61218: चङ्यन्यतरस्याम्

Padacheda: चङि | S | 7 | 1 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The acute accent may be optionally on the penultimate syllable of the reduplicated Aorist in चङ् , the word consisting of more than two syllables.

Vasu English Translation

The acute accent may be optionally on the penultimate syllable of the reduplicated Aorist in चङ् , the word consisting of more than two syllables. Thus मा हि चीकर꣡ताम् or चीक꣡रताम् ॥ The augment अट् is elided by the addition of मा, (6.4.74); हि prevents the verb from becoming anudatta (8.1.34) then comes the चित् accent of चङ् ॥ The augmented form with अट् has acute always on the first syllable (6.4.71). When the word is of less than three syllables, the rule does not apply, as, माहि दध꣡त् ॥

Kashika

चङन्तेऽन्यतरस्यामुपोत्तममुदात्तं भवति। मा हि ची॒क॒रता॑म् मा हि ची॒कर॑ताम्। न माङ्योगे (६.४.७४) इत्यटि प्रतिषिद्धे हि च (८.१.३४) इति निघातेऽदुपदेशादिति लसार्वधातुकानुदात्तत्वे (६.१.१८६) कृते चङ एव स्वरे प्राप्ते पक्षे धात्वकार उदात्तो भवति। उपोत्तमग्रहणाद् द्व्यचो न भवति। मा हि द॒धत्॥

Siddhanta Kaumudi

चङन्ते धातावुपोत्तममुदात्तं वा । मा हि चीकरताम् । धात्वकार उदात्तः । पक्षान्तरे चङुदात्तः ॥ इति धातुस्वराः ॥

Nyaas

मा हि चीकरताम् इति। सन्वल्लघुनि चङ्परेऽनग्लोपे (7.4.93) इत्यभ्यासस्येत्त्वम्। अटि प्रतिषिद्धे इति। यद्यटः प्रतिषेधो यस्य तस्यैव स्वरः स्याद्धात्वकारस्य। हि च इति निघातः इति। प्रतिषिद्ध इत्यपेक्षते। यदि निघातो न प्रतिषिध्येत, तदा चङन्तस्योदात्तस्याभाव एव स्यात्। मा हि दधत् इति। विभाषा धेट्श्व्योः (3.1.49) इति च्लेश्चङ्॥

Prakriyasarvasvam

चङन्तस्योपान्त्यमुच्चं वा स्यात् । मा हि चीर्करत् । पक्षे चङः प्रत्ययस्वरः । अपित्त्वचङोऽदुपदेशत्वात् ‘तास्यनुदात्तेत्’- (६-१-१८६) इति नामादेरनुच्च- त्वम् । मा हि चीकरताम् । इत्यादि ।