61179: षट्त्रिचतुर्भ्यो हलादिः

Padacheda: षट्-त्रि-चतुर्भ्यः | S | 5 | 3 |

हलादिः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The case-endings beginning with a consonant, have the acute accent after the Numerals called षट् (1.1.24), as well as after त्रि and चतुर् ।

Vasu English Translation

The case-endings beginning with a consonant, have the acute accent after the Numerals called षट् (1.1.24), as well as after त्रि and चतुर् । The anuvritti of अन्तोदात्ताद् ceases, for the present rule applies even to words like प꣡चन् and न꣡वन् which are acute on the initial by Phit II.5. Thus षण्णा꣡म्, षड्भिः꣡, षड्भ्यः꣡, पंचाना꣡म्, सप्ताना꣡म्, त्रिभिः꣡, त्रिभ्यः꣡, त्रयाणा꣡म्, चतुर्णा꣡म् (See VII.1.55). Why do we say ‘before case-affixes beginning with consonants’? Observe च꣡तस्रः पश्य (6.1.167) and (7.2.99).

Kashika

अन्तोदात्तादित्येतद् निवृत्तम्। षट्संज्ञकेभ्यस्त्रि चतुर् इत्येताभ्यां च परा हलादिर्विभक्तिरुदात्ता भवति। ष॒ड्भिः। ष॒ड्भ्यः। प॒ञ्चा॒नाम् (तै० सं० १.६.१.२)। ष॒ण्णाम्। स॒प्ता॒नाम् (ऋ० ८.२८.५)। त्रि — त्रि॒भिः (ऋ० १.३४.११)। त्र्िाभ्यः। त्र॒या॒णाम् (तै० सं० ३.४.३.८)। चतुर् — च॒तु॒र्णाम् (ऋ० ८.७४.१३)। हलादिरिति किम्? चत॑स्रः (ऋ० १.६२.६) पश्य॥

Siddhanta Kaumudi

एभ्यो हलादिर्विभक्तिरुदात्ता । आषङ्भिर्हूयमानः (आष॒ड्भिर्हू॒यमा॑नः) । त्रिभिष्ट्वं देव (त्रिभिष्ट्वं दे॑व) ॥

Padamanjari

अन्तोदातादिति निवृतमिति। यद्येतदनुवर्तेत पञ्चानाम्, नवानाम्, चतुर्मामित्यत्र न स्यात्;’न्रः संख्याया’ इत्याद्यौदातत्वात्, क्व तर्हि स्यात् ? सप्तानाम्, अष्टानाम्। सप्ताष्टशब्दौ घृतादित्वादन्तोदातौ।’न्रः’ इति रेफनकारान्ताया इत्यर्थः। चतस्रः पश्येति। यथैतदिह हलादिग्रहणस्य व्यावर्त्यं तथा’चतुरः शसि’ इत्यत्रावोचाम ॥

Nyaas

अन्तोदात्तादित्येतन्निवृत्तम् इति। यद्येतदनुवर्तेत, पञ्चानाम्, सप्तानाम्, चतुर्णामित्यत्र न स्यात्। पञ्चादीनां शब्दादीनां न्रः संख्यायाः (फि।सू।2।28) इत्युदात्तत्वात्? `न्रः इति रेफनकारान्तयोः संख्याशब्दयोग्र्रहणम्॥

Prakriyasarvasvam

एभ्यः परो हलादिसुबुदात्तः स्यात् । षड्भिर्हूयमानः । पञ्चानां त्वां पञ्चजनानाम् । उत त्रिषु । शीर्षा चतुर्णाम् । ४९७३. न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः (६. १. १८२) ‘सावेकाचः—’ (६-१-१६८) ‘अन्तोदात्तात्—’ (६-१-१६९) ह्रस्व- नुड्भ्याम्—’ (६-१-१७६) इत्येभिर्यदुक्तं तन्न स्यात् । गवां नेत्री । गोभ्यो गातुम् । सुगुना शुना । परमशुना । सौ प्रथमैकवचनेऽवर्णान्तात्—तेभ्यो गोधाः । त्वयां वयं प्रवतः । स गृणानो अद्भिर्देवान् राजेः क्विपि राट् । राजा । परमराजा । अङिति सनकारोक्तेः क्विनि नलोपहीनापूजाञ्चतिग्रहः । प्राञ्चा । नलोपे तूदात्तः स्यात् । प्राचा । क्रुञ्चा परमक्रुञ्च । कृदिति कृञ् कृन्ततिर्वा क्विबन्तः । कृता । सत्कृता ।