62043: चतुर्थी तदर्थे

Padacheda: चतुर्थी | S | 1 | 1 |

तदर्थे | S | 7 | 1 |

Sutrartha


Vasu English Summary

A word in the Dative -4th Case as the first member retains its accent when the second member expresses that which is suited to become the former.

Vasu English Translation

A word in the Dative -4th Case as the first member retains its accent when the second member expresses that which is suited to become the former. Thus यू꣡पदारु, कुण्डल꣡हिरण्यम् ॥ The word यूप् has accent on the first syllable, as it is formed by प (Unadi III.27) treated as a नित् (Unadi III.26). The word कुण्डल is formed by कल affix which is treated as चित् (Unadi I.108) and has acute on the final. So also र꣡थदारु, वल्लीहिरण्यम् ॥ Ratha is first-acute formed by kthan affix (Unadi II.2). Valli has acute on the final formed by ङीष् affix. (4.1.41) Why do we say ‘it being suited to the first’? Observe कुबेरबलिः ॥ This accent applies when the second member denoting the material is modified into the first by workmanship. The composition takes place by (2.1.36).

Kashika

चतुर्थ्यन्तं पूर्वपदं तदर्थ उत्तरपदे तदभिधेयार्थं यत् तद्वाचिन्युत्तपदे प्रकृतिस्वरं भवति। तदिति चतुर्थ्यन्तस्यार्थः परामृश्यते। यूप॑दारु। कु॒ण्ड॒लहि॑रण्यम्। यूपशब्द आद्युदात्तः। कुसुयुभ्यश्च (द०उ० ७.५) इत्यत्र निदिति वर्तते। कुण्डलशब्दोऽपि वृषादिभ्यश्चित् (प०उ० १.१०६) इति कलप्रत्ययान्तोऽन्तोदात्तः। रथ॑दारु। व॒ल्लीहि॑रण्यम्। रथशब्द आद्युदात्तः। हनिकुषि० (प०उ० २.२) इत्यादिना क्थन्प्रत्ययः। वल्लीशब्दो ङीषः स्वरेणान्तोदात्तः। तदर्थ इति किम्? कु॒बे॒र॒ब॒लिः। प्रकृतिविकारभावे स्वरोऽयमिष्यते॥

Siddhanta Kaumudi

चतुर्थ्यन्तार्थाययत्तद्वाचिन्युत्तरपदे चतुर्थ्यन्तं प्रकृत्या । यूपाय दारू यूपदारू ॥

Padamanjari

तस्मै इदं तदर्थम् , तच्छब्देन चतुर्थ्यन्तार्थ उच्यते, यदाह - तदभिधेयार्थं यदिति। तस्य चतुर्थ्यन्तस्य यदभिधेयं तदर्थमित्यर्थः । रमन्तऽस्मिन्स्थिता इति रथः, हनिकृषिनीरमिकशिभ्यः क्यन्, अनुदातोपदेश इत्यनुनासिकलोपः,वल्लीशब्दो गौरादिङीषन्तः । तदर्थ इति किम्,कुबेरबलिरिति । अत्र तादर्थ्यस्य भावाद् गोसुखमिति प्रत्यदाहार्यं मन्यन्ते । प्रकृतिविकारभावे स्वरोऽयमिष्यत इति । समासप्रकरण एवैतत्सम्यगुपपादितम्, आत्रापि ज्ञापकं वक्ष्यति॥

Nyaas

तदर्थे इति। तस्मै इदम्, चतुथ्र्यन्तम्, तस्य योर्थस्तदर्थ इत्यर्थः। कथं पुनर्यूपशब्द आद्युदात्त? इत्याह - कुसुयुभ्याञ्च इत्यादि। पानीविषिभ्यः पः (द।उ।7।2) इत्यतः पः इत्यनुवर्तमाने कुसुयुभ्याञ्च (द।उ।7।5) [कुयुभ्याञ्च - मुद्रितः पाठः] इति यूपशब्दः पप्रत्ययान्तो व्युत्पाद्यते। तत्र सुशृभ्यां निच्च (पं।उ।3।26) इत्यतो निदिति वर्तते, तेनादयुदात्तो भवति। दीर्घत्वं तु स्तुवो दीर्घश्च (पं।उ।3।25) इत्यतो दीर्घग्रहणानुवृत्तेः। कलप्रत्ययान्तः इति। वृषादिभ्यश्चित्? (द।उ।8।109) इत्यत्र `कलस्तृपशच (द।उ।8।107) इत्यतः कलप्रत्ययानुवृत्तेः। रथशब्द आद्युदात्तः इति। हनिकुषिनीरमिकाशिभ्यः क्थन्` (द।उ।8।107) इत्यतः कलप्रत्ययानुवृत्तेः। रथशब्द आद्युदत्तः इति। हनिकुषिनीरमिकाशिभ्यः क्थन् (द।उ।8।107) इत्यतः कलप्रत्ययानुवृत्तेः। रथशब्द आद्युदात्तः इति। हनिकुषिनीरमिकाशिभ्यः क्थन् (द।उ।6।27) इति कथन्प्रत्ययान्तत्वात्। वल्लीशब्दो ङीषः स्वरेणान्तोदात्तः इति। ङीष्प्रत्ययस्तु गौरादित्वात्। (4.1.41) वेदितव्यः। प्रकृतिविकारभावे इत्यादि। कथं पुनः सामान्येनोच्यमानः प्रकृतिविकारभावे लभ्यते? पूर्ववदन्यतरस्यांग्रहणानुवृत्तेः। तस्य च व्यवस्थितविभाषात्वाद्वक्ष्यमाणज्ञापकात्॥

Prakriyasarvasvam

तदर्थवस्तुभिः समासे चतुर्थ्यन्तं प्राक्पदं प्रकृत्या स्यात् । कुण्डहिरण्यम् । (अ१) लच् ।