62006: प्रतिबन्धि चिरकृच्छ्रयोः¶
Padacheda: प्रतिबन्धि | S | 1 | 1 |
चिर-कृच्छ्रयोः | S | 7 | 2 |
Sutrartha¶
Vasu English Summary¶
In a तत्-पुरुष समास having the words चिर or कृच्छ्र as its second member, the first member, when it denotes that which experiences an obstacle, preserves its original accent.
Vasu English Translation¶
In a तत्-पुरुष समास having the words चिर or कृच्छ्र as its second member, the first member, when it denotes that which experiences an obstacle, preserves its original accent. Thus ग꣡मनचिरम् or ग꣡मनकृच्छ्रम्, व्याह꣡रणचिरम् or व्याह꣡रणकृच्छ्रम् ॥ The words गमन and व्याहरण are formed by ल्युट् affix, and have लित् accent (6.1.193). This compound belongs either to the class of Mayura-vyansakadi (2.1.72), or of an attribute and the thing qualified. When going to a place is delayed owing to some defective arrangement or cause, or becomes difficult, there is produced an obstacle or hinderance, and is called गमनचिरं or गमनकृच्छ्रं ॥ Why do we say ‘which experiences a hinderance’? Observe मुत्रकृच्छ्रम् ॥
Kashika¶
तत्पुरुषे समासे चिरकृच्छ्रयोरुत्तरपदयोः प्रतिबन्धिवाचि पूर्वपदं प्रकृतिस्वरं भवति। गम॑नचिरम्। गम॑नकृच्छ्रम्। व्या॒हर॑णचिरम्। व्या॒हर॑णकृच्छ्रम्। गमनव्याहरणशब्दौ ल्युडन्तौ, तयोर्लित्स्वरः। गमनं च यत् चिरं चेति विशेषणसमासोऽयं मयूरव्यंसकादिर्वैष द्रष्टव्यः। गमनं हि कारणविकलतया चिरकालभावि कृच्छ्रयोगि वा प्रतिबन्धि जायते। प्रतिबन्धीति किम् ? मू॒त्र॒कृ॒च्छ्रम्॥
Siddhanta Kaumudi¶
प्रतिबन्धवाचि पूर्वपदं प्रकृत्या एतयोः परतस्तत्पुरुषे । गमनचिरम् । व्याहरणकृच्छ्रम् । गमनं कारणविकलतया चिरकालभावि कृच्छ्रयोगि च प्रतिबन्धि जायते । प्रतिबन्धि किम् । मूत्रकृच्छ्रम् ॥
Padamanjari¶
कार्यसिद्ध प्रतिबध्नातीति प्रतिबन्धि, आवश्यके णिनिः । विशेषणसमास इति । ननु च सामानाधिकरण्ये सति स भवति, न चेह तदस्ति गमनशब्दस्य गतिवाचित्वात् चिरशब्दस्य च कालवाचित्वात् नैष दोषः चिरकालभाविनि गमनेऽत्र चिरशब्दो वर्तते । मयूरव्यंसकादिर्वैष इति । गमनमत्र विशेष्यम्, तद्विशेषणे तु चिरकृच्छ्रे, अतो विशेष्यस्य पूर्वनिपातार्थं मयूरव्यासकादित्वमेष्टव्यमिति भावः । पूर्वपदस्य प्रतिबन्धिवाचित्वमुपपन्नयति । गमनं हीत्यदि । कराणनैकल्याद्धि चिरकारभावि गमनं कृच्छ्रयोगि च, कृच्छ्रम् - दुःखम्, तद्योगि च कार्यसिद्धेः प्रतिबन्धि जायते ॥
Nyaas¶
कार्यसिदिंध प्रतिवध्नाति विहन्तीति प्रतिबन्धि। ताच्छील्य आवश्यके वा णिनिः। विशेषणसमासे कृते इति। ननु च विशेषणसमासः सामानाधिकरण्ये भवति; न चेदं सामानाधिकरण्यम्, कथं पुनरत्र पूर्वपदं प्रतिबन्धि भवति? इत्याह -गमनम् इत्यादि। अचिरकालभाविनि गमने कार्यसिद्धिर्निष्पद्यते। कृच्छ्रयोगि च इति। कृच्छ्रम्=दुःखम्, तद्योगिनि गमने गन्ता प्राप्यमर्थं दुःखेनाभिहन्यमानो न प्राप्नोति तस्माच्चिरकालभावि कृच्छ्रयोगि वा यद्? गमनं तत्? कार्यसिद्धेः प्रतिबन्धि जायते॥
Prakriyasarvasvam¶
प्र³तिबन्धार्थे प्राक् पदं प्रकृत्या स्यात् । गमनचिरम् । गमनकृच्छ्रम् । विशेषण- समासे मयूरव्यंसकादित्वात् परनिपातः । अङ्गवैकल्यात् चिरकृच्छ्रत्वे गमनस्य प्रतिबन्धके ।