाद्यणादेशः प्राप्नोति ॥ (दोषद्वयोपसंख्यानतात्पर्यभाष्यम्) किमर्थमिदमुभयमुच्यते, न प्रातिपदिकस्य प्रत्यापत्तिरित्येव स्थानिवद्भावोऽपि चोदितः स्यात् ? पुरस्तादिदमाचार्येण दृष्टम् - स्थानिवत्प्रसङ्गश्चेति, तत्पठितम् । तत उत्तरकालमिदं दृष्टम् - प्रातिपदिकस्य प्रत्यापत्तिरिति, तदपि पठितम् । न चेदानीमाचार्याः सूत्राणि कृत्वा निवर्तयन्ति ॥ (6424 दोषोपसंख्यानवार्तिकम् ॥ 4 ॥) - वतण्ड्यादिषु पुंवद्वचनम् - वतण्ड्यादिषु पुंवद्भावो वक्तव्यः । के पुनर्वतण्ड्यादयः ? लुगलुगस्त्रीविषयद्विस्त्रीप्रत्ययाः । लुक् - गार्ग्यो वृन्दारिकाः - गर्गवृन्दारिकाः । पुंवद्भावेन किं क्रियते ? स्त्रीप्रत्ययस्य निवृत्तिः । अर्थोऽनिवृत्तः स्त्रीत्वम्, तस्यानिवृत्तत्वात् केन यशब्दो न श्रूयेत । अस्त्रियामिति हि लुगुच्यते । लुक् ॥ अलुक् - वतण्डी वृन्दारिका - वातण्ड्यवृन्दारिका । पुंवद्भावेन किं क्रियते ? स्त्रीप्रत्ययस्य निवृत्तिः । अर्थोऽनिवृत्तः स्त्रीत्वम्, तस्यानिवृत्तत्वात् लुक् स्त्रियां वतण्डाच्चेति यकारस्य लुक् प्राप्नोति । (एतद्दोषनिवारकभाष्यम्) यदि पुनरयमीकार एव लुगुच्येत । तदीकारग्रहणं कर्तव्यम् । न कर्तव्यम् । क्रियते न्यास एव । प्रश्लिष्टनिर्देशोऽयम् - स्त्री इर् स्त्री, स्त्रियामिति ॥ ईकारविधावप्रत्ययकस्य पाठः क्रियते - वतण्डेति । शार्ङ्गरवादौ वै सप्रत्ययकस्य पाठः करिष्यते । स वै तत्र सप्रत्ययकस्य पाठः कर्तव्यः । अन्तरङ्गत्वाच्च लुक् प्राप्नोति । अलुक् ॥ अस्त्रीविषय - कौण्डीवृसी वृन्दारिका - कौण्डीवृस्यवृन्दारिका । पुंवद्भावेन किं क्रियते ? स्त्रीप्रत्ययस्य निवृत्तिः । अर्थोऽनिवृत्तः स्त्रीत्वम्, तस्यानिवृत्तत्वात् केन यशब्दः श्रूयेत ? अस्त्रियामिति हि ञ्ञ्यो विधीयते । अस्त्रीविषय ॥ द्विस्त्रीप्रत्यय - गार्ग्यायणी वृन्दारिका - गार्ग्यवृन्दारिका । अत्र पुंवद्भावो न प्राप्नोति । किं कारणम् ? भाषितपुंस्कादनूङः समानाधिकरणे उत्तरपदे पुंवद्भावो भवतीत्युच्यते । यच्चात्र भाषितपुंस्कात् परं नैतदुत्तरपदे, यच्चोत्तरपदे, न तद्भाषितपुंस्कात् परमिति ॥ (द्वितीयपक्षोपस्थापकभाष्यम्) अस्तु तर्हि स्त्रीशब्दग्रहणम् ॥ (6425 द्वितीयपक्षे दोषवार्तिकम् ॥ 5 ॥) - स्त्रीशब्दस्य पुंशब्दातिदेश इति चेत् सर्वप्रसङ्गोऽविशेषात् - स्त्रीशब्दस्य पुंशब्दातिदेश इति चेत् सर्वस्य स्त्रीशब्दस्य पुंशब्दातिदेशः प्राप्नोति । अस्यापि प्राप्नोति - अङ्गारका नाम शकुनयः, तेषां कालिकाः स्त्रियः । कालिका वृन्दारिकाः - अङ्गारकवृन्दारिकाः प्राप्नुवन्ति । क्षेमवृद्धयः क्षत्रियाः, तेषां तनुकेश्यः स्त्रियः । तनुकेश्यो वृन्दारिकाः - क्षेमवृद्धिवृन्दारिकाः प्राप्नुवन्ति । हंसस्य वरटा । कच्छपस्य दुली । ऋश्यस्य रोहित् । अश्वस्य वडवा । पुरुषस्य योषित् । किं कारणम् ? अविशेषात् । न हि कश्चित् विशेष उपादीयते एवं जातीयकस्य स्त्रीशब्दस्य पुंशब्दातिदेशो भवतीति । अनुपादीयमाने हि विशेषे सर्वप्रसङ्गः ॥ (द्वितीयदोषोद्भावकवार्तिकावतरणभाष्यम्) कथं च नाम नोपादीयते यावता भाषितपुंस्कादित्युच्यते ? ॥ (6426 द्वितीयपक्षे दोषवार्तिकम् ॥ 6 ॥) - भाषितपुंस्कानुपपत्तिश्च - ह्यर्थे चायं चः पठितः । सर्वो हि शब्दो भाषितपुंस्कात्परः शक्यः कर्तुम् ॥ (तृतीयपक्षोद्भावकं भाष्यम्) अस्तु तर्हि अर्थग्रहणम्। (6427 तृतीयपक्षे दोषवार्तिकम् ॥ 7 ॥) - अर्थातिदेशे विप्रतिषेधानुपपत्तिः - अर्थातिदेशे विप्रतिषेधो नोपपद्यते । पठिष्यति ह्याचार्यो विप्रतिषेधं - पुंवद्भावाद्ह्रस्वत्वं खिद्धादिकेषु इति स विप्रतिषेधो नोपपद्यते । किं कारणम् ? द्विकार्ययोगो हि नाम विप्रतिषेधः । न चात्रैको द्विकार्ययुक्तः, शब्दस्य ह्रस्वत्वम् - अर्थस्य पुंवद्भावः ॥ (तृतीयपक्षे द्वितीयोक्तदोषप्राप्तिबोधकभाष्यम्) किं च - सर्वप्रसङ्गोऽविशेषादिति । सर्वस्य स्त्र्यर्थस्य पुंवदर्थः प्राप्नोति । अस्यापि प्राप्नोति - अङ्गारका नाम शकुनयः, तेषां कलिकाः स्त्रियः । कालिका वृन्दारिकाः - अङ्गारकवृन्दारिकाः प्राप्नुवन्ति ॥ क्षेमवृद्धयः क्षत्रियाः । तेषां तनुकेश्यः स्त्रियः । तनुकेश्यो वृन्दारिकाः - क्षेमवृद्धिवृन्दारिकाः प्राप्नुवन्ति ॥ हंसस्य वरटा । कच्छपस्य दुली । ऋश्यस्य रोहित् । अश्वस्य वडवा । पुरुषस्य योषित् । किं कारणम् ? अविशेषात् । न हि कश्चित् विशेष उपादीयते एवं जातीयकस्य स्त्र्यर्थस्य पुंवदर्थो भवतीति । अनुपादीयमाने हि विशेषे सर्वप्रसङ्गः । कथं नाम नोपादीयते यावता भाषितपुंस्कादित्युच्यते ? भाषितपुंस्कानुपपत्तिश्च भवति । न ह्यर्थेन पौर्वापर्यमस्ति ॥ (विप्रतिषेधानुपपत्तिरूपप्रथमदोषनिवारकमेकदेशिभाष्यम्) अयं तावददोषः - यदुच्यते अर्थातिदेशे विप्रतिषेधानुपपत्तिः इति । नावश्यं द्विकार्ययोग एव विप्रतिषेधः । किं तर्हि ? असंभवोऽपि । स चात्रास्त्यसंभवः । कोसावसम्भवः ? पुंवद्भावोऽभिनिर्वर्तमानो ह्रस्वत्वस्य निमित्तं विहन्ति, ह्रस्वत्वमभिनिर्वर्तमानं पुंवद्भावं बाधते - एषोऽसंभवः । सत्यसंभवे युक्तो विप्रतिषेधः ॥ (एकदेशिनो द्वितीयपक्षस्थापकभाष्यम्) अयं तर्हि दोषः - सर्वप्रसङ्गोऽविशेषादिति । तस्मादस्तु स एव मध्यमः पक्षः । (द्वितीयपक्षे दोषवारकभाष्यम्) ननु चोक्तम् - स्त्रीशब्दस्य पुंशब्दातिदेश इति चेत्सर्वप्रसङ्गोऽविशेषादिति । नैष दोषः । समासनिर्देशोऽयम्, भाषितपुंस्कादनूङ्यस्मिन् सोऽयम् - भाषितपुंस्कादनूङिति । यद्येवं लुक् प्राप्नोति । निपातनान्न भविष्यति । अथवा - अलुक् प्रकृतः सोऽनुवर्तिष्यते ॥ (प्रथमपक्षोपस्थापकभाष्यम्) कथं पुनः अनूङ् इत्यनेन स्त्रीप्रत्ययस्य ग्रहणं शक्यं विज्ञातुम् ? नञ्ञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः । नञ्ञ्युक्ते चान्यस्मिंस्तत्सदृशे कार्यं विज्ञायते तथाह्यर्थो गम्यते । तद्यथा - अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृश आनीयते नासौ लोष्टमानीय कृती भवति । एवमिहापि अनूङ् इति ऊङ्प्रतिषेधादन्यस्मिन् ऊङ्सदृशे कार्यं विज्ञास्यते । किं चान्यत् अनूङ् ऊङ्सदृशम् ? स्त्रीप्रत्ययः इति ॥ (प्रथमे प्राप्तदोषवारकभाष्यम्) एवमपि इडबिड् वृन्दारिका - ऐडबिडवृन्दारिका, पृथ्वृन्दारिका - पार्थवृन्दारिका, उशिक् वृन्दारिका - औशिजवृन्दारिका, दरद् वृन्दारिका - दारद्वृन्दारिका - अत्र पुंवद्भावो न प्राप्नोति ॥ कर्तव्योऽत्र यत्नः ॥ (सन्देहस्थलनिर्णयभाष्यम्) अथेह कथं भवितव्यम् - पट्वीमृद्व्यौ भार्ये अस्य - पट्वीमृदुभार्यः, आहोस्वित् पटुमृदुभार्यः ? पट्वीमृदुभार्य इति भवितव्यम् । पुंवद्भावः कस्मान्न भवति ? भाषितपुंस्कादित्युच्यते । ननु च भोः पटुशब्दो मृदुशब्दश्च पुंसि भाष्येते । समानायामाकृतौ यद्भाषितपुंस्कम्, आकृत्यन्तरे चैतौ भाषितपुंस्कौ । समानायामाकृतावपि भाषितपुंस्कौ । कथम् ? आरभ्यतेऽत्र मतुब्लोपः । एवं तर्हि भाषितपुंस्कादनूङः समानाधिकरण उत्तरपदे पुंवद्भवति - इत्युच्यते । यश्चात्र भाषितपुंस्कादनूङ् समानाधिकरण उत्तरपदे, कृतस्तस्य पुंवद्भावः । यस्य चाकृतः, नासौ भाषितपुंस्कादनूङ् समानाधिकरण उत्तरपदे ॥ (6428 उपसंख्यानवार्तिकम् ॥ 8 ॥) - पूरण्यां प्रधानपूरणीग्रहणम् - पूरण्यां प्रधानपूरणीग्रहणं कर्तव्यम् । प्रधानं या पूरणी तत्रेति वक्तव्यम् । इह मा भूत् - कल्याणी पञ्चमी अस्य पक्षस्यकल्याणपञ्चमीकः पक्ष इति ॥ अथेह कथं भवितव्यम् - कल्याणी पञ्चमी आसां रात्रीणामिति ? कल्याणीपञ्चमा रात्रय इति भवितव्यम् । रात्रयोऽत्र प्रधानम् ॥
Kashika¶
भाषितः पुमान् येन समानायामाकृतावेकस्मिन् प्रवृत्तिनिमित्ते स भाषितपुंस्कः शब्दः। तदेतदेवं कथं भवति? भाषितः पुमान् यस्मिन्नर्थे प्रवृत्तिनिमित्ते स भाषितपुंस्कशब्देनोच्यते, तस्य प्रतिपादको यः शब्दः सोऽपि भाषितपुंस्कः। ऊङोऽभावोऽनूङ्, भाषितपुंस्कादनूङ् यस्मिन् स्त्रीशब्दे, स भाषितपुंस्कादनूङ् स्त्रीशब्दः। बहुव्रीहिरयम्, अलुग्। निपातनात् पञ्चम्याः। तस्य भाषितपुंस्कादनूङः स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवति। समानाधिकरण उत्तरपदे स्त्रीलिङ्गे पूरणीप्रियादिवर्जिते। दर्शनीयभार्यः। श्लक्ष्णचूडः। दीर्घजङ्घः। स्त्रिया इति किम्? ग्रामणि ब्राह्मणकुलं दृष्टिरस्य ग्रामणिदृष्टिः। भाषितपुंस्कादिति किम्? खट्वाभार्यः। समानायामाकृताविति किम्? द्रोणीभार्यः। कथं गर्भिभार्यः, प्रसूतभार्यः, प्रजातभार्य इति? कर्तव्योऽत्र यत्नः। अनूङिति किम्? ब्रह्मबन्धूभार्यः। समानाधिकरण इति किम्? कल्याण्या माता कल्याणीमाता। स्त्रियामिति किम्? कल्याणी प्रधानमेषां कल्याणीप्रधाना इमे। अपूरणीति किम्? कल्याणी पञ्चमी यासां ताः कल्याणी पञ्चमा रात्रयः। कल्याणीदशमाः॥ प्रधानपूरणीग्रहणं कर्तव्यम्॥ इह मा भूत् — कल्याणपञ्चमीकः पक्ष इति। अप् पूरणीप्रमाण्योः (५.४.११६) इत्यत्रापि प्रधानपूरणीग्रहणमेवेत्यप्प्रत्ययो न भवति। अप्रियादिष्विति किम्? कल्याणीप्रियः॥ प्रिया। मनोज्ञा। कल्याणी। सुभगा। दुर्भगा। भक्ति ः। सचिवा। अम्बा। कान्ता। क्षान्ता। समा। चपला। दुहिता। वामा। प्रियादिः। दृढभक्ति रित्येवमादिषु स्त्रीपूर्वपदस्याविवक्षितत्वात् सिद्धमिति समाधेयम्॥
Siddhanta Kaumudi¶
भाषितपुंस्कादनूङ् ऊङोऽभावो यस्यामिति बहुव्रीहिः । निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात्समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः । गोस्त्रियोः - (SK656) इति ह्रस्वः । चित्रा गावो यस्येति लौकिकविग्रहे । चित्रा अस् गो अस् इत्यलौकिकविग्रहे । चित्रगुः । रूपवद्भार्यः । चित्रा जरती गौर्यस्येति विग्रहे अनेकोक्तेर्बहूनामपि बहुव्रीहिः । अत्र केचित् । चित्राजरतीगुः । जरतीचित्रागुर्वा । एवं दीर्घातन्वीजङ्घः । तन्वीदीर्घाजङ्घः । त्रिपदे बहुव्रीहौ प्रथमं न पुंवत् । उत्तरपदस्य मध्यमेन व्यवधानात् । द्वितीयमपि न पुंवत् । पूर्वपदत्वाभावात् । उत्तरपदशब्दो हि समासस्य चरमावयवे रूढः । पूर्वपदशब्दस्तु प्रथमावयवे रूढ इति वदन्ति । वस्तुतस्तु नेह पूर्वपदमाक्षिप्यते । आनङ् ऋतः - (SK921) इत्यत्र यथा । तेनोपान्त्यस्य पुंवदेव । चित्राजरद्गुरित्यादिः । अत एव चित्राजरत्यौ गावौ यस्येति द्वन्द्वगर्भेऽपि चित्राजरद्गुः इति भाष्यम् । कर्मधारयपूर्वपदे तु द्वयोरपि पुंवत् । जरच्चित्रगुः । कर्मधारयोत्तरपदे तु चित्रजरद्गवीकः । स्त्रियाः किम् । ग्रमाणि कुलं दृष्टिरस्य ग्रामणिदृष्टिः । भाषितपुंस्कात् किम् । गङ्गाभार्यः । अनूङ् किम् । वामोरूभार्यः । समानाधिकरणे किम् । कल्याण्याः माता कल्याणीमाता । स्त्रियां किम् । कल्याणी प्रधानं यस्य स कल्याणीप्रधानः । पूरण्यां तु ॥
Laghu Siddhanta Kaumudi¶
उक्त पुंस्कादनूङ् ऊङोऽभावोऽस्यामिति बहुव्रीहिः। निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक्। तुल्ये प्रवृत्तिनिमित्ते यदुक्त पुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः। गोस्त्रियोरिति ह्रस्वः। चित्रगुः। रूपवद्भार्यः। अनूङ् किम्? वामोरूभार्यः॥ पूरण्यां तु -
Balamanorama¶
स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु - स्त्रियाः पुंवत् ।भाषित पुंस्कादनू॑ङिति समस्तमेकपदं ‘स्त्रिया’ इति षष्ठन्तस्य विशेषणमित्यभिप्रेत्य व्याचष्टे — भाषितपुंस्कादिति । ‘अनू’ ङित्यस्य व्याख्यानम्-ऊङोऽभाव इति । अर्थाभावेऽव्ययीभावः, नञ्तत्पुरुषो वा ।भाषितपुंस्का॑दिति दिग्योगे पञ्चमी । ‘पर’ इति प्रथमान्तमध्याहार्यम् । तथाच भाषितपुंस्कात् पराऽनूङ् यस्येति विग्रहे बहुव्रीहिरिति फलति । ननु समासे सति पञ्चम्या सुक्प्रसङ्ग इत्यत आह — निपातनादिति । इदमुपलक्षणम् । निपातनादप्रथमान्तस्यापि बहुव्रीहिः, परशब्दलोपश्चेत्यपि बोध्यम् । यद्वा अत एव निपातनादप्रयुज्यमानेऽपि परशब्दे तदर्थे गम्ये पञ्चमी । नन्वेवमपि ‘स्त्रिया’ इति षष्ठन्तस्यभाषितपुंस्कादनू॑ङिति यदि विशेषणं स्यात्तर्हि भाषितपुंस्कादनूङ॑ इति षष्ठी श्रूयेतेत्यत आह — षष्ठआश्च लुगिति ।निपातना॑दित्यनुषज्यते । भाषितः पुमान् येन तद्भाषितपुंस्कं, तदस्यास्तीति अर्शाअद्यच् । पुंस्त्वे स्त्रीत्वे च एकप्रवृत्तिनिमित्तकमिति यावत् ।तृतीयादिषु भाषितपुंस्क॑मित्यत्र व्याख्यातमेतत् । तदाह — तुल्ये प्रवृत्तिनिमित्ते इति । स्त्रीवाचकस्य शब्दस्येति । स्त्रीलिङ्गस्येत्यर्थः । ‘स्त्रिया’ इति षष्ठन्तं न स्त्रीप्रत्ययपरमिति भावः ।पुंव॑दिति रूपातिदेशः । पुंस इव पुंवदिति षष्ठन्ताद्वतिः । तदाह — पुंवाचकस्येव रूपमिति ।स्त्रिया॑मिति सप्तम्यन्तमपि न स्त्रीप्रत्ययपरं किन्तु स्त्रीलिङ्गपरम् । तच्च ‘अलुगुत्तरपदे’ इत्यधिकृते उत्तरपदेऽन्वेति । तदाह — स्त्रीलिङ्गे उत्तरपदे इति ।अपूरणीप्रियादिइआ॑त्येतद्व्याचश्टे- न तु पूरण्यां प्रियादौ च परत इति । पूरणीति स्त्रीलिङ्गनिर्देशात्स्त्रीलिङ्गः पूरणप्रत्ययान्तो विवक्षित इति ज्ञेयम् । तुल्ये प्रवृत्तिनिमित्ते इति कम् । कुटीभार्यः । अत्र पुंवत्त्वं न भवति, कुटीशब्दो घटे पुंलिङ्गः, गेहे तु स्त्रीलिङ्ग इति प्रवृत्तिनिमित्तभेदात् ।