61170: अञ्चेश्छन्दस्यसर्वनामस्थानम्¶
Padacheda: अञ्चेः | S | 5 | 1 |
छन्दसि | S | 7 | 1 |
असर्वनामस्थानम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् , the case-endings other than the सर्वनामस्थान , get the acute accent when coming after अञ्चि।
Vasu English Translation¶
In the छन्दस् , the case-endings other than the सर्वनामस्थान , get the acute accent when coming after अञ्चि। In the Vedas, a stem ending in the word अञ्च्, has the acute not only on the affixes previously mentioned, but on the accusative plural affix also. Thus इन्द्रा द॒धीची꣡ अस्थभिः (Rig I.84.13). Here the word दधीच् had accent on धी by (6.1.222), but by the present sutra, the accent falls on the case-affix अस् ॥ Though the anuvritti of “Instrumentals and the rest” was understood here, the word asarvanamasthana has been used here to include the ending शस् also. As प्रतीचा꣡ बाहून् प्रतिभङ्व्येषाम् ॥
Kashika¶
अञ्चे परासर्वनामस्थानविभक्ति रुदात्ता भवति छन्दसि विषये। इन्द्रो॑ दधी॒चो अ॒स्थभिः॑ (ऋ० १.८४.१३)। चौ (६.१.२२२) इति पूर्वपदान्तोदात्तत्वं प्राप्तम्। तृतीयादिरिति वर्तमाने शसोऽपि परिग्रहार्थमसर्वनामस्थानग्रहणम्। इहापि यथा स्यात् — प्॒रती॒चो बा॒हून् प्रति॑ भङ्ध्येषाम् (ऋ० १०.८७.४) इति॥
Siddhanta Kaumudi¶
अञ्चेः परा विभक्तिरुदात्ता । इन्द्रो दधीचः (इन्द्रो॑ दधी॒चः) । चाविति पूर्वपदान्तोदात्तत्वं प्राप्तम् । तृतीयादिरित्यनुवर्तमाने असर्वनामस्थानग्रहणं शस्परिग्रहार्थम् । प्रतीचो बाहूनू (प्र॒ती॒चो बा॒हूनू) ॥
Padamanjari¶
दधीचेति। दध्यञ्चतीति ठृत्विक्ऽ इत्यादिना क्विन्, अनुनासिकलोपः, ठचःऽ इत्यकारलोपः,’चौ’ इति दीर्घत्वम्। शसोऽपि परिग्रहर्थमिति। शसादिग्रहणं तु न कृतम्, नपुंसके शसि मा भूत्, सुटि च यथा स्यादिति ॥
Nyaas¶
इन्द्रो दधीचः इति। दध्यञ्चतीति ऋत्विक् (3.2.59) इत्यादिना क्विन्? अनुनासिकलोपः, षष्ठएकवचनम्, अचः (6.4.138) इत्यकारलोपः, चौ (6.3.137) इति दीर्घः। तृतीयादिः इत्यादि। यदि सर्वनामस्थानग्रहणं क्रियते तदा शसो न स्यात्; तस्यातृतीयादित्वात्। अथापि तृतीयादिग्रहणं निवर्त्त्यत, एवमपि सर्वनामस्थानेऽपि स्यात्। प्रतीचः इति। पूर्वेण तुल्यम्॥