62001: बहुव्रीहौ प्रकृत्या पूर्वपदम्¶
Padacheda: बहुव्रीहौ | S | 7 | 1 |
प्रकृत्या | S | 3 | 1 |
पूर्वपदम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
In a बहुव्रीहि समास the first member preserves its own original accent.
Vasu English Translation¶
In a बहुव्रीहि समास the first member preserves its own original accent. The word पूर्वपदम् means here the accent-whether udatta or svarita - which is in the first member: प्रकृत्या means, retains its own nature, does not become modified into an anudatta accent. By the rule (6.1.223), the final of a compound gets the accent, so that all the preceding members lose their accent and become anudatta, as in one word all syllables are unaccented except one. (6.5.158). Thus the first member of a Bahuvrihi would have lost its accent and become anudatta; with the present sutra commences the exceptions to the rule that the final of a compound is always, udatta. Thus का꣡र्ष्णोत्तरासङ्गाः ॥ The word कार्ष्ण is derived by the Taddhita affix अञ् (4.3.154) from कृष्ण ‘a kind of antelope;’ and has the ञित् accent (6.1.197) i. e. on the first syllable: which the word preserves in the compound also. So also यू꣡पवलजः; the word यूप is derived from यु by the Unadi affix प (Unadi III.27.), before which the vowel becomes lengthened (Unadi III.25) and the affix is treated as नित् (Unadi III.26), and hence the word is acutely accented on the first syllable (6.1.197). So also ब्रह्मचारि꣡ परिस्कन्दः; the word ब्रह्मचारिन् has a Krit formed word as its second part, and gets the acute on the final (6.2.139). So also स्ना꣡तकपुत्रः, the word स्नातक is derived by कन् (5.4.29) affix and has नित् accent (6.1.197) i. e. udatta on the first syllable. So also अध्या꣡पकपुत्रः, the word अध्यापक is accented on the middle as it is formed by a लित् affix (3.1.133), (6.1.193). श्रो꣡त्रियपुत्रः, the श्रोत्रिय being enounced with an indicatory न् in Sutra (5.2.84) is acutely accented on the first. मनुष्य॑नाथः, the word मनुष्य being formed by यत् (4.1.161) a तित् affix is svarita (6.1.185).
The words udatta and svarita are understood in this aphorism. Therefore if all the syllables of the purvapada are anudatta, the present rule has no scope there, and such a compound will get udatta on the final by the universal rule enunciated in (6.1.223). Thus समभागः꣡, here सम being all anudatta, the accent falls on ग ॥