स्त्रीप्रत्ययः पुंवत्स्या॑दित्युक्ते तु स्त्रीप्रत्ययस्य लोपः पर्यवस्येत् । ततश्च पट्वी भार्या यस्य स पटुभार्य इत्यत्र उत्तरपदं परनिमित्तमाश्रित्य ङीषो लोपे तस्य ‘अचः परस्मिन्’ इति स्थानिवत्त्वादुकारस्य यण्स्यात् । ह्रस्व इति । चित्रा गावो यस्येति विग्रहे बहुव्रीहिसमासे सुब्लुकि सति अनेकमिति प्रथमान्तनिर्दिष्टतया, विग्रहे नियतविभक्तिकतया वा उपसर्जनत्वे सति, चित्रगोशब्दे ओकारस्यगोस्त्रियो॑रित्युकारो ह्रस्व इत्यर्थः । ननु चित्रा गाव इति लोकिकसमासाभ्युपगमे सुपो लुकः प्राक् चित्रा अस इत्यत्र पूर्वसवर्णदीर्घे, गो अस् इत्यत्र पूर्वरूपे च एकादेशे कृते तस्य परादिवत्त्वेन असो लुकि चित्रशब्दे अकारो न श्रूयेत, चित्रगुरित्यत्र उकारश्च न श्रूयेत, पूर्वान्तवत्त्वे तु परिशिष्टस्य सकारमात्रस्य सुप्त्वाऽभावाल्लुक् न स्यादित्यत आह — चित्रा अस् इति । गोशब्दस्य स्त्रीलिङ्गत्वात्तद्विशेषणत्वाच्चित्रेति स्त्रीलिङ्गनिर्देशः ।प्रत्ययोत्तरपदयोश्चे॑ति सूत्रभाष्यरीत्याअन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते॑ इति न्यायात्प्रागेव पूर्वसवर्णदीर्घात्सुब्लुगिति भावः । चित्रगुरिति । बहुव्रीहौ ह्रस्वत्वे चित्राशब्दस्य पुंवत्त्वमिति भावः । रूपवद्भार्य इति । रूपवती भार्या यस्येति विग्रहः । अत्र उपसर्जनह्रस्वः । ‘रूपवती’ शब्दस्य पुंवत्त्वम् । ननु चित्रा जरती गौर्यस्येति विग्रहे कथं त्रिपदबहुव्रीहिः, ‘सुप्सुपे’ त्येकत्वस्य विवक्षतत्वादित्यत आह — अनेकोक्तेरिति । शेषग्रहणात्प्रथमान्तमिति लब्धम् । एकस्य प्रथमान्तस्य समासो नोपपद्यते, समास इत्यन्वर्थसंज्ञाविज्ञानात्, ततश्चार्थादनेकं प्रथमान्तमिति सिद्धे पुनरनेकग्रहणाद्द्विबहूनां प्रथमान्तानां बहुव्रीहिरिति भाष्ये स्पष्टमिति भावः । अत्रेति । त्रिपदबहुव्रीहावित्यर्थः । चित्राजरतीगुः जरतीचित्रागुर्वेति । गां प्रतिचित्रात्वस्य जरतीत्वस्य च विशेषणत्वाऽविसेषादन्यतरस्यसप्तमीविशेषणे बहुव्रीहौ॑ इति पूर्वनिपात इति भावः । एवं दीर्घेति । दीर्घे तन्व्यौ जङ्घे यस्येति विग्रहः । उभयत्रापि पूर्वमध्यपदयोः पुंवत्त्वमाशह्ख्याह — त्रिपदे इति । उत्तरपदस्येति । समासचरमावयवपदस्य उत्तरपदत्वात्ततृतीयमेव पदमत्रोत्तरपदं वाच्यम् । तत्परकत्वं च मध्यमपदस्यैव, नतु प्रथमपदस्यापि, तस्य मध्यमेन पदेन व्यवधानादित्यर्थः । ननु तर्हि मद्यमपदस्य पुंवत्त्वं दुर्वारम्, उत्तरपदपरकत्वसत्त्वादित्यत आह — द्वितीयमपि न पुंवदिति । पूर्वपदत्वाभावादिति । उत्तरपदेन पूर्वपदमाक्षेपाल्लब्यते । समासप्रथमावयवपदमेव पूर्वपदम्, नतु मध्यमावयवपदमपीति भावः । ननु मध्यमपदापेक्षया प्रथमपदस्य पूर्वपदत्वमस्ति । मध्यमपदस्य च प्रथमपदापेक्षया उत्तरपदत्वमस्तीत्यत आह — उत्तरपदशब्दो हीति । रूढ इति । वैयाकरणसमयसिद्ध इत्यर्थः । इति वदन्तीति । एवंप्रकारेण केचिद्वदन्तीत्यन्वयः । तत्र प्रथमपदस्य त्रिपदबहुव्रीहौ नास्ति पुंवत्त्वमिति युज्यते,उत्त्रपदपरकत्वाऽभावात् । मध्यमपदस्य तु पूर्वपदत्वाभावेऽप्यस्त्येव पुंवत्त्वम्, स्त्रिया पुंवदित्यत्र तु पूर्वपदस्याश्रवणात्, अनुवृत्त्यभावाच्च, किन्तु ‘उत्तरपदे’ इत्यनेन पूर्वपदस्य पुंवत्त्वमित्यर्थाद्गम्यत इति वक्तव्यम् । तदपि न सम्भवतीत्यत आह-नेह पूर्वपदमाक्षिप्यत इति । इह=॒स्त्रियाः पुंव॑दित्यत्र,उत्तरपदे इत्यनुवृत्तेन पूर्वपदं नाक्षिप्यते, नाऽर्थाद्गम्यत इत्यर्थः । कुत इत्यत आह — आनङृत इत्यत्र यथेति । ऋदन्तानां द्वन्द्वे आनङ् स्यात् उत्तरपदे इति तदर्थः । तत्र चतुर्णा द्वन्द्वेहोतृपोतृनेष्टोद्गातारः॑ इत्युपान्त्यस्य नेष्टुरानङुदाहृतःसमर्थः पदविधि॑रित्यत्र भाष्ये । तत्रोत्तरपदेन पूर्वपदाक्षेपनियमे नेष्टुरूपान्त्यस्य पूर्वपदत्वाऽभावादानङ् नोपपद्येत । तस्मान्नावश्यमुत्तरपदे विहितं कार्यं पूर्वपदस्यैवेति नियम इत्यर्थः । तेनेति । पूर्वपदाऽनाक्षेपेणेत्यर्थः । उपान्त्यस्येति । अन्त्यस्य समीपमुपान्त्यम् । चरमावयवसमीपवर्तिनो मध्यमस्येत्यर्थः । पुंवदेवेति ।रूप॑मिति शेषः ।तदेव दर्शयति-चित्राजरद्गुरिति । अत्र चित्राशब्दस्य न पुंवत्त्वम्, मध्यमेन व्यवधानात्, उत्तरपदपरकत्वाऽभावाच्चेति भावः । इत्यादीति । जकतीचित्रगुः । तन्वीदीर्घजङ्घः । ननुआनङृतः॑इत्यत्रहोतृपोतृनेष्टोद्गातारः॑ इति भाष्योदाहरणान्मास्तु पूर्वपदाक्षेपः ।स्त्रियाः पुंव॑दिति सूत्रे तदनाक्षेपे किं प्रमाणमित्यत आह — अत एवेति ।स्त्रियाः पुंव॑दित्यत्रापि पूर्वपदाऽनाक्षेपादित्यर्थः । द्वन्द्वगर्भेऽपी॑त्यनन्तरंबहुव्रीहा॑विति शेषः । भाष्यमिति । यद्यपि कृत्स्नभाष्यपरिशोधनायां चिंत्राजरद्गुरित्युदाहरणं भाष्ये क्वापि न दृश्यते, तथापिचित्राजरद्गु॑रितीत्यनन्तरंप्रयाग॑मिति शेषः ।भाष्य॑मित्यस्य-॒पट्वीमृदुभार्य॑ इति प्रकृतसूत्रस्थभाष्यमित्यर्थः ।सूचयती॑ति शेषः ।स्त्रियाः पुंव॑दिति प्रकृतसूत्रभाष्ये पट्व्यौ मृद्व्यौ भार्ये यस्येति द्वन्द्वगर्ङबहुव्रीहौ पट्वीमृदुभार्यं इत्युदाहृतम् । तत्र पट्वीमृदुशब्दात्मको द्वन्द्वः पूर्वपदं, न तस्य भाषितपुंस्कत्वमस्तीति न पुंवत्त्वे, द्वन्द्वस्य परवल्लिङ्गतानियमात् । तत्र द्वन्द्वे पूर्वपदस्य पट्वीशब्दस्य तु न पुंवत्त्वं, मध्यमपदेन व्यवधानादुत्तरपदपरकत्वाऽभावात् । मद्यमपदस्यानुत्तरपदत्वादसमानाधिकरणत्वाच्च न तस्मिन्परे पुंवत्त्वसंभवः । मृद्वीशब्दस्य तु केवलस्य भाषुतपुंस्कत्वादुत्तरपदपरकत्वाच्च पुंवत्त्वमिति तदाशयः ।स्त्रियाः पुंव॑दित्यत्र पूर्वपदाक्षेपे तु मृदुशब्दस्य पूर्वपदत्वाऽभावेन पुंवत्त्वाऽप्रवृत्तेः तदसङ्गतिः स्पष्टैव । ततश्च ‘पट्वीमृदुभार्यं’ इति भाष्यंचित्राजरद्गु॑रिति प्रयोगं गमयतीत्यर्थः । कर्मधारयेति । जरती चासौ चित्रा चेति कर्मधारयः ।