61216: त्यागरागहासकुहश्वठक्रथानाम्

Padacheda: त्याग-राग-हास-कुह-श्वठ-क्रथानाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

The acute accent is optionally on the first syllables of त्याग , राग , हास , कुह , श्वठ , and क्रथ।

Vasu English Translation

The acute accent is optionally on the first syllables of त्याग , राग , हास , कुह , श्वठ , and क्रथ। Thus त्या꣡गः or त्यागः꣡, रा꣡गः, रागः꣡, हा꣡सः, हासः꣡ ॥ These are formed by घञ् affix and by (6.1.159) would take acute on the final, this ordains acute on the first syllable also. कु꣡हः or कुहः꣡, श्व꣡ठः or श्वठः, क्रथः॒ or क्र॒थः formed by अच् (3.1.13).

Kashika

त्याग राग हास कुह श्वठ क्रथ इत्येतेषां विभाषादिरुदात्तो भवति। त्यागः॑, त्या॒गः। रागः॑, रा॒गः। हासः॑, हा॒सः। एते घञन्तास्तेषां पक्षे कर्षात्वतो घञोऽन्त उदात्तः (६.१.१५९) इत्युदात्तत्वमेव भवति। कुहः॑, कु॒हः। श्वठः॑, श्व॒ठः। क्रथः॑, क्र॒थः। एते पचाद्यजन्ताः॥

Siddhanta Kaumudi

आदिरुदात्तो वा । आद्यास्त्रयो घञन्ताः । त्रयः पचाद्यजन्ताः ॥

Padamanjari

‘कुह विस्मापने’ ,’श्वठ क्रथ भाषणो’ चौरादिकावदन्तौ। निधाकतस्यैवायमपवादो युक्तः ? नैतदेवम्; यद्ययं निघातस्यापवादः स्यात्, तत्रैवायं ब्रूयात् - ठनुदातं पदमेकवर्जम्, न हि स्वार्थम् ॥

Nyaas

कुह विस्मापने, (धातुपाठः-1901) शठ आठ सम्यगवभाषणे (धातुपाठः-1854,1855) - एतौ चौरादिकौ। श्रथ श्लथ क्रथ वलथ हिंसार्थाः (धा।पा799,801,802)॥

Prakriyasarvasvam

एषामादिरुच्चो वा स्यात् । त्रयो घञन्ताः । अन्येऽजन्ताः ।