62016: प्रीतौ च¶
Padacheda: प्रीतौ | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The first member of a तत्-पुरुष समास preserves its original accent when its second term is सुख or प्रिय and the sense is ‘agreeable to one’ or ‘desired’.
Vasu English Translation¶
The first member of a तत्-पुरुष समास preserves its original accent when its second term is सुख or प्रिय and the sense is ‘agreeable to one’ or ‘desired’. Thus ब्राह्मणसुखं पायसं “the sweet milk desired by or agreeable to the Brahmanas”, छात्रप्रियोऽनध्यायः ॥ कन्याप्रियो मृदङ्गः ॥ &c. The words ब्राह्मण and छात्र have acute on the final being formed by the affixes अण् and ण (5.4.62) respectively (3.1.3) and कन्या has svarita on the final. When not meaning agreeable to or desired, we have राजसुखम्, राजप्रियम् ॥
Kashika¶
प्रीतौ गम्यमानायां सुख प्रिय इत्येतयोरुत्तरपदयोस्तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। ब्रा॒ह्म॒णसु॑खं पायसम्। छा॒त्रपि्॑रयोऽनध्यायः। क॒न्या॑प्रियो मृदङ्गः। सुखप्रिययोः प्रीत्यव्यभिचारादिह प्रीतिग्रहणं तदतिशयप्रतिपत्त्यर्थम्। ब्राह्मणछात्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ। कन्याशब्दः स्वरितान्तः (फिट् सू० ७६)। प्रीताविति किम् ? रा॒ज॒सु॒खम्। रा॒ज॒पि्॒रयम्॥
Siddhanta Kaumudi¶
प्रीतौ गम्यायां प्रागुक्तम् । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽनध्यायः । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽनध्यायः । ब्राह्मणच्छात्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ । प्रीतौ किम् । राजसुखम् ॥
Padamanjari¶
इह तु सुखपिरययोः तैत्येतावत्सूत्रं कृत्वा हिते चेति वक्तव्यम्, तत्राद्ये सूत्रे सुखप्रिययोः प्रीत्यव्यभिचारादेव प्रीतौ गम्यमानायां भविष्यति तत्राह - सुखप्रिययोरित्यादि । ब्राह्मणशब्दोऽणन्तः । छात्रशब्दः च्छत्रा दिभ्यो णः इति णप्रत्ययान्तः । कन्याशब्दः स्वरितान्त इति । तिल्यशिक्यमर्त्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः इति फिषि पाठात् ॥
Nyaas¶
अथ प्रीतौ चेतीदं ग्रहणं किमर्थम्, यावता सुखप्रिययोः प्रीत्यव्यभिचारात्। एवं प्रीतौ गम्यमानायां भविष्यति? इत्यत आह -सुखप्रिययोः प्रीति [प्रीत्येत्यादि -मुद्रितः पाठः] इत्यादि। प्रीतिग्रहणमन्तरेणापि सिद्धे सुखप्रिययोः प्रीत्यव्यभिचाराद्यदिह प्रीतिग्रहणं क्रियते, तदतिशयिता या प्रीतिस्तस्या यथा स्यादित्येवमर्थम्। ब्राआहृणच्छात्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ इति। ब्राआहृणशब्दोऽणन्तः। छात्रशब्दः छत्त्रादिभ्यो णः (4.4.62) इति णप्रत्ययान्तः। कन्याशब्दः स्वरितान्तः इति। अध्न्यादिषु (द।उ।8।14) तथा भूतस्यैव पाठात्। राजसुखं राजप्रीयम् इति। अत्र यद्यपि सुखप्रिययोः प्रीत्यव्यभिचारित्वात्? प्रीतिर्गम्यते, तथाप्यतिशयेन या प्रीतिः सा न गम्यत इति भवति प्रत्युदाहरणम्॥
Prakriyasarvasvam¶
प्रीतौ योत्यायां सुखप्रिययोः परयोः प्राक्पदं प्रकृत्या स्यात् । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽध्यायः । द्वौ प्रत्ययान्तोदात्तौ । सुखप्रिययोः प्रीत्यव्यभि- चारित्वेऽपि प्रीतिग्रहोऽतिशयार्थः ।