पुंवत्कर्मधारये॑ति जरतीशब्दस्य पुंवत्त्वान्ङीपो निवृत्तिः । ततस्च जरच्चित्रा गौर्यस्येति कर्मधारयपूर्वपदत्वे बहुव्रीहौ पूर्वपदस्य जरच्चित्राशब्दस्यस्त्रियाः पुंव॑दिति पुंवत्त्वाट्टापो निवृत्तिरिति भावः । कर्मधारयोत्तरेति । जरती चासौ गौश्चेति कर्मधारयेगोरतद्धितलुकी॑ति टचि अवादेशेपुंवत्कर्मधारये॑ति जरतीशब्दस्य पुंवत्त्वे ङीपो निवृत्तौ टित्त्वान्ङीपि जरद्गवीशब्दः । ततश्चित्रा जरद्गवी यस्येति कर्मधारयोत्तरपदके बहुव्रीहौनद्यृतश्चे॑ति कपि चित्राशब्दस्यस्त्रियाः पुंव॑दिति पुंवत्त्वे ‘चित्रजरद्गवीक’ इति रूपमित्यर्थः । स्त्रियाः किमिति । षष्ठन्तस्य प्रश्नः । ग्रामणिदृष्टिरिति । ग्रामणीशब्दस्य नपुंसकत्वे ‘ह्रस्वो नपुंसके’ इति ह्रस्वे ग्रामणिशब्द इदन्तः । कुलशब्दो नपुंसकत्वस्फोरणार्थः । दृष्टिशब्देन नेत्रस्थानापन्नं विवक्षितम् । ग्रामणि दृष्टिरस्येत्येव विग्रहः । ‘स्त्रियाः’ इत्यस्याऽभावे ग्रामणीशब्दस्य पुंवत्त्वे नपुंसकह्रस्वनिवृत्तौग्रामणीकुल॑मिति स्यादिति भावः । गङ्गाभार्य इति । अत्र गह्गाशब्दस्य नित्यस्त्रीलिङ्गतया बाषितपुंसकत्वाऽभावान्न पुंवत्त्वमिति भावः । वामोरूभार्य इति । वामौ=सुन्दरौ ऊरू यस्या इति बहुव्रीहिः ।संहितशफलक्षणबामादेश्चेत्यूङ् । तदन्तस्य पुंवत्त्वे ऊङो निवृत्तौ ‘वामोरुभार्य’ इति पूर्वपदमुदन्तमेव स्यादिति भावः । स्त्रियां किमिति । सप्तम्यन्तस्य प्रश्नः । कल्याणीप्रदान इति । अत्र प्रधानशब्दस्य नित्यनपुंसकत्वात् कल्याणीशब्देन सामानाधिकरण्येऽपि स्त्रीलिङ्गत्वात्तस्मिन्परे पुंवत्त्वं नेति भावः । पूरण्यां त्विति ।पुंवत्त्वानिषेधोदाहरणे विशेषो वक्ष्यते॑ इति शेषः ।
Tattvabodhini¶
स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु - स्त्रियाः पुंवत् । निपातनादिति । एतच्च पूर्वत्रापि योज्यम् । अन्यथा व्यधिकरणानां बहुव्रीहिः स्वरसतो न सिध्येत् । लुगति ।अनु॑ङिति प्रथमान्तम् । षष्ठर्थे प्रथमेति हरदत्तऋ । एवं च सूत्रे केषांचित् अनूङः समानाधिकरणे॑ इति षष्ठन्तपाठोऽसांप्रदायुक इति भावः । तुल्ये इत्यादि ।भाषितः पुमान् यस्मिन् इत्यादिव्याख्यानादयमर्थो लभ्यते इतितृतीयादिषु भाषितपुंस्क॑मित्यत्रोपपदितम् । यद्यत्रभाषितः पुमान्येन तद्भाषितपुंस्क॑मित्युच्येत तर्हि कुटीभार्यः द्रोणीभार्य इत्यादावतिप्रसङ्गः स्यात् । भवति हि कुटशब्दो घटे पुंलिङ्गो, गेहे तु स्त्रीलिङ्गः । द्रोणशब्दस्तु परिमाणविशेषे पुंलिङ्गो, गवादन्यां तु स्त्रीलिङ्ग इति । ऊङोऽभावा यत्रेति । यदि तु ऊङन्योऽनूङिति पर्युदासः स्यात्तर्हि टाबाद्यन्तमेव गृह्रेत । ततः किमिति चेत्, दरदोऽपत्यं दारदः ।॒व्द्यञ्मगधे॑त्यण्, तस्य स्त्रियाम्अणश्चे॑ति लुक् । दरद् । सा चासौ वृन्दरिका च दारदवृन्दारिकेत्यादि न सिध्येत् । न ह्यत्र दर्शनीया भार्या यस्य स दर्शनीयभार्य इत्यादाविव स्त्रीप्रत्ययः कश्चिदस्तीति भावः । ननुन कोपधाया ऊङश्चे॑त्येव सूत्र्यतामिते चेन्न, बाधकबाधनार्थेनपुंवत्कर्मधारये॑त्यनेन वामोरूभार्येति कर्मधारये पुंवद्भावपत्तेः । पृथक्प्रतिषेधसामर्थ्यात्सिद्धान्ते तु न दोषः ।स्तरिया॑इत्यस्य स्त्रीप्रत्ययपरतां वारयति — स्त्रीवाचकस्येति ।स्त्रीप्रत्ययस्य पुंवद्भावः॑ इत्युक्ते तु स्त्रीप्रत्ययलोप इत्येवार्थः पर्यवस्यतीति दारदवृन्दारिकेति न सिध्येत् । किं चपटुभार्य॑इत्यत्र उत्तरपदनिमित्ताया ङीषो निवृत्तेःअचः परस्मिन्नि॑ति स्थनिवद्भावाद्यण् स्यात् । अपि च वतण्डस्यापत्यं स्त्री वतण्डी ।वतण्डाच्चे॑ति यञ्,लुक्स्त्रिया॑मिति तस्य लुक् । शाङ्र्गरवादित्बान्ङीन् । वतण्डी चासौ वृन्दारिका च वातण्डवृन्दारिका । अत्र पुंवद्भावेन ङीनो निवृत्तावपि अर्थगतस्य स्त्रीत्वस्यानिवृत्तत्वात्लुक् स्त्रिया॑ मिति यञो लुक् प्रसज्येतेति भावः । ह्रस्व इति ।अनेक॑मिति प्रथमानिर्दिष्टत्वात्प्रथमानिर्दिष्ट॑मिति,एकविभक्ति चे॑ति वा गोशब्दस्योपसर्जनत्वादिति भावः । चित्रा असिति ।अन्तरङ्गानपी॑ति न्यायादिह पूर्वसवर्णदीर्घो न प्रवर्तते । अन्यथा एकादेशस्य परादित्वेन सुपो लुकि चुत्रगुरित्यत्र अकारो न लभ्येतेति भावः । नेहेति । अत्रैव सूत्रे पठ्वीमृव्द्यौ भार्ये अस्येति द्वन्द्वगर्भबहुव्रीहौपट्वीमृदुभार्य॑इति भाष्योदाहरणादिति भावः । आनङिति । तथा चसमर्थ॑सूत्रे भाष्येहोतृपोतृनोष्टोद्गातार॑इत्यत्र चतुर्णां द्वन्द्वे तृतीयस्यानङ् उदाहृतः । पूर्वपदाक्षेपे तु स न सिध्येत् । न ह्यत्र नेष्टा पूर्वपदं, होतु रेव पूर्वपदत्वादिति भावः । अतएवेति । पूर्वपदाऽनापक्षेपादेवेत्यर्थः । चित्राजरदिति । द्वन्द्वन्तर्गतजरच्छब्दस्योत्तरपदत्वेऽप्यसामानाधिकरण्यान्न टापो निवृत्तिः । न चैवमपि द्वन्द्वात्मकस्य पूर्वपदस्य समानाधिकरणोत्तपदपरत्वात्पुंवद्भावे टाब्निवृत्तिर्दुर्वारेति वाच्यं, द्वन्द्वान्तर्गतचित्रजरच्छब्दयोः स्त्रीप्रत्ययप्रकृत्योः प्रत्येकं भाषितपुंस्कत्वेऽपि द्वन्द्वात्मकस्य पूर्वपदस्याऽतथात्वात् । द्वयोरपीति । पूर्वपदान्तर्गतमुत्तरपदमाश्रित्य प्रथमास्यपि पुंवद्भाव इति भावः । जरच्चित्रेति । पूर्वकालैके॑ति समासः । लिङ्गविशिष्टपरिभाषया जरद्ग्रहणेन जरती शब्दस्यापि ग्रहणात् । चित्रजरद्गवीक इति । जरती चासौ गौश्च जरद्गवी ।गोरतद्धिते॑ति टचि टित्त्वान्ङीप् । चित्रा जरद्गवीस यस्येति बहुव्रीहौनद्यृतश्चे॑ति वक्ष्यमाणः कप् । वामोरूभार्य इति ।संहितशफलक्षणवामादेश्चे॑त्यूङ् । प्रधानमिति । भावल्युडन्तं नित्यनपुंसकम् । पञ्चमीति ।तस्य पूरणे॑इति डट् ।नान्तादसङ्ख्यादेः॑ इति डटो मडागमः ।टिड्ढे॑ति ङीप् ।
Padamanjari¶
अत्र त्रयः पक्षाः सम्भवन्ति - स्त्रिया इति स्रीप्रत्ययग्रहणम्, अर्थग्रहणम् शब्दग्रहणं चेति । तत्र यदि स्रीग्रहणं स्वर्यते, स्वरितेनादिकारावगतिर्भवतीति स्त्र्यधिकारविहिताष्टाबादयो गृह्यन्त, यथा - गोस्रियोरुपसर्जनस्य इत्यत्र तदा चायमर्थो भवति - भाषितपुंस्कात्परे टाबादिस्रीप्रत्यया यथा पुंसि न भवन्ति तथा उतरपदे न भवन्तीति । नन्वश्रुतक्रियापदेषु वाक्येषु भवतीत्यध्याहारोऽन्यत्र दृष्टः उच्यते वतिनिर्देशेषूपमाने सता, असता वा या प्रसिद्धा सोपमेयेऽतिदेश्या यथा - उशीनरवन्मद्रेषु यवाः सन्ति, न सन्तीति ततः पुंसि स्रीप्रत्ययस्याभावात्स्रियामप्यभावोऽतिदिश्यत इति न भविष्यतित्येव वाक्यशेषः परिकल्पनीयः, तदा त्वनूङ्त्यिनेन सामानाधिकरण्यात् स्रियाः इति प्रथमार्थे षष्ठी, पुंवदिति सप्तमीसमर्थाद्वतिः । तत्र च प्रगेव समासाद्विग्रद्दवाक्य एव स्रीप्रत्ययस्य कृतत्वान्न तस्योतरपदे परतः न क्रोडादिबह्वचः इतिवत् प्रगभावः शक्यः प्रतिपादयितुमिति लुक् तद्धितलुकि इत्यादिवत्कृतस्य निवृत्तिरेव प्रतिपाद्या । विग्रहवाक्य एव कृताः स्रीप्रत्यया उतरपदे परतो निवर्तन्ते, लुप्यन्त इत्यर्थः । यदा तु पुंवत् स्रीत्वयुक्तं द्रव्यं स्रीशब्देनोच्यते, तदार्थग्रहणं भवति, स्रियाः स्त्र्यर्थस्य पुंस इति पुमर्थस्येवल कार्यं भवतीत्यर्थः । तदा च षष्ठीसमार्थाद्वतिः । यदा तु स्त्र्यर्थवाची शब्दः स्रीशब्देनोच्यते तदा शब्दग्रहणम्, स्रियाः - स्रीलिङ्गस्य शब्दस्य पुंवद् रुपं भवतीति रुपतिदेशः, वृत्तिविषये पुंशब्दसम्बन्धिनः कार्यस्यातिदेष्टव्यस्याभावात् । तत्र च प्रत्यासतेः पुंभावभाजः स्रीशब्दस्य प्रयोगान्तरे पुमांसमाचक्षाणस्य यद्रूपं तदेवातिदिश्यते, न यस्य कस्यचित् । अनूङ् इति षष्ठ।