61202: जयः करणम्¶
Padacheda: जयः | S | 1 | 1 |
करणम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The acute accent falls on the first syllable of जय , in the sense of ‘whereby one attains victory’.
Vasu English Translation¶
The acute accent falls on the first syllable of जय , in the sense of ‘whereby one attains victory’. Thus ज꣡योऽश्वः, but otherwise जयो वर्त्तते ब्राह्मणानाम् ॥ The former जय is by प affix, (3.1.118) the second by अच् (3.2.31) ॥
Kashika¶
जयशब्दः करणवाची आद्युदात्तो भवति। जयन्ति तेनेति जयः। पुंसि संज्ञायां घः प्रायेण (३.३.११८) इति घस्तस्य प्रत्ययस्वरः प्राप्तः। जयोऽश्वः॑। करणमिति किम् ? ज॒यो वर्तते ब्राह्मणानाम्। अत्रापि एरच् (३.३.५६) इत्ययमजन्तः॥
Siddhanta Kaumudi¶
करणवाची जयशब्द आद्युदात्तः स्यात् । जयत्यनेन जयोऽश्वः ॥
Nyaas¶
जयः इति। जि ज्रि अभिभवे (धातुपाठः-946,947) इत्यस्य जयते रूपमेतत्। जयो ब्राआहृणानाम् इति। भावे एरच् (3.3.56) ॥