62080: उपमानं शब्दार्थप्रकृतावेव¶
Padacheda: उपमानम् | S | 1 | 1 |
शब्दार्थ-प्रकृतौ | S | 7 | 1 |
एव | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
When the first member of a compound expresses that with which resemblance is denoted then it has acute accent (उदात्त) on the first syllable before a word formed by णिनि (इन्) affix, only then, when such latter word is radical without any preposition and means ‘giving out a definite sound like so and so’.
Vasu English Translation¶
When the first member of a compound expresses that with which resemblance is denoted then it has acute accent (उदात्त) on the first syllable before a word formed by णिनि (इन्) affix, only then, when such latter word is radical without any preposition and means ‘giving out a definite sound like so and so’. The word उपमान means the object with which something is likened : means शब्दार्थ ‘expressing a sound’; प्रकृति means ‘root, without any preposition’. Thus उ꣡ष्ट्रक्रोशिन्, ध्वा꣡ङ्क्षराविन्, ख꣡रनादिन् ॥ The word उपमान shows the scope of this sutra as distinguished from the last. So that, when the first term is an उपमान word, the preceding sutra will not apply, though the second member may be a णिनि formed word. When the second term is not a word denoting sound, the rule will not apply. As वृकवञ्चि꣡न्, वृकप्रेक्षि꣡न् which retain krit accent (6.2.139) Why do we say ‘a radical word without any preposition’? Observe गर्दभोच्चारिन्, कोकिलभिष्याहारिन् ॥ Here the second terms radically (i.e. charin and harin) do not denote sounds, but it is with the help of the Prepositions उत् and अभि, वि and आ that they mean sound. The force of एव is that the उपमान words are restricted. Such words get acute on the first syllable only then, when the second member is a radical sound name. According to Patanjali, the first syllable gets acute, whether it denotes उपमान or not, when the second word is a radical denoting sound. (शब्दार्थ प्रकृतौ ह्युपमानं चानुपमानं चाद्युदात्तमिष्यते) ॥ As पुष्कलजल्पिन्, for had एव not been used, the sutra would have run thus: उपमानं शब्दार्थप्रकृतौ and would mean:–“If the second member is a sound denoting radical word, then the upamana first member and no other will get the acute”. But this is not what is intended : because when the second member is a sound-denoting radical, the first member will get the acute, whether it is upamana word or not. The word एव therefore restricts upamana; i.e. a first member denoting उपमानं will get the accent then only, when the second term is a sound-denoting radical. If the second term is not a sound denoting radical, the first term denoting upamana will not get the accent. The compounding takes place by (3.2.79).