ल्र्थे प्रथमा, तत्रार्थग्रहणे स्रीशब्दे मुख्यः । अर्थस्य तूतरपदेन पौर्वापर्यमनूङ्ः, तत्वं च स्वतोऽनुपन्नमिति शब्दद्वारकमाश्रयणीयम् । इत्रयोस्तु पक्षयोः स्त्रीशब्दो गौणः । पौर्वापर्यादिकं तु समञ्चसमिति न प्रमाणतः पक्षविशेषपरिग्रहः सम्भवतीति निर्दोषतः पक्षः परिग्रह्यः । तत्राद्ये पक्षे एतभार्य इत्येतशब्दाद् वर्णादनुदातात् इति ङीपि तकारस्य च नकारे एकदेशाविकृतस्यानन्यत्वादेतशब्दाद्भाषितपुंस्कात्पर ईकार इति तन्निवृतावप्यर्थस्य स्त्रीत्वमनिवृतमिति नकारः श्रूयेत । न च सन्नियोगशिष्टत्वादीकारनिवृतौ नकारस्य निवतिः, उतरपदनिमितायाः स्त्रीप्रत्ययनिवृतेर्नकारनिवृत्याख्ये पूर्वविधौ स्थानिकद्भावे सत्यन्यतराभावस्यासिद्धेः । न च नकारस्यापि अदिकारविहितत्वादिकारवत्पुंवद्भावेनैव निवृत्तिः तस्य भाषितपुंस्कात्परत्वाभावात्, अप्रत्ययत्वेनोङसादृश्याभावाच्च । तथा पठ्वी भार्यास्य पटुअवी भार्यास्य पटुअभार्य इति निवृतस्यापि स्रीप्रत्ययस्य स्थानिवद्भावाद्यणादेशः स्यात् । अथ तूतरपदे परतोऽनूङ् स्त्रीप्रत्ययो भाषितपुंस्कान्न भवतीति न क्रोडादिबह्णचः इतिवत् प्रागभाव एवात्र विधेयः तत्सामर्थ्याच्च विग्रहवाक्य तएव प्राप्तोऽन्तारङ्गोऽपि स्त्रीप्रत्ययो न क्रियते इत्युच्येत तदैतद्दोषाभावेऽपि लुगलुगस्त्रीविषयद्विस्त्रीप्रत्ययेषु दोषः । लुक् - वतण्डस्यापत्यं स्त्री वतण्डाच्च लुक् स्त्रियाम्, शार्ङ्गरवादिपाठान्ङीन्, वतण्डी चासौवृन्दारिका च वातण्ड।ल्वृन्दारिकेति पुंवत् कर्मधारय इति इकारस्य निवृतावपि अर्थगतस्य स्त्रीत्वस्यानिवृतत्वात् लुक् स्त्रियमा इति यञो लुक्प्राप्नोति । स्यादेतत् - स्त्री - ई स्त्रीति ईकारप्रश्लेषेण स्त्रियां य ईकारस्तत्र परतो लोपः, अत्र तु पुंवद्भावेनेकारस्यानुत्पन्नत्वाल्लुङ् न भविष्यतीति तन्न, इत्रेतराश्रयप्रसङ्गात् । कथम् शार्ङ्गरवादिषु वतण्डशब्दः कृतयञ्लुक् पठ।ल्ते, ततश्चाकृते लुकि ईकारो नास्ति, अकृते चेकारे लुकोऽप्रसङ्गः । अलुक् - गर्गस्यापत्यं स्त्रियः, गर्गादिभ्यो यञ् यञश्चेति ङीप् , गार्ग्यश्च ता वृन्दारिकाश्त गर्गवृन्दारिका इति ङीपि निवृतेऽपि स्त्रीत्वस्यानिवृतत्वाद् यञञोश्च स्त्रियामिति लुग्न प्राप्नोति, वाक्यवदलुगेव स्यात् । अस्त्रीविषयः - कुञ्जस्यापत्यं स्त्री गोत्रे कुञ्जादिभ्यश्चफञ्, गोत्रं च चरणैः सह इति जातित्वान् ङीष्, कौञ्जायनी चासौ वृन्दारिका च कौञ्जायनवृन्दारिकाः ङीषि निवृतेऽपि स्त्रीत्वस्यानिवृतेः व्रातच्फञोरस्त्रियाम् इत्यस्त्रीविषयो न स्यात् । द्विस्त्रीप्रत्ययः - गर्गस्यापत्यं स्त्री गर्गादिभ्यो यञ्, प्राचां ष्फ तद्धितः, षिल्लक्षणो ङीष्, गार्ग्यायणी चासौ वृन्दारिका च गार्ग्यवृन्दारिकेत्यादौ यत्र द्वौ स्त्रीप्रत्ययौ तत्र यो भाषितपुंस्कात्परः ष्फो नासावुतरपदे, ङीषा व्यावधानात्। यश्चोतरपदे ङीष् नासौ भाषितपुंस्कात्परः, ष्फेण व्यवधानात्, तस्य च स्त्रियामेव विहितत्वात् इति पुंवद्भाव एव न स्यात् । तथा इडविडोऽपत्यं स्त्री जनपदशब्दात्क्षत्रियादञ् दरदोऽपत्यं स्त्री द्व्यञ्मगध इत्यण्, तयोः अतश्चेति लुक् - इडविडदरत्, स चासौ वृन्दारिका च ऐडविवृन्दारिका - अत्र पुंवद्भावो न स्यात् अधिकारविहितस्य कस्यचित्प्रत्ययस्याभावात् । द्वितीये तु पक्षेऽर्थस्य पुमर्थत्वेऽतिदिष्टे तद्वाची शब्दः प्रवर्तत इति नैते दोषाः, किन्तु खित्यनव्ययस्य इति ह्रस्वत्वस्यास्य पुंवद्भावस्य विप्रतिषेधो नोपपद्यते भन्नविषयत्वात् । अचो ह्रस्वत्वमर्थस्य पुंवद्भावः, ततः कालिम्मन्येत्यत्र विप्रतिषेधे परम् इतिह्रस्वत्वमिष्टम्, तन्न प्रप्नोति । शब्दपक्षे तु द्वयोरप्येकविषयत्वाद्विप्रतिषेधोऽस्ति, पुंवद्भावस्यावकाशः, यत्र खिदन्तं नास्ति - दर्घनीयभार्यः, ह्रस्वत्वस्यावकारशो यत्र पुंवद्भावो नास्ति - कालिम्मन्यः पुमानिति कालिम्मन्या स्त्रीत्यत्रोभयप्रसङ्गे परत्वाद् ह्रस्वत्वं भवति । न च कृतेऽपि ह्रस्वत्वे पुनः प्रसङ्गविज्ञानात्पुंवद्भावप्रसङ्गः, सकृद्गतिन्यायस्याश्रयणात् । न चार्थपक्षेऽप्यसत्यप्येकविषयत्वेऽसम्भवाद्विप्रतिषेधः, असम्भवादित्यस्यैवासिद्धेः । यद्यपि हि पुंवद्भावे सति स्त्रीप्रत्ययस्य निवृतौ दीर्घान्तत्वाभावाद् ह्रस्वस्याप्रवृत्तिः, तथापि ह्रस्वे प्रवृतेऽप्यर्थस्यानिवृतत्वात्पुंवद्भावः प्राप्नोत्येव । तदेवमाद्ययोर्दुष्टत्वातृतीयं पक्ष्माश्रित्याह - भाषितः पुमान्येनेत्यादि । भाषितः पुमान्येन शब्देनेति शब्देऽन्यपदार्थे बहुव्रीहिराश्रीयते, ततः स्त्रियां पुंसि च वर्तमानस्य यस्य प्रवृत्तिनिमितं भिद्यते, तस्यापि प्राप्नोति - द्रोणीभार्यः, पात्रीभार्य इति । द्रोणशब्दः परिमाणे पुंल्लिङ्गः, पात्रशब्दोऽर्द्धर्चादित्वात्परिमाणे पुंल्लिङ्गः, भाजनविशेषे तु स्त्रीलिङ्गः, सर्वत्राप्यत्र प्रवृत्तिनिमितभेदेऽपि य एव प्रयोगान्तरे पुमांसमाख्यत्, स एव सम्प्रति स्त्रियां वर्तत इति स्यादेव पुंवद्भाव इति मत्वा विशिनष्टि - समानायामाकृताविति । भाष्यग्रहन्थोऽयम्, अतो व्याचष्टे - एकस्मिन्प्रवृत्तिनिमित इति । स भाषितपुंस्कः एशब्दः, अयं तावदर्थो विवक्षित इत्यर्थः । यथा पुनरयमर्थः सूत्राक्षरैरेव लभ्यते, तथा पृच्छति - तदेतदेवमित्यादि । तदेतदर्थरुपम् एवम्प्रकारं कथं भवतीत्यर्थः । प्रवृत्तिनिमितलक्षणेऽन्यपदार्थे सप्तम्यर्थे बहुव्रीहिरित्युतरम् । एतदुक्तं भवति - यस्मिन्पिरवृत्तिनिमिते पुमान् भाषितः पुमासमाचक्षाणस्य यत्प्रवृत्तिनिमितं तेन युक्तं स्त्र्यर्थमाच्क्षाणो भाषितपुंस्क इति । नन्वेवमपि द्रोणीभार्य इत्यादौ दोषः स्यदेव, कथम् यस्यां गवादन्यां द्रोणीशब्दो वर्तते, सोऽपि यदा अर्थ इत्युच्यते तदा भाषितपुंस्केन प्रवृत्तिनिमितेन युज्यते, तत्र चार्थं शब्दप्रवृत्तिनिमितमप्यर्थ्यमानत्वाद् गवादन्यां सन्निहितमिति तत्र वर्तमानो द्रोतथणीशब्दः स्वयं तत्प्रवृत्तिनिमितमनभिदधानोऽपि वस्तुतस्तद्यौक्तमर्थमाह नैतदस्ति, एवं हि भाषितपुंस्कग्रहणमनर्थकं स्यात् सर्वत्र सुलभत्वात् । अतो