Bhashya¶
बहुव्रीहौ प्रकृत्या पूर्वपदम् (2661) (पूर्वपदप्रकृतिस्वराधिकरणम्) (सूत्राक्षेपभाष्यम्) किमर्थमिदमुच्यते ? (सूत्रप्रयोजने श्लोकवार्तिकम्) बहुव्रीहिस्वरं शास्ति समासान्तविधेः सुकृत् । सुकृत् - आचार्यः समासान्तोदात्तत्वे प्राप्ते बहुव्रीहिस्वरमपवादं शास्ति ॥ (प्रयोजनाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम् ॥ (सूत्रप्रयोजनाभावबोधकं श्लोकवार्तिकम्) नञ्ञ्सुभ्यां नियमार्थं तु नञ्ञ्सुभ्याम् (6.2.172) इत्येतन्नियमार्थं भविष्यति । नञ्ञ्सुभ्यामेव बहुव्रीहेरन्त उदात्तो भवति, नान्यतः - इति ॥ (आक्षेपसमर्थकभाष्यम्) एवमपि कुत एतत् - पूर्वपदप्रकृतिस्वरत्वं भविष्यति, न पुनः परस्येति ॥ परस्य शिति शासनात् ॥ 1 ॥ शितेर्नित्याबह्वच्- (138) इत्येतन्नियमार्थं - भविष्यति शितेरेव, नान्यत इति ॥ (आक्षेपनिरासभाष्यम्) यत्तावदुच्यते - नञ्ञ्सुभ्यामित्येतन्नियमार्थमिति । (नियमाक्षेपे श्लोकवार्तिकम्) क्षेपे विधिर्नञ्ञोऽसिद्धः उदराश्वेषुषु क्षेपे (107-108) इत्येतस्मिन् प्राप्ते तत एतदुच्यते ॥ (आक्षेपनिरासभाष्यम्) यदप्युच्यते - परस्य शिति शासनादिति । (नियमाक्षेपे श्लोकवार्तिकम्) परस्य नियमो भवेत् । परस्यैष नियमः स्यात् - शितेर्नित्याबह्वजेव, नान्यदिति ॥ (सूत्राक्षेपभाष्यम्) यदि तर्हि पूर्वपदप्रकृतिस्वरत्वं समासान्तोदात्तत्वं बाधते, चप्रियः - वाप्रियः अत्रापि बाधेत । (समाधाने श्लोकवार्तिकम्) अन्तश्च वा प्रिये सिद्धमन्तोदात्तत्वं च वा प्रिये सिद्धम् । (समाधानजिज्ञासाभाष्यम्) कुतः ? (समाधानसाधकं श्लोकवार्तिकम्) संभवात् असति खल्वपि संभवे बाधनं भवति, अस्ति च संभवो यदुभयं स्यात् ॥ (समाधानाक्षेपभाष्यम्) सत्यपि संभवे बाधनं भवति । तद्यथा - दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायेति सत्यपि संभवे दधिदानस्य तक्रदानं निवर्तकं भवति । एवमिहापि सत्यपि संभवे पूर्वपदकृतिस्वरत्वं समासान्तोदात्तत्वं बाधिष्यते ॥ (वार्तिकावतरणभाष्यम्) एवं तर्हि - (समाधाने श्लोकवार्तिकम्) प्रकृताद्विधेः ॥ 2 ॥ बहुव्रीहौ प्रकृत्या पूर्वपदं प्रकृतिस्वरं भवतीति । किं च प्रकृतम् ? उदात्त इति वर्तते ॥ एवमपि कार्यप्रियः - हार्यप्रियः इत्यत्र न प्राप्नोति । स्वरितेऽप्युदात्तोऽस्ति । अथवा स्वरितग्रहणमपि प्रकृतमनुवर्तते । क्व प्रकृतम् ? तित्स्वरितम् (6.1.185) इति ॥ (पदकृत्ये श्लोकवार्तिकम्) बहुव्रीहावृते सिद्धमन्तरेणापि बहुव्रीहिग्रहणं सिद्धम् । तत्पुरुषे कस्मान्न भवति ? तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्यवद्वितीयाकृत्याः (6.2.2) इत्येतन्नियमार्थं भविष्यति । द्विगौ तर्हि कस्मान्न भवति ? इगन्ते द्विगावित्येतन्नियमार्थं भविष्यति । द्वन्द्वे तर्हि प्राप्नोति । राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु (6.2.34) इति नियमार्थं भविष्यति । अव्ययीभावे तर्हि प्राप्नोति । परिप्रत्युपापा र्वज्यमानाहोरात्रावयवेषु (6.2.33) इत्येतन्नियमार्थं भविष्यति ॥ (ःइष्टनियमसम्भवबोधकं भाष्यम्) एवमपि कुत एतत् - एवं नियमो भविष्यति - एतेषामेव तत्पुरुषादिषु - इति, न पुनरेवं नियमः स्यात् - एतेषां तत्पुरुषादिष्वेव - इति ॥ (ःइष्टनियमे श्लोकवार्तिकम्) इष्टतश्चावधारणम् । इष्टतश्चावधारणं भविष्यति । (ःइष्टनियमाक्षेपभाष्यम्) एतेषां तर्हि बहुव्रीहेश्च पर्यायः प्राप्नोति ॥ (समाधाने श्लोकवार्तिकम्) द्विपाद्दिष्टेर्वितस्तेश्च पर्यायो न प्रकल्पते ॥ 3 ॥ यदयं द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ दिष्टिवितस्त्योश्च (6-2-197, 31) इति सिद्धे पर्याये पर्यायं शास्ति तज्ज्ञापयत्याचार्यः - पर्यायो न भवतीति ॥ (ज्ञापनसमर्थकं श्लोकवार्तिकम्) उदात्ते ज्ञापकं त्वेतत् । उदात्त एतज्ज्ञापकं स्यात् ॥ (ज्ञापकसमर्थकं श्लोकवार्तिकम्) स्वरितेन समाविशेत् ॥ स्वरितेन च समावेशः प्राप्नोति । स्वरितेऽप्युदात्तोऽस्ति ॥ (संग्रहः) बहुव्रीहिस्वरं शास्ति समासान्तविधेः सुकृत् । नञ्ञ्सुभ्यां नियमार्थं तु परस्य शिति शासनात् ॥ 1 ॥ क्षेपे विधिर्नञ्ञोऽसिद्धः परस्य नियमो भवेत् । अन्तश्च वा प्रिये सिद्धं संभवात्प्रकृताद्विधेः ॥ 2 ॥ बहुव्रीहावृते सिद्धमिष्टतश्चावधारणम् । द्विपाद्दिष्टेर्वितस्तेश्च पर्यायो न प्रकल्पते ॥ 3 ॥ उदात्ते ज्ञापकं त्वेतत्स्वरितेन समाविशेत् ॥
Kashika¶
पूर्वपदग्रहणमत्र पूर्वपदस्थे स्वर उदात्ते स्वरिते वा वर्तते। बहुब्रीहौ समासे पूर्वपदस्य यः स्वरः स प्रकृत्या भवति, स्वभावेनावतिष्ठते, न विकारमनुदात्तत्वमापद्यते। समासान्तोदात्तत्वे हि सति अनुदात्तं पदमेकवर्जम् (६.१.१५८) इति सोऽनुदात्तः स्यादिति समासान्तोदात्तत्वापवादोऽयमारभ्यते। कार्ष्णो॑त्तरासङ्गाः। कृष्णो मृगस्तस्य विकारः कार्ष्णः। प्राणिरजतादिभ्योऽञ् (४.३.१५४) इत्यञ्प्रत्ययान्तो ञित्स्वरेणाद्युदात्तः। यूप॑वलजः। यूपशब्द उणादिषु कुसुयुभ्यश्च (द०उ० ७.५) इति पप्रत्ययान्तः। तत्र च दीर्घ इति निदिति च वर्तते, तेनाद्युदात्तः। ब्र॒ह्म॒चा॒रिप॑रिस्कन्दः। ब्रह्मचारिशब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः। स्नात॑कपुत्रः। स्नातकशब्दः कन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः। अ॒ध्याप॑कपुत्रः। लित्स्वरेणाध्यापकशब्दो मध्योदात्तः। श्रोत्रि॑यपुत्रः। श्रोत्रियशब्दो नित्त्वादाद्युदात्तः। म॒नु॒ष्य॑नाथः। मनुष्यशब्दः तित् स्वरितम् (६.१.१८५) इति स्वरितान्तः। उदात्तग्रहणं स्वरितग्रहणं चात्रानुवर्तते, तेन सर्वानुदात्ते पूर्वपदे विधिरेव नास्तीति समासान्तोदात्तत्वं भवति — स॒म॒भा॒ग इति। समशब्दो हि सर्वानुदात्तः॥