Bhashya¶
उपमानं शब्दार्थप्रकृतावेव (2740) (उपमानपदप्रयोजनभाष्यम्) उपमानमिति किमर्थम् ? शब्दार्थप्रकृतावेवेतीयत्युच्यमाने पूर्वेणातिप्रसक्तमिति कृत्वा नियमोऽयं विज्ञायेत । तत्र को दोषः ? इह न स्यात् - पुष्पहारी, फलहारी । उपमानग्रहणेन पुनः क्रियमाणे न दोषो भवति ॥ (शब्दार्थपदप्रयोजनभाष्यम्) अथ शब्दार्थग्रहणं किमर्थम् ? उपमानं प्रकृतावेवेतीयत्युच्यमाने इहापि प्रसज्येत - वृकवञ्ञ्ची, वृकप्रेक्षी । शब्दार्थग्रहणे पुनः क्रियमाणे न दोषो भवति ॥ (प्रकृतिग्रहणप्रयोजनभाष्यम्) अथ प्रकृतिग्रहणं किमर्थम् ? शब्दार्थप्रकृतिरेव यो नित्यं तत्र यथा स्यात् । इह मा भूत् - कोकिलाभिव्याहारी, गर्दभोच्चारी । (एवपदप्रयोजनभाष्यम्) अथैवकारः किमर्थः ? नियमार्थः । नैतदस्ति प्रयोजनम् । सिद्धे विधिरारभ्यमाणोऽन्तरेणैवकारं नियमार्थो भविष्यति । इष्टतोऽवधारणार्थस्तर्हि । यथैवं विज्ञायेत - उपमानं शब्दार्थप्रकृतावेवेति । मैवं विज्ञायि -उपमानमेव शब्दार्थप्रकृताविति । शब्दार्थप्रकृतौ ह्युपमानं चानुपमानं चाद्युदात्तमिष्यते । साध्वध्यायी, बिलम्बिताध्यायी ॥
Kashika¶
उपमानवाचि पूर्वपदं शब्दार्थप्रकृतावेव णिनन्त उत्तरपद आद्युदात्तं भवति। उपमानं नियम्यते। उष्ट्र॑क्रोशी। ध्वाङ्क्ष॑रावी। खर॑नादी। उपमानग्रहणमस्य पूर्वस्य च योगस्य विषयविभागार्थम्। शब्दार्थप्रकृताविति किम्? वृ॒क॒व॒ञ्ची। वृ॒क॒प्॒रेक्षी। प्रकृतिग्रहणं किम्? प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था भवति, तत्रैव यथा स्यात्। इह मा भूत् — ग॒र्द॒भो॒च्चा॒री, को॒कि॒ला॒भि॒व्या॒हा॒री इति। एवकारकरणमुपमानावधारणार्थम्। शब्दार्थप्रकृतौ त्वनुपमानमुपमानं चाद्युदात्तं भवति। सिंह॑विनर्दी। पुष्क॑लजल्पी॥
Siddhanta Kaumudi¶
उपमानवाचि पूर्वपदं णिन्यन्ते परे आद्युदात्तम् । उष्ट्रक्रोशी । ध्वाङ्क्षरावी । उपमानग्रहणमस्य पूर्वयोगस्य च विषयविभागार्थम् । शब्दार्थप्रकृतौ किम् । वृकवञ्ची । प्रकृतिग्रहणं किम् । प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था तत्रैव यथा स्यात् । इह मा भूत् । गर्दभोच्चारी ॥
Padamanjari¶
उष्ट्रक्रोशीत्यादौ कर्तर्युपमाने इति णिनिः । उपमानगर्हणमित्यादि । अन्यथा योगाविभागेन नियमाश्रयणसामर्थ्याद्विशिष्टविषयो नियम इत्येतावद् गम्यत, न त्विष्टो विषयविभाग इति भावः । शब्दार्थप्रकृताविति किमिति । सूत्रारम्भः किमर्थ इत्यर्थः । वृकवञ्चीति । कृत्सवर एव भवति । प्रकृतिरेवेत्यादि । असति प्रकृतिगरह्णे शब्दार्थात्परो यो णिनिस्तदन्त उतरपदे इति विज्ञायेत्, ततश्च यत्रापि धातूपसर्गसमुदायात् शब्दार्थात्परो णिनिः, तत्रापि स्यात् कृदुग्रहणे गतिकारकपूर्वस्यापि ग्रहणाण्णिन्यन्तमेवोतरपदमिति कृत्वा । प्रकृतिग्रहणे तु न भवति । योऽत्र धातुर्नासौ शब्दार्थः, यश्च शब्दार्थो धातूपसर्गसमुदायो न ततो णिनिर्विहित इति, सिद्धे विधिरारभ्यमाणोन्तरेथणाप्येवकारं नियमाय भवति, नार्थ एवकारेण तत्राह - एवकारकरणमित्यादि । असति हि तस्मिन्विपरीतो नियमः स्यात् - शब्दार्थप्रकृतौ यदि भवति उपमान एवेति । एवं च प्रकृतिर्नियम्येत, नोपमानम् । तस्मादुपमानावधारणार्थमेवकारः क्रियते । किम पुनः कारणमुपमानावधारणमाश्रीयते अत आह - शब्दार्थप्रकृताविति । तुशब्दो हेतौ, उपमाननियमे हि शब्दार्थप्रकृतेरनियतत्वातत्राप्यविशेषेण सर्वस्याद्यौदातत्वं एलभ्यते, नान्यथा । किञ्च - प्रिकृत्यवधारणेऽस्यानियतत्वाद् वृकवञ्चीत्यादावाद्यौदातत्वप्रसङ्गः ॥