यः शब्दो भाषितपुंसकेन प्रवृत्तिनिमितेन युक्तं स्वार्थं तेनैव रुपेणाह, न रुपान्तरेण, स भाषितपुंस्को गृह्यते । द्रोणीशब्दस्तु द्रोणीत्वजातियुक्तेन रुपेण गवादन्यां वर्तते, नार्थ्यमानतया । एवमपि द्यौर्भार्या यस्य द्यौभार्य इत्यत्र दिव्यशब्दस्य स्त्रीलिङ्स्य स्वर्ग इति पुंल्लिङ्गः प्राप्नोति, येनैव रुपेण स्वर्गशब्देनोच्यते, तेनैव रुपेण दिव्शब्देनापीति कृत्वा एवं तर्हि प्रत्यासतेर्यंस्य पुंवद्भावो विधीयते, तेनैव यत्र पुमान् भाषित इति विज्ञायते, आत्मनः प्रयोगान्तरे पुमांसमाचक्षाणस्य यत्प्रवृत्तिनिमितं तद्यौक्तं स्त्र्यर्थम्, सम्प्रत्याचक्षाणस्य स्त्रीशब्दस्य पुम्भाषणदशायां यद्रू पं तदेवाद्यापि भावतीत्यर्थः । आतिदेशिकभेदाच्च पुंवदिति वतिनिर्देशः । अनूङिति पर्युदासे सति नञिवयुक्तन्यायेन ऊङ्सदृशस्य टाबादेर्ग्रहणादैडविडवृन्दारिकेत्यादौ स्त्रीप्रत्ययाभावान्न स्यादिति प्रसज्यप्रतिषेधं दर्शयति - ऊङेऽभावोऽनूङिति । भाषितपुंस्कादनूङिति । यद्ययमसमासः स्यात् - अनूङिति, तदा प्रथमा स्यात्, लुप्तषष्ठीकं वा । षष्ठीपक्षेऽयमर्थो भवति - भाषितपुंस्कात्परस्य स्त्रीशब्दस्येव रुपं भवति, ऊङ्न्तस्य तु नेति । ततश्च पुंवद्भावभाजः स्त्रीशब्दस्य भाषितपुंस्कत्वं विशेषणं न स्यात्, तत्र को दोषः इह च प्रसज्येत - अङ्गारका नाम शकुनयः तेषां कालिकाः स्त्रियः तत एताः कालिकावृन्दारिका इति । एतच्छब्दाद्भाषितपुंस्कात्परः कालिकाशब्द इति तस्य स्त्रीविषयस्याप्यङ्गारकशब्दता स्यात्। शक्यन्ते हि ताः साहचर्यादङ्गारकशब्देनाभिधातुम् । तथा अश्वस्य वडवा, पुरुषस्य योषित्, हंसस्य वरटा, कच्छपस्य डुलीत्यादावपि प्रसङ्गः । दर्शनीयभार्य इत्यादौ च न स्यात्, न ह्यत्र दर्शनीयशब्दो भाषितपुंस्कात्परः । प्रथमायां तु भाषितपुंस्कादित्यनेन सामानाधिकरण्यात्स्त्रिया इति पञ्चमी षष्ठ।लं कस्यचिदर्थस्यासम्भवात् । ततश्च भाषितपुंस्कात् स्त्रीलिङ्गात्पर ऊङेऽन्यः प्रत्ययः पुंवदित्यर्थो भवति, तत्र स एव दोषो यः प्रथमपक्षे । तदेवं समासे देषप्रसङ्गाद्व्यधिकारणपदो बहुव्रीहिराश्रयणीय इत्याह - भाषितपुस्कादनूङ्त्याइदि । आलुक्च निपातनात्पञ्चम्या इति । अलौकिकत्वादस्य निपातनादित्यपरिहारः । लुगपि तर्हि न प्राप्नोति अलौकिकत्वादेवेति यत्किञ्चदेतत् । अनूङ् ईति षष्ठ।ल्रथे प्रथमा, तदायमर्थेऽवस्थितः - भाषितपुस्कात्स्वस्मादूङेऽभावो यस्मिन् । कोऽर्थः यस्मिन् स्त्रीशब्दे भाषिपुंस्कात्पर उङ्न कृत इत्यर्थ तैति । अपर आह - भाषितपुंस्कादिति षष्ठ।ल्र्थे पञ्चमी, सर्वमन्यत्पूर्ववत् । भाषितपुंस्कस्य स्त्रीशब्दस्य पुंशब्दस्येव रुपं भवति, एऊङ्न्तस्य तु नेति । नन्वेवमाश्रीयमाणे यत्र भाषितपुस्कस्यैवानन्तरमुतरपदं तत्रैव स्यात् दर्शनीयबय इत्यादौ, अत्र हि भाषितपुंस्कस्य दर्शनीयशब्दस्य टापश्चैकादेशः पूर्वं प्रत्यन्तवद्भावाद्भाषितपुंस्कग्रहणेन गृह्यते, गार्गी चासौ वृन्दारिका च गार्ग्यवृन्दारिकेत्यादौ न स्यात्, योऽत्र भाषितपुंस्को गार्ग्यशब्दो न तस्यानन्तरमुतरपदम् ङीपा व्यवधानात् । यस्य चानन्तरं गार्गीशब्दस्य नासौ भाषितपुंस्कः स्यादेतदेवम्, प्रयोगान्तरे भाषितपुंस्कस्य सम्प्रति स्त्रियां वर्तमानस्य पुंवद्भाव उच्येत । स्त्रियां वर्तमानस्य तदैव भाषितपुंस्कस्य पुंवद्भावं ब्रूमः, सम्भवति च स्त्रीयां वर्तमानस्य तदैव भाषितपुंस्कत्वं भाषितपुंस्केन प्रवृत्तिनिमितेन युक्तां स्त्रियमाहेति कृत्वा । एवं च स्त्रीशब्दस्यैवान्तर उतरपदे पुंवद्भाव इति सर्वत्र सिध्यति । ग्रामणि दृष्टिरस्येति । अत्र ग्रामणिशब्दोऽपरित्यक्तस्वलिङ्ग तएव दृष्टिशब्देन समानाधिकरणो भवति ए। अत्र यदि पुंवद्भावः स्यान्नपुंसकह्रस्वत्वं निवर्तेतः कथमित्यादि । अनवयवभूतगर्भसम्बन्धः स्त्रियां गर्भिणीशब्दस्य प्रवृत्तिनिमितम्, पुंसि त्ववयवभूतगर्भसम्बन्धः । प्रसूत - प्रजातशब्दयोरपि स्त्रियां गर्भमोचननिमितम, पुंसितुगर्भाधानम् । कर्तव्योऽत्र यत्न इति । अन्तर्वर्तिवस्तुसम्बन्धमात्रं गर्भिणीशब्दस्य प्रवृत्तिनिमितमवयवत्वानवयवत्वेन तन्त्रम् । एवं प्रसूतप्रजातशब्दयोरपि आधानविमोचनत्यागेनापत्यसम्बन्धमात्रं निमितमाश्रीयत इत्ययमत्र यत्नः । एब्रह्मबन्धूभार्य इति । ऊङे निवृत्तिर्न भवति । न कोपधायाः इत्यत्रैवोङ्ग्रहणे कर्तव्ये पृथक्प्रतिषेधादस्य वैलत्रण्यं ज्ञयते । तेन ब्रह्मबन्धूवृन्दरिकेति पुंवत्कर्मधारय इति निषेधविपये विधीयमानोऽपि पुंवद्भावो न भवति । एष चार्थोऽनूङ्त्यिस्य तत्रानुवृतेर्लभ्यते । अपूरणीप्रियादिष्वित्ययं तु प्रतिषेधस्तत्रैव कर्तव्यः, न ह्यस्य पुंवत्कर्मधारय इत्यत्रानुवृत्तिरिष्यते महानवमी, महाद्वादशी, अक्षयतृतीया, कृष्णचतुर्दसीत्यादौ पूरण्यामपि कर्मधारये पुंवद्भावस्येष्टत्वात् । प्रधानपूरणीग्रहणं कर्तव्यमिति । प्रधानं या पूरणी तस्यामेव प्रतिषेधो भवतीति वक्तव्यमित्यर्थः । एवच्च प्रधाने कार्यसम्प्रत्ययाल्लभ्यते । कल्याणपञ्चमीकः पक्ष इति । अत्र तिरोहितावयवभेदः पक्षोऽन्यपदार्थ इति तत्र पूरण्या अननुप्रवेशान्नास्ति प्राधान्यम्, कल्याणपञ्चमा रात्रय इत्यादावुद्भूतावयवभेदा रात्रमोऽन्यपदार्थः, तत्र यथा रात्रयः समासाभिधेया, एवं पञ्चम्यपीति पूरण्याः प्राधान्यम् । अथ दृढभक्तिः, शोभनभक्तिरित्यत्र कथं पुंवद्भावः, यावता प्रियादिषु भक्तिशब्दः पठ।ल्ते अत आह - दृढभक्तिरित्येवमादिष्विति । स्त्रीवाचित्वं पूर्वपदस्याविवक्षितम्, अतो दृढभक्तिरित्येवमादिसिद्धिरित्येवं चोद्यसमाधानं कर्तव्यमित्यर्थः । दृढशब्दोऽत्र दाढ।ल्Çनिवृत्तिपरः, तत्र दाढ।ल्Çनिवृत्तिपरायां चोदनायां स्त्रीलिङ्गोपादानमकिञ्चित्करमिति भावः । न चैवं सूत्रस्यानादरणीयत्वम्, लिङ्गविशेषविवक्षायां दर्शनीयभार्य इत्याद्यनिष्टप्रसङ्गात् । अथेह कथं भवितव्यम् - पट्वीमृद्व्यौ भार्ये अस्येति, पट्वीमृदुभार्य इति भवितव्यम् यस्योतरपदमनन्तरं तस्य पुंवद्भावो नेतरस्येति ॥
Nyaas¶