Siddhanta Kaumudi¶
उदात्तस्वरितयोगि पूर्वपदं प्रकृत्या स्यात् । सत्यश्चित्रश्रवस्तमः (स॒त्यश्चि॒त्रश्र॑वस्तमः) । उदात्तेत्यादि किम् । सर्वानुदात्ते पूर्वपदे समासान्तोदात्तत्वमेव यथा स्यात् । समपादः ॥
Padamanjari¶
इह यस्य विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः। न च कृत्स्नस्य पूर्वपदस्य शेषनिघातलक्षणो विकारः प्राप्तः किन्तु तत्स्थयोरुदातस्वरितयोरेव, तस्मात्योरेव पूर्वपदशब्दो वर्तते,तदाह - पूर्वपदग्रहणमित्यादि। समासान्तोदातत्वे हीत्यादिना विकारप्राप्तिं दर्शयति। समासान्तोदातत्वापवादोऽयमिति। नाप्राप्ते तस्मिन्नारम्भात् । ननु च यत्र सामान्यविधिप्रपृतिमनपेक्ष्य विशेषविधिप्रवृत्तिस्तत्रापबादत्वम्, यथा - कर्मण्यण् आतोऽनुपसर्गे कः इति इह तु सत्यां विकारप्राप्तौ प्रकुतिभावो विधेयः, विकारप्राप्तिश्च समासस्येत्यस्मिन् प्रववृत इति कथं तत्प्रवृत्यपेक्षस्तदपवादः, अतः समासस्येत्यस्मिन्प्रवृते प्राप्तस्य शोषनिधातस्यैवायमपवादो युक्तः नैतदेधम, यद्ययं निघातापवादः स्यात्, तत्रैवायं ब्रूयाद् - अनुदातम्पदमेकवर्जम बहुव्रीहौ पूर्यपदम् इति । नन्वेवनुत्यमाने समपाद इत्यादौ स्वाभाविकस्यापि पूर्वपदानुदातस्य प्रतिषेधप्रसङ्गः, किं कारणमनन्तरस्य विधिर्वा भवति प्रतिपेधो वा इति तस्मात्समासस्येतेयस्यानन्तरमारभ्यमाणस्तस्यैवायमपवादः। ननु चेक्तम् - कथं तत्प्रवृकत्यपेक्षस्तदपवादः इति उच्यते निदानएच्छेदेन निदानिन उच्छेदः शक्यते कर्तुम्, समासान्तोदातत्वं च शेषनिधातलक्षणस्य पूर्वपदविकारस्य निदानम्, अतस्तदभावद्वयोरेण निदानभूतस्य समासान्तोदातस्यैवास्मिन् विषयेऽप्रवृत्तिराख्यायते । नन्वेवं नानापदस्वरप्राप्तौ समाससान्तोदातस्यारम्भातदप्रवृतौ द्वयोरपि पूर्वेतरपदयोः प्रकृत्स्वरप्रसङ्गः, तथा हि सति न बहुव्रीहेः इति समासान्तोदातत्वमेव प्तिपेवेत्, अस्तु वा समासान्तोदातत्वम्, अस्तु वा सोषविधातः, पश्चातु प्रकृत्वेत्यनेन स्वरविशेशमुपलक्ष्य स स्वरः पूर्वपदस्य विधीयते, शेषविधातात्प्राक् पूर्वपदास्य प्रकृत्या यः स्वरस्तत्स्वरकं पूर्वपदं बहुव्रीहौ भवतीतिः यदि वा प्रकृत्या इत्यनेनस्वरविशेषे उपलक्षिते सत्ययमर्थो भवति बहुव्रीहौ पूर्वपदस्य स्वभाविको यः स्वर आद्यौदातत्वादिकः स भवतीति, एवं च यथा पूर्वपदस्यादिरुदातो भवतीत्युक्तेन समासस्येत्येतत्प्रवृत्यपेक्षा, तादृगोतदिति युज्यते तदपवादता। कृष्णो मृग इति। यस्याजिनं कृष्णाजिनमित्युच्यते। ब्रह्मचारिन्शब्दः