Nyaas¶
शब्दार्थप्रकृतौ इति। शब्दार्थः प्रकृतिर्यस्मिन्निति बहुव्रीहिः। उपमानं नियम्यते ति। यत एवकारस्ततोऽन्यत्रावधारणं भवति। इह च शब्दार्थप्रकृतेरेवकारः, तस्मादुपमाननियमो भवति, अतस्तन्नियम्यते। उष्ट्रकोशी इति। क्रुश आह्वाने (धातुपाठः-856) [आह्वाने रोदने च -धातुपाठः-] इत्यस्मात्? कर्तर्युपमाने (3.2.79) इति णिनिः। णिनिनैव सादृश्यस्योक्तत्वाद्वृत्ताविवशब्दो न प्रयुज्यते। ध्वाङ्क्षरावी इति। रु शब्दे (धातुपाठः-1034) पूर्वलक्षणाण्णिनिः। खरनादी इति। णद अव्यक्ते शब्दे (धातुपाठः-54)।उपमानग्रहणम् इत्यादि। यद्युपमानग्रहणं न क्रियते, तदा पूर्वस्य योगस्यास्य च विषयविभागो न ज्ञायेत। यदि योगविभागकरणसामर्थ्याद्विषयान्तरम्य कल्प्येत, तथापीष्टो विषयविभागो न ज्ञायेत। उपमानग्रहणे तु सति पूर्वस्य सामान्यं विषयः, अस्य तु विशेष उपमानमिति विषयविभागो निश्चीयेत। तेन विषयविभागार्थमुपमानग्रहणम्। वृकवञ्ची इति। वञ्चु प्रलम्भने (धातुपाठः-1703)। वृकप्रेक्षी इति। ईक्ष दर्शने (धातुपाठः-610) प्रपूर्वः। अत्र कृत्स्वर एव भवति। प्रकृतिरेव इत्यादि। यदि प्रकृतिग्रहणं न क्रियेत, तदा शब्दार्थात्? परो यो णिनिस्तदन्त उत्तरपद इत्येवं विज्ञायेत? ततश्च गर्दभोच्चारी कोकिलाभिव्याहारीत्यस्यापि स्यात्; भवति ह्यत्रापि धातूपसर्गसमुदायाच्छब्दार्थात्? परो णिनिः, अतस्तदन्तमुततरपदम्। तस्मादिह मा भूदिति प्रकृतिग्रहणं क्रियते, तेनेह न भवति। प्रकृतिग्रहणे सति यत्रोपसर्गनिरपेक्षा गत्यर्थत्वात्, हरतेश्च हरणार्थत्वात्। यद्वा -योऽत्र शब्दार्थो धातूपसर्गसमुदायः, न तस्माण्णिनेर्विधानम्। यदि पूर्वेणैव सिद्धे नियमार्थं वचनम्, एवं सिद्धे विधिरारभ्यमाणो नियमाय भवतीत्यनर्थकमेवकारकरणम्? इत्याह -एवकारकरणम् इत्यादि। असति ह्रेवकार उपमान एव शब्दार्थप्रकृतावित्येवमवधारणं स्यात्, ततश्च शब्दार्थप्रकृतिरेव नियम्येत -शब्दार्थप्रकृतौ यदि भवत्युपमान एव भवति, नानुपमान इति। ततश्चानुपमाने न स्यात्। तस्मादुपमानावधारणं यथा स्यादित्येवमर्थमेवकारः क्रियते। किं कारणम्? इत्याह -शब्दार्थप्रकृतौ तु इत्यादि। तुशब्दो हेतौ। तस्मात्? शब्दार्थप्रकृतावुपमानमनुपमानं चाद्युदात्तं भवति। तस्मादुपमानावधारणार्थमेवकारकरणम्। उपमाननियमे हि सति शब्दार्थप्रकृतेरनियतत्वात्? तत्राविशेषेण सर्वस्याद्युदात्तत्वं लभ्यते। सिंहविनर्दी इति। उपमानस्योदाहणम्। पुष्कलजल्पी इति। अनुपमानस्य। पुष्कलजल्पीत्यत्र व्रत्ते (3.2.80) बहुलमाभीक्ष्ण्ये (3.2.81) इति वा णिनिः॥
Prakriyasarvasvam¶
शब्दा²र्थधातोर्णिन्यन्ते पर एवोपमानं प्राक्पदमाद्युदात्तं ³स्यात् । वीणावादी । ‘कर्तर्युपमाने’ (३-२-७९) णिनिः । अशब्दार्थे कृत्स्वरः । गजगामी । प्रकृत्युक्ते- रुपसर्गवशाच्छब्दार्थत्वे कोकिलाभिव्याहारीत्यत्र न ।