अत्र त्रयः पक्षाः सम्भाव्यन्ते -स्त्रियाः इति स्त्रीशब्देन प्रत्ययग्रहणं वा, अर्थग्रहणं वा, शब्दग्रहणं वेति। तत्र यदि स्त्रियाः इति। स्त्रीप्रत्ययग्रहणं स्वर्यते, तदा स्वरितेनाधिकारावगतिः (1.3.11) भवतीति स्त्र्यधिकारविहिताः प्रत्यया गृह्यन्ते, यथा -गोस्त्रियोरुपसर्जनस्य (1.2.48) इत्यत्र। अथ तु स्त्री इत्यनेन स्त्रीत्वविशिष्टं द्रव्यमभिधीयते, तदार्थग्रहणम्। यदि तु स्त्र्यर्थवाची शब्दः स्त्रीत्यनेनोच्यते, तदा शब्दग्रहणम्। तत्राद्यपक्षेऽयं सूत्रार्थः -भाषितपुंस्कात्परः स्त्रीप्रत्ययोऽनूङुत्तरपदे पुंपद्भवति, निवर्तत इति यावत्, तदा स्त्रियाः इति प्रथमार्थे षष्ठा। कथं पुनः पुंवदित्यनेन स्त्रीपरतययस्य निवृत्तिः शक्यते विज्ञातुम्? भवतीति वाक्यशेषाध्याहारात्। अत्र च पक्षे पट्वी भार्याऽस्येति पटुभार्यं इत्यत्र स्त्रीप्रत्ययनिवृत्तेरुत्तरपदनिमित्तायाः पूर्वस्मिन्? यणादेशे विधातव्ये सति अचः परस्मिन् पूर्वविधौ (1.1.57) इति स्थानिवद्भावे सति यणादेशः स्यात्। इह च -गाग्र्यो वृन्दारिका गर्गवृन्दारिका इत्यत्र तद्राजस्य बहुषु तेनैवास्त्रियाम् (2.4.62) इत्यनुवर्तमाने यञञोश्च (2.4.64) इति यञो लुग्न प्राप्नोति। पुंवद्भावेन हि स्त्रोप्रत्ययस्य निवृत्तिः क्रियते, न त्वर्थस्य स्त्रीत्वस्य; ततश्चार्थस्यानिवर्तितत्वात्? केन पुनर्यञ्न श्रूयेत -इत्येवमादयः प्रत्ययपक्षे दोषा भाष्ये विस्तरेणोक्ताः। इह चातिग्रन्थविस्तरभयान्नोच्यन्ते। अर्थपक्षे तूत्तरपदे परतो भाषितपुंस्कस्यानूङ्प्रत्ययान्तस्य स्त्रीशब्दस्य योर्थस्तस्य पुमर्थोतिदिश्यते। भाषितपुंस्कादिति पञ्चमी षष्ठर्थे -स्त्र्यर्थः पुंवद्भवतीति। पुमर्थे चातिदिष्टे तद्वचनः शब्दः प्रवर्तते। अत्र पक्षे खित्यनव्ययस्य (6.3.66) इति ह्रस्वत्वस्यास्य च पुंवद्भावस्य विप्रतिषेधो न प्राप्नोति; भिन्नविषयत्वात्। तथा हि -शब्दस्य ह्रस्वत्वम्, अर्थस्य पुंवद्भावः; ततश्च कालिम्मन्येत्यत्र विप्रतिषेधे परं कार्यम् (1.4.2) इति ह्रस्वत्वं न प्राप्नोति, इष्यते च विप्रतिषेधः। तथा हि -पुंवद्भावस्य विप्रतिषेधो न प्राप्नोति; भिन्नविषयत्वात्। तथा हि -शब्दस्य ह्रस्वत्वम्, अर्थस्य पुंवद्भावः; ततश्च कालिम्मन्येत्यत्र विप्रतिषेधे परं कार्यम् (1.4.2) इति ह्रस्वत्वं न प्राप्नोति, इष्यते च विप्रतिषेधः। तथा हि -पुंवद्भावस्यावकाशो यत्र खिदन्तमुत्तरपदं नास्ति -दर्शनीयभायं इति, ह्रस्वस्यावकाशो यत्र पुंवद्भावो नास्ति -कालिम्मन्यः पुमानिति; कालिम्मन्या स्त्रीत्यत्रोभयं प्राप्नोति, तत्र परत्वात्? ह्रस्वत्वं भवति। तदेवमाद्ययोः पक्षयोर्दोषवत्तां मन्यमानस्तृतीयपक्षमाश्रित्याह -भाषितः पुमान्? येन इत्यादि। यो ह्रविशेषेण क्वचिद्भाषितपुंस्कः शब्दः स इहाश्रीयेत, तदा द्रोणीभार्य इत्यत्रापि पुंवद्भावः स्यादिति मनसि कृत्वाऽऽह -समानायमाकृतौ इत्यादि। एकस्मिन्? प्रवृत्तिनिमित्ते इति। अनेन समानायामाकृतावित्यस्यार्थं विस्पष्टीकरोति। आक्रियते=गृह्रते, परिच्छिद्यते येनार्थस्तत्? शब्दस्य प्रवृत्तिनिमित्तं जात्यादिकमिहाकृतिशब्देनोच्यते। भाषितपुंस्कात् इत्येतावत्युक्ते समानायामाकृतौ इत्येष विशेषो न शक्यो लब्धुमित्यभिप्रायेणाह -तदेतदेवम् इत्यादि। तदिति वाक्योपन्यासे। एतस्य वचनस्यार्थरूपमेवम्प्रकारम्। कथं भवति? नैवं कथंचिदित्यर्थः। यदि भाषितपुस्कशब्दस्य बहुव्रिहेः शब्दोऽन्यपदार्थत्वेनाश्रीयेत -भाषितः पुमान्? येन शब्देन स भाषितपुंस्कः शब्द इति, तदा समानायामाकृतावित्येष विशेषो न लभ्यते, सर्व एव हि शब्दः क्वचदाकृतौ पुमांसं भाषित्वाऽऽकृत्यन्तरे स्त्रियं भाषत इति कृत्वा। अर्थे त्वन्यपदार्थत्वेनाश्रीयमाणे लभ्यत एव इत्येष विशेष इत्यालोच्याह -भाषितः पुमान्? यस्मिन्नर्थे इत्यादि। शब्दस्य यत्? प्रवृत्तिनिमित्तं जात्यादिकं तदन्यपदार्थः। केन पुनः शब्देन तत्र भाषितः पुमान्? प्रत्यसत्तेर्यत्? तस्य प्रवृत्तनिमित्तं तेनैवेति विज्ञायते; अन्यथा हि भाषितपुंस्कग्रहमनर्थकं स्यात्, व्यवच्छेद्याभावात्। सर्वत्रैवाभिधेये।र्थे येन केनचित्? शब्देन पुमान्? भाष्यते। अन्ततोऽर्थशब्देनापि तस्यार्थस्य भाषितपुंस्कस्य यः प्रातपदिकः शब्द सोऽप्यभिध्यधर्मस्याभिधान उपचरद्भाषितपुंस्क इत्युच्यते। स पुनः प्रत्यासत्तेर्यस्य योऽर्थः प्रवृत्तिनिमित्तं ततर येन पुमान्? भाषत इति स एव वेदितव्यः। यश्च भाषितपुंस्कस्य प्रवृत्तिनिमित्तस्य वाचकः स नियोगत एकस्मिन्? प्रवृत्तिनिमित्ते पुमांसं भाषित्वा स्त्रियं भाषते। यथा मूलोदाहरणेषु -दर्शनीयादयः शब्दा इति, समाथ्र्याद्येन शब्देन समानायामाकृतौ पुमान्? भाषित इत्येष विशेषो लभ्यते। अनूङ् इति यद्ययं पर्युदासः स्यात्, ऊङोऽन्योऽनूङिति -ततो नञिवयुक्तन्यायेन (व्या।प।65) तत्सदृशानां टाबादीनां प्रत्ययानां ग्रहणे सति तदन्तस्यैव पुंवद्भावः स्यात्, ऐडविडवृन्दारिका, दारदवृन्दारिकेत्यत्र न स्यात्। इडविडोऽपत्यं स्त्रीति जनपदशब्दात्? क्षत्रियादञ् (4.1.168) इत्यत्प्र्रत्ययः। दरदोऽपत्यमिति द्व्यञ्मगध (4.1.170) इत्यादिनाण्? तयोः अतश्च (4.1.177) इति लुक्, तत इडविट्? चासौ वृन्दारिका चेति, दरच्चासौ वृन्दारिका चेति वृन्दारकनागकुञ्जरैः (2.1.62) इति समासः, तत्रेदानीं पुंवत्कर्मधारय (6.3.42) इत्यादिना पुंवद्भावो न प्राप्नोति; ऊङ्सदृशप्रत्ययानतराभावात्, ततश्चेडविट्शब्दस्यैडविडशब्दो दरच्छब्दस्य दारदशब्दो न स्यात्। प्रसज्यप्रतिषेधे सति तु भवति; अत्राऽप्यूङभावस्य भावादित्यालोच्य प्रसजयप्रतिषेधोऽयमिति दर्शयन्नाह -ऊङोऽभावोऽनूङिति। भाषितपुंस्कादनूङ् इति। यद्ययमसमासः स्यान्न बहुव्रीहिः, तदायमर्थः स्यात् -भाषितपुस्कादुत्तरस्याविद्यमानोङः स्त्र्यर्थवृत्तेः शब्दस्योत्तरपदे परतः पुंवद्भवतीति। एवञ्च सति यथाभूतार्थवाची स्त्रीशब्दस्तथाभूतार्थवाच्येव पुंशब्दस्यादेशो भवतीति सामर्थ्यादुक्तं भवति, ततश्चानिष्टप्रसङ्गः -अङ्गारका नाम शकुनयः तेषां कालिका नाम स्त्रियः, तत एताश्च कालिकावृन्दारिकाश्चेति समासे कृते सत्येतच्छब्दो भा,#इतपुंस्क इति तस्मादुत्तरस्य कालिकाशब्दस्यानूङोऽर्थतोऽन्तरतमोऽङ्गरकशब्दः पुंशब्दादेशः प्रसज्येत; अन्यस्यान्तरतमस्याभावात्। ततश्चैतदङ्गारकवृन्दारिका इति हि स्यात्, एतत्कालिकावृन्दारिका इतीष्यते। बहुव्रीहौ तु सत्यनिष्टप्रसङ्गो न भवति, तत्र हि भाषितपुंस्कस्य शब्दस्यानूङः पूंवद्भावेन भवितव्यम्, न च कालिकाशब्दो भाषितपुंस्कः -इत्येतत्सर्वमालोच्य बहुव्रीहिरयमिति दर्शयन्नाह -भाषितपुंस्कादनूङ्? यस्मिन्? स्त्रीशब्दे इति। यदि बहुव्रीहिरयम् [यदि -नास्ति काशिकायाम्] इति। एवं सति **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति पञ्चम्या लुक्? प्राप्नोति? अत आह -`अलुग्निपातनात् इत्यादि। ननु चालौकिकत्वादस्य वाक्यस्य निपातनादित्ययमपरीहारः, निपातनं हि लौकिकं भवति, तह्र्रेवं लुकाप्यत्र न भाव्यम्? अथ लुग्भविष्यतीत्येवावसीयतेऽलुगपि