कृदुतरपदप्रकृतिस्वरेणान्तोदात इति। तथा चाधीयते - एब्रह्मचारी चरति विषयद्विषाम्। कस्य ब्रह्मचार्यसीत्यादौ णिनिः, पूर्वपदाद्यौत दातत्वं तु न भवति, प्रवृद्धादिषु पाठादाकुतिगणो हि स इष्यते । वृतौ तु कृदुतरपदप्रकृतिस्वरेणेत्युपलक्षणम् । अपर आह-च्छन्दसि परादिश्च परान्तश्च इत्यन्तेदातत्वम्। वृतेस्त्वयमर्थः - ब्रह्मएव चरति ब्रह्मचारीत्युपमानमत्र पूर्वपदम्, ततः किमुपमानं शब्दार्थप्रकृतावेव इति नियमात्कृदुतरपदप्रकृतिस्वर एव भवतीति । स्नातकशब्दः कन्प्रत्ययान्त इति। यावादिषु स्नात वेदसमाप्तौ इति पठ।ल्ते । मनोर्जातावञ्यतौ षुक्च, मनुष्यः । यदि तर्ह्मयं प्रकृतिभावः समासान्तोदातत्वं बाधते, सर्वानुदातेऽपि पूर्वपदे बाधेत, तत्रापि ह्यस्य प्रवृत्तिर्न केनचिद्वार्यते, विशेषविधिश्च प्रवर्तमानः सत्यपि सम्भवे, सामान्यविधेर्बाधको भवति, तक्रदानमिव दधिदानस्य इत्यत आह - उदातग्रहणमित्यादि । न्यायतेऽप्ययमर्थः सिद्धः, कथं यस्य विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः, विकारप्राप्तिश्चोदातस्वरितयोरेव, अत एव पूर्वमुक्तमुदाते स्वरिते वा वर्तते इति। समभाग इति । समशब्दः सुञो डमप् इति व्युत्पादितः सर्वानुदाततः । नन्वत्रासत्यपि समासान्तोदातत्वे भागशब्दस्य कर्षात्वतः इति अन्तोदातात्वत् समाभागशब्दोऽन्तोदात एव भविष्यति। तस्मादुदाहराणदिगियं दर्शिता, समपाद इत्युदाहर्तव्यम्, पादशब्दो वृषादित्वादाद्यौदातः। किमर्थं पुनरिदमुच्यते पूर्वपदप्रकृतिस्वरो यथा स्यात्, समासान्तोदातत्वं मा भूदिति,नञ्सुभ्याम् इत्येतन्नियमार्थं भविष्यति - यदि बहुव्रीहौवन्तोदातत्वं भवति नञ्सुभयामेवेति। न चैवं नानापदस्वरप्राप्तौ समासान्तोदातत्वविधानान्नियमेन तस्मिन्व्यावितितेऽपि पूर्वोतरापदयोर्द्वयोरपि पर्यायोण प्रकृतिस्वरप्रसङ्गः, एशितेर्नित्याबह्वच् इत्यस्य नियमार्थत्वात् यदि बहुव्रीहावुतरपदं प्रकृत्या भवति शितेरेव परमिति उच्यते नञ्सुभयाम् इत्येष तावन्नियमे नेपपद्यते अनुदरः, सूदर इत्यादौ उदाराश्वेषु क्षेपे इति पूर्वपदान्तोदातस्य प्राप्तस्य बाधनाद्विधिसम्भवात्। शितेर्नित्याबह्वच् इत्येतदपि - शितेर्नित्याबह्वजेवेत्यनेन नियमेत शीतिललाटादिषेवेवोतरपदाप्रकृतिस्वरं निवर्तयेत्, न चित्रगुप्रभृतिष्वित्यारभ्यमेवैतत् । बहुव्रीहिग्रहणं तु शक्यमकर्तुम् तत्पुरुषे कस्मान्न भवति तत्पुरुषे तुल्यार्थ इत्यादिनियमार्थं भविष्यति - तत्पुरुषे तुत्यार्थाद्येवेति, गन्तव्यपण्यमेव वाणिजे,गतादिष्वेवोतरवदेषु द्विगावित्यादि। द्वन्द्वे कस्मान्न भवति राजन्यबहुवचने इत्येतन्नियमार्थं भविष्यति - द्वन्द्वे भवति राजन्यबहुवचनद्वन्द्व एवेति। अव्ययीभावे कास्मान्न भवति परिप्रत्युपापावर्ज्यमान इत्यादि नियमार्थं भविष्यति - परिप्रत्थुपापा एवाव्ययीभाव इति । विपरीतस्तु नियमः सर्वत्र न भविष्यति नानिष्टार्था शास्त्रप्रवूतिरिति। एवमप्यसति बहुवीहिग्रहणे समासान्तोदातस्य पूर्वपदप्रकृतिस्वरस्य चैकविशयत्वाद्विरोधाच्च तुल्यश्वतः, पञ्चारत्निरित्यादौ पर्यायः प्राप्नोति तत्पुरुषादिषु तुल्यार्थादीन्येव पूर्वपदानि प्रकृतिस्वराणि भवन्ति नान्यानि इत्येव हि नियमः कृतः, न तुल्यार्थादिपूर्वपदेषु तत्पुरुपादिषु पूवपदाप्रकृतिस्वलत्वमेव इति । अथाम्यगृह्यमाणविशेषत्वादुभयनियमः तत्पुरुपादिषु तुल्यार्थादीन्येव, तेषु पूर्वपदप्रकृतिस्वरत्वमेवेति तथा च बह्वन्यतरस्याम् इति वर्तमाने दिष्टिवितस्त्योश्चेति विकल्पो विधीयते, पञ्चदिष्टिः, पञ्चवितस्तिरित्यादौ इगन्ते द्विगौ इति नित्यपूर्वपदप्रकृतिस्वरो मा भूदिति तथापि चित्रगुरित्यादौ बहुव्रीहौ पर्यायप्रसङ्गः, ज्ञापकात्सिद्धम्, यदयम् द्वित्रिभ्यां पाददन्मूर्द्धसु इति द्विपादित्यादावान्तोदातविकल्पं शास्ति, तज्ज्ञापयति - न बहुव्रीहावन्तोदातत्वं पर्यायोण भवतीति एवमप्युदातविषयमेव ज्ञापकं स्यात् - बहुव्रीहावन्तोदातत्वं पर्यायेण भवतीति । किञ्च स्यात् उदातस्वरितयोस्तु पूर्वोतरपदस्थयोः पर्यायप्रसङ्गः । न च स्वरिते य उदातस्तदाश्रयं ज्ञापकं युज्यते, अचो ह्युदातसंज्ञा, न च वर्णैकदेशो गृह्मते । अथ वर्णत्वावर्णत्वकृतं भेदमुत्सृन्योदातश्रुतिपरं ज्ञापकं वण्यैत, तदा बहुव्रीहिग्रहणं शक्यमकर्तुम् ॥ एतत्पुरुषे तुल्यार्थतुतीयसप्तम्युपमानाव्ययद्वितीयाकृत्या ॥ 6।2 - 2 ॥ सदृक्शब्दोऽपीत्यादि। कृदुतरपदप्रकृतीस्वरेणेत्येतदपेक्षते। कुमुदशब्दोऽपीत्यादि । तत्र यदा कप्रत्ययान्तस्तदा थाथादिस्वरेणान्तोदातः, तथा च अनुदातस्य च यत्रोदातलोपः इत्यत्र कुमुद्वानित्युदाहृतम्, उक्तं च - कुमुदातयोऽन्तोदाता इति। यदा त्वव्युत्पन्नं तदा नब्विषयस्यनिसन्तस्य इत्याद्यौदात इत्युक्तम् । अपर आह - जलजे नपुंसकविषयः कुमुदशब्दः, यस्तु वानरविशेषे कुमुदशब्दः स पुंल्लिङ्गः, तत्रेह जलजवाच्युदाहृतः, अनुदातस्य च इत्यत्र तु वानरवचन इति । दूर्वाकाण्डशरकाण्डशब्दावित्यादि। आद्यप्राप्तिप्रदर्शनमेतत्, षट् च कण्डादीनि इत्युतरपदाद्यौदातत्वेन तत्र भाव्यम्। नञ्कुनिपातानामिति। निपातत्वादेव सिद्धे नञ्ग्रहणमकरणिरित्यादौ परस्यापि कृत्स्वरस्य बाधनार्थम् । तथा चाव्यथीत्यत्रापि कृता सह निर्दिष्टो यत्र नञ्, तत्रापि नञ एव स्वरो भवति, तथा विभक्तिस्सरान्नञ्स्वरो बलीयान् भवति । कुग्रहणं तु चादिषु पाठाभावात्, पठितव्यस्त्वसौ, अन्यथाऽव्ययसंक्षा न स्यात स्वरादिष्वपि पाठाभावात् । स्नात्वाकालक इति । मयूरव्यंसकादिरयम् । यद्येवम्,स तत्रैवान्तोदातः पठिष्यते एवमपि परिगणनं कर्तव्यम्,सामिकृतम्,स्वयन्धौतमित्यादौ प्रकृतिरवरो मा भूदिति। इह कस्मान्न भवति-परमं कारकं परमकारकम्,परमेण कारकेण परमकारकेण,परमे कारके परमकारके इति न हि विशेषणसमासः प्रथमान्तानामेवेति नियमेऽस्ति । तेन द्वितीयाद्यन्तं पूर्वपदमित् चोद्यम् । परिहारस्तु लक्षणप्रतिपदोक्तपरिभाषया तृतीयादीनां प्रतिपदं यः समासस्तत्रायं स्वरः। अयं तु विभक्तिविशैषमनुपादाय विशेषणसमास इति ॥