भवतीत्यवसीयताम्। दर्शनीयभार्यः इति। दर्शनीया भार्याऽस्येति बहुव्रीहिः। गोस्त्रियोरुपसर्जनस्य (1.2.48) इति ह्रस्वत्वमुत्तरपदस्य। दर्शनीयत्वं नामात्र सामान्ये विशेषो दर्शनीयशब्दस्य प्रवृत्तिनिमित्तम्। तमेकमेवार्थमुपादायासी पुंसि स्त्रियां च वर्तते -दर्शनीयो देवदत्तः; दर्शनीया भार्येति। तस्मात्? समानायामाकृतौ दर्शनीयशब्दो भाषितपुंस्को भवति; स्त्रियाञ्च वर्तते, न चास्मादूङ्। अतो भार्याशब्दे स्त्रीलिङ्ग उत्तरपदेऽस्य स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवति। [`पुंशब्दस्यैव -मुद्रितः पाठः] एवं श्लक्ष्णचूडः इत्यादावपि योजनीयम्। ग्रामणिदृष्टिः इति। अत्र सर्वमस्ति, न तु ग्रामणीशब्दः स्त्रियां वर्तते, किं तर्हि? नपुंसक इति न भवति पुंवद्भावः। द्रोणीभार्यः इति। द्रोणशब्देन भाषितः पुमान्, न तु समाने प्रवृत्तिनिमित्त। यस्मात्? परिमाणविशेषं प्रवृत्तिनिमित्तमुपादाय पुंसि परिमाणिनि वर्तते। जातिविशेषं तूपादाय स्त्रियां गवादन्यां वर्तते। यत्र गावोऽदन्ति सा गवादनी द्रोणीशब्देनोच्यते। तस्मान्न द्रोणशब्दः समानायामाकृतौ भाषितपुंस्कः। कथम् इत्यादि। यदि समानायामाकृतौ यो भाषितपुंस्कस्तस्य पुंवद्भाव उच्यते, एवं च गर्भिभार्यः इत्यादौ पुंवद्भावो न प्राप्नोति। गर्भप्रभृतीनां शब्दानां भिन्नायामाकृतौ भाषितपुंस्कत्वादित्यभिप्रायः। अनवयवभूतान्तर्वर्तिवस्तुविशेषसम्बन्धे हि सति स्त्री गर्भिणीत्युच्यते। व्रीहिस्त्वन्तर्वर्त्त्यवयवस्तुविशेषसम्बन्धे सति गर्भीत्युच्यते। तस्मात्? पुंसि स्त्रियां च वर्तमानस्य गर्भिशब्दस्य प्रवृत्तिनिमित्तं भिद्यते। प्रसूतप्रजातशब्दयोरपि प्रवृत्तिनिमित्तं क्रियकृतिर्भिन्ना। स्त्रियां हि वर्तमानौ तौ गर्भविमोक्षणं प्रवृत्तिनिमित्तमुपादय वर्तते, पुंसि तु गर्भाधानम्। कर्तव्योऽत्र प्रयत्नः इति। केचिद्व्याचक्षते -उपसंख्यानं कर्तव्यमिति। अपरे पुनराहुः -स्त्रिया पुंवदिति योगविभागः कर्तव्यः। अथ वा -कर्तव्योऽत्र यत्नः इत्यनेनेदं दर्शयति -यद्यपि स्त्रियां व्रीहौ च गर्भत्वभेदः, तथापि स नाश्रयितव्यः। यत्तु तत्रावयवानवयवभेदमुत्सृज्य सामान्येनान्तर्वर्त्तिवस्तुविशेषसम्बन्धमात्रम्, तदेवाश्रयितव्यम्। अतस्तदपेक्षया स्त्रियां व्रीहौ च वर्तमानस्य गर्भिशब्दसय तुल्यमेव प्रवृत्तिनिमित्तमिति। एवं प्रसूतप्रजातशब्दयोरप्यपत्याधानविमोक्षणभेदं त्यक्त्वाऽयमपत्यवानियमपत्यवतीत्यपत्यवत्सम्बन्धमात्रमाक्षितमित्येतद्व्याख्यानमि#ईति प्रत्यन्तः कर्तव्य इति। ब्राहृबन्धूभार्यः इति। ब्राहृबन्धूशब्दात्? ऊङुतः (4.1.66) इत्यूङ्। कल्याणीपञ्चमाः इति। अप्? पूरणीप्रमाण्योः (5.4.116) इत्यप्समासान्तः, पञ्चानां पूरणीति डट्, तस्य नान्तादसंख्यादेर्मट् (5.2.49) , ततः टिड्ढाणञ् (4.1.15) इति ङीपि कृते पञ्चमी भवति। प्रधानपूरणीग्रहणं कर्तव्यम् इति। प्रधानं पूरणी गृह्रते येन व्याख्यानेन तद्व्याख्यानं प्रधानपूरणीग्रहणम्, तत्? कर्तव्यम् -प्रधानं या पूरणी तस्यां प्रतिषेधो यथा स्यात्, अप्रधानभूतायां तस्यां मा भूदिति। तत्रेदं व्याख्यानम् -इह द्वन्द्वे धि (2.2.32) इति प्रियादिशब्दस्य पूर्वनिपाते प्राप्ते परनिपातलक्षणव्यभिचारचिह्नेन सूचितं व्यभिचार्ययं प्रतिषेधः क्वचिदेव वर्तते, न सर्वत्रेति। तेन यत्रैव प्रधानभूता पूरणी तत्रैव भवति, नान्यत्रेति। तेन यत्रासौ भवति तत्र तस्या एव प्रधानभूताया पूरण्या ग्रहणं युक्तम्। क्व पूरण्याः प्राधान्यम्? यत्र तस्याः समासेऽभिधेयत्वेनान्तर्भावः, यथानन्तरोक्तप्रत्युदाहरणे। तत्र ह्रवयवेन विग्रहः। समुदायस्त्ववयवभेदादभिन्नः, समासार्थ एव। तत्र इति। यथैवं प्रथमा, द्वितीया, तृतीया, चतुर्थी चाभिधीयते, तथा पञ्चम्यपि। कल्याणपञ्चमीकः पक्षः इति। अत्र तु तिरोहितावयवभेदः पक्ष एवान्यपाद्रथः प्रधानम्, पञ्चमी तु रात्रिः। अस्मिन्? पक्षेऽन्यपदार्थोऽनुमेयैव, न त्वभिधेया। यथा वृक्षशब्दे मूलादयः, ततस्तद्वदर्थमप्यनभिधेयत्वादर्थोऽप्रधानम्। अथाप्? समासान्तः कस्मान्न भवति? इत्याह -अप्पूरणीप्रमाण्यो इत्यादि। अथ दृढभक्तिः, शोभनभक्तिरित्यादौ कथं पुंवद्भावः यावता प्रियादित्वात्? प्रतिषेधेन भवितव्यम्? इत्याह -दृढभक्तिरित्येवमादिषु इत्यादि। अस्त्रीवाचिनः पूर्वपदस्य विवक्षितत्वाद्दृढभक्तिरित्येवमादि लक्ष्यं सिद्धमित्येवं समाधेयम्। द्वेष्यं परिहर्तव्यमित्यर्थः। दृढशब्दोऽत्रादाढर्निवृत्तिपरः प्रयुक्तः। अत्रादाढर्निवृत्तिपरायां चोदनायां लिङ्गविशेषोपादानमनुपकारकमेवेति। अतः स्त्रीत्वमिह न विवक्षितम्। तस्मादस्त्रीलिङ्गस्य दृढशब्दस्यायं प्रयोग इत्यभिप्रायः॥
Prakriyasarvasvam¶
भाषितपुंस्कादिति षष्ठ्यर्थे पञ्चमी । अनूङिति षष्ठ्यर्थे प्रथमेति हरः । पुल्लिङ्गसाधारणस्यानूङः स्त्रीलिङ्गशब्दस्य समानाधिकरणे स्त्रीलिङ्गे परे पुंवद्रूपं स्यात् । पूरणान्तस्त्रीलिङ्गे प्रियादिषु च परेषु न । पुंवत्त्वात् स्त्रीप्रत्ययलोपः । ‘गोस्त्रियोः’ (१-२-४८) इति परपदस्य ह्रस्वः । बहुव्रीहौ ह्यनेकमिति प्रथमानिर्दिष्टत्वात् सर्वपदानामुपसर्जनत्वमेव । चित्रगुः । सुन्दरभार्यः । गर्भिभार्यः । भाषितपुंस्कादित्युक्तेर्गङ्गाभार्य इत्यत्र न । अनूङ् इत्युक्तेर्वामोरूभार्यः । पूरण्यां तु—
Sutra Prayogas¶
निर्यातशेषा (रघुवंशम्): स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्… इत्यनुवर्त्य पुंवद्भावोपयोगः।
दृढभक्तिः (रघुवंशम्): स्त्रियाः पुंवत्- इति पुंवद्भावः।
मान्यभक्तिः (कुमारसम्भवम्): स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु इति सूत्रे अप्रियादिषु इति निषेधः।
अयातपूर्वा (किरातार्जुनीयम्): स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्… इति पुंवद्भावः।
पिशङ्गमौञ्जीयुजम् (शिशुपालवधम्): स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु इति पिशङ्गशब्दस्य पुंवद्भावः।
पौरस्त्रियो (शिशुपालवधम्): स्त्रियाः पुंवत्- इत्यादिना पुंवद्भावः।
कौबेरदिग्भागमपास्य (शिशुपालवधम्): स्त्रियाः पुंवत्- इत्यादिना पुंवद्भावः।
पौरयोषितः (शिशुपालवधम्): स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्… इति पुंवद्भावः।
विकासिभक्तिभिः (शिशुपालवधम्): स्त्रियाः पुंवत्- इति पुंवद्भावसूत्रेऽप्रियादिष्विति निषेधात्।
युव-जानिर् (भट्टिकाव्यम्): स्त्रियाः पुंवत् इत्यादिना पुंवद्भावात् स्त्रीप्रत्ययो निवर्तते।