Nyaas¶
पूर्वपदग्रहणम् इत्यादि। प्रकृतिभावो ह्यत्र तस्य यूज्यते विधातुम्, यस्यानुदात्तलक्षणो विकारः प्राप्नोति। नच पूर्वपदस्याज्झल्समुदायस्यासौ प्राप्नोति, किं तर्हि? स्वरितस्य, उदात्तस्य वा। तत्र यदीह पूर्वपदग्रहणं पूर्वपद एव वर्तते, अपार्थकमेवेदं वचनं स्यात्! तस्मात्? पूर्वपदस्ये स्वर उदात्ते स्वरिते वा पूर्वपदग्रहणं वर्तत इति विज्ञायते। भवति हि तात्स्थ्यात्? ताच्छब्द्यम्, यथा -मञ्चाः क्रोशन्ति इति। स्वभावेनावतिष्ठते इति। अनेन प्रकृत्या भवतीतयस्यार्थमाचष्टे। तमेव वाक्यान्तरेण स्पष्टीकर्त्तुमाह -विकारमनुदात्तत्वमापद्यते इति। कथं पनरनुदात्तलक्षणो विकारः प्राप्नोति, यन्निवृत्तये प्रकृतिभावोऽयमारभ्यते? इत्याह -समासान्तोदात्तत्वे हि सति इत्यादि। समासान्तोदात्तत्वापवादोऽयम् इति। नाप्राप्ते तस्मिन्नारम्भात्। कृष्णो मृगः इति। कृष्णगृणत्वात्। आद्युदात्तः इति। ञित्स्वरेण। तत्र च इत्यादि। तत्र स्तुवो दीर्घश्च (द।उ7।4) इति दीर्घग्रहणमनुवर्तते। सुशृभ्यां निच्च (द।उ।7।6) [सृशृभ्यामूर्च -द।उ।] इत्यतो निच्चेति च। तेनाद्युदात्तः इति। नित्स्वरेण। कृदुत्तरपद इत्यादि। ब्राहृचारीति व्रते (3.2.80) इति णिनिः, उपपदसमासः। तत्र गतिकारकोपपदात् कृत् (6.2.139) इति ब्राहृचारीति शब्दः कृत्स्वरेणान्तोदात्तः। स्नातकशब्दः कन्प्रत्ययान्तः [स्नातशब्दः -मुद्रितः पाठः - काशिका] इति। क्षोत्रियँश्छन्दोऽदीते` (5.2.73) इति निपात्यते, तेन नित्सवरेणाद्युदात्तः। मनुष्यशब्दस्तित्स्वरितमिति इति। मनोर्जातावञ्यतौ षुक्च (4.1.161) इति यत्प्रत्ययान्तत्वात्। उदात्तग्रहणम् इत्यादि। तत्रोदात्तग्रहणम्? कर्षात्वतो घञोऽन्त उदात्तः (6.1.159) इत्यतोऽनुवर्तते। स्वरितग्रहणम् इति। तित्? स्वरितम् (6.1.1।85) इत्यतः। ततः किं सिद्धं भवति? इत्याह -तेन इत्यादि। उदात्तसरितानुवृत्तेह्र्रेतदेव प्रयोजनम् -यत्रोदात्तः स्वरितो वास्ति तत्रैव यता स्यात्। समशब्दो हि सुनोतेर्डमप् () इति डमप्प्रत्ययान्तो व्युत्पाद्यते, तेन धातोष्टिलोपे कृते प्रत्ययस्य पित्त्वात्? सर्वानुदात्तो भवति॥
Prakriyasarvasvam¶
अत्र पूर्वपदस्वरः प्रकृत्या स्यात् । सुतसोमाः अहर्विदः । पञ्चाक्षरा पङ्क्तिः । ‘संख्यायाः’ (फि. सू. २८) नकाररेफान्तायाः द्व्यचः संख्याया आदिरुदात्तः स्यादिति पञ्चन्नाद्युदात्तः ।