61168: सावेकाचस्तृतीयादिर्विभक्तिः¶
Padacheda: सौ | S | 7 | 1 |
एकाचः | S | 5 | 1 |
तृतीयादिः | S | 1 | 1 |
विभक्तिः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The case affixes of the Instrumental and of the cases that follow it have the acute accent, if the stem in the Locative Plural is monosyllabic.
Vasu English Translation¶
The case affixes of the Instrumental and of the cases that follow it have the acute accent, if the stem in the Locative Plural is monosyllabic. The word सो (locative of सु) refers to the सु of the Locative plural. Thus वा॒चा, वा॒ग्भ्या꣡म्, वा॒ग्भिः꣡, वा॒ग्भ्यः꣡, या॒ता꣡, या॒द्भ्या꣡म्, या॒द्भिः꣡ ॥ Why do we say ‘in the Locative plural’? Observe रा꣡ज्ञा, रा꣡ज्ञे ॥ Why do we say ‘monosyllabic’? Observe हरि꣡णा, गिरिणा꣡, रा꣡जसु ॥ Why do we say ‘the Instrumentals and the rest’? Observe वा꣡चौ, वा꣡चः ॥ Why do we say “the case-endings (विभक्तिः)?” Observe वाक्तरा, वा꣡क्तमा ॥ The plural of the Locative being taken in the sutra, the rule does not apply to त्व꣡या and त्व꣡यि, as in the plural of the Locative they have more than one syllable, though in singular locative their stem has one syllable.
Bhashya¶
सावेकाचस्तृतीयादिर्विभक्तिः (2605) (सुपदार्थनिर्णायकभाष्यम्) साविति किमिदं प्रथमैकवचनस्य ग्रहणम्, आहोस्वित्सप्तमीबहुवचनस्य ? कुतः सन्देहः ? समानो निर्देशः । सप्तमीबहुवचनस्य ग्रहणम् । कथं ज्ञायते ? यदयं न गोश्वन्साववर्ण - (6.1.182) इति गोशुनोः प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकम् ? यदि प्रथमैकवचनस्य ग्रहणं स्यात् गोशुनोः प्रतिषेधवचनमनर्थकं स्यात् । ननु चार्थसिद्धिरेवैषा । अनुगृहीताः स्मः । यैरस्माभिः प्रथमैकवचनमास्थाय गोशुनोः प्रतिषेधो वक्तव्यः इति स न वक्तव्यो भवति । भवेत्प्रतिषेधो न वक्तव्यः । दोषास्तु भवन्ति । तत्र को दोषः ? स्विना, खिना । अन्तोदात्तत्वन्न प्राप्नोति । स्विखिनौ न स्तः । उक्तमेतत् - एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ ॥ स्ववान् खवान् इत्येव भवितव्यम् ॥ इह तर्हि - याद्भ्याम् - यादि्भः - इति न सिध्यति । तस्मात्सप्तमीबहुवचनस्य ग्रहणम् ॥ (6288 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 1 ॥) - सावेकाच उदात्तत्वे त्वन्मदोः प्रतिषेधः - सावेकाच उदात्तत्वे त्वन्मदोः प्रतिषेधो वक्तव्यः । त्वया, मया ॥ (6289 उपसंख्यानाक्षेपवार्तिकम् ॥ 2 ॥) - सिद्धं तु यस्मात्तृतीयादिस्तस्याभावात्सौ - सिद्धमेतत् । कथम् ? यस्मादत्र तृतीयादिर्न तत्सावस्ति ॥ यद्यपि तत् सौ नास्ति, प्रकृतिस्तस्य सावस्ति ॥ (6290 आक्षेपसाधकवार्तिकम् ॥ 3 ॥) - प्रकृतेस्त्वनेकाच्त्वात् - यद्यपि तस्य प्रकृतिरस्ति सावनेकाच्तु सा भवति ॥
Kashika¶
साविति सप्तमीबहुवचनस्य सुशब्दस्य ग्रहणम्। तत्र सौ य एकाच् तस्मात् परा तृतीयादिर्विभक्तिरुदात्ता भवति। वा॒चा, वा॒ग्भ्याम् वा॒ग्भिः। वा॒ग्भ्यः। या॒ता, या॒द्भ्याम्, या॒द्भिः। साविति किम्? राज्ञा॑। राज्ञे॑। एकाच इति किम् ? हरि॑णा। गि॒रिणा॑। राज॑सु। तृतीयादिरिति किम् ? वाचा॑ै। वाचः॑। विभक्तिरिति किम् ? वाक्त॑रा। वाक्त॑मा। सप्तमीबहुवचनस्य ग्रहणादिह न भवति — त्वया॑, त्वयि॑ इति॥
Siddhanta Kaumudi¶
साविति सप्तमीबहुवचनम् । तत्र य एकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता । वाचा विरूपः (वा॒चा वि॑रूपः) । सौ किम् । राज्ञेत्यादौ एकाचोऽपि राजशब्दात्परस्य माभूत् । राज्ञो नु ते (राज्ञो॒ नु ते॑) । एकाचः किम् । विधते राजनि त्वे (विध॒ते राज॑नि॒ त्वे) । तृतीयादिः किम् । न ददर्श वाचम् (न द॑दर्श॒ वाच॑म्) ॥
Padamanjari¶
साविति सप्तमीबहुवचनस्य सुशब्दस्य गुहणमिति। न प्रथमैकवचनस्य; व्याख्यानात्। प्रयोजनं तूतरत्र वक्ष्यति। पातेति। पातेर्लटः शत्रादेशः। राज्ञेति।’सौ’ इत्येत्स्मिन्नसत्येकाचः परा तृतीयादिविभक्तिरुदाता भवतीत्यर्थो भवति, भवति चायमल्लोपे कृते एकाच्। ननु च विहितविशेषणं विज्ञास्यते-एकाचो या विहिता तृतीयादिरिति ? न; प्रमाणाभावात्। सप्तमीबहुवचनस्य ग्रहणादिति। प्रथमैकवचने तु’त्वाहौ सौ’ इति त्वादेशे कृते युष्मच्छब्द एकाच् भवति, शेषे लोपे कृतेऽकारान्तत्वात्’साववर्ण’ इति प्रतिषेधो भविष्यति। तदिह प्रथमैकवचनाग्रहणे को हेतुरिति चिन्त्यम् ॥
Nyaas¶
साविति प्रथमैकवचनस्येदं ग्रहणं स्यात्? सप्तमीबहुवचनस्य वा? उभयोर्वा? तत्र यदि प्रथमैकवचनस्य ग्रहणं स्यात्, त्वाया त्वयि इत्यत्रापि स्यात्। भवति हि युष्मच्छब्दसय त्वाहौ सौ (7.2.94) इति त्वादेशे कृते प्रथमैकवचने परत एकाच्त्वम्। सामान्येनोभयग्रहणेऽप्येष दोषः। सप्तमीबहुवचनस्य ग्रहणे नायं दोषः प्रसज्येत्, युष्मास्वित्यत्र युष्मच्छब्दस्यानेकाच्त्वमित्येतत्? सर्वं ह्मदि कृत्वाऽऽह -साविति सप्तमीबहुवचनस्य ग्रहणम् इति। याद्भ्याम् इति। याच्छब्दाच्छत्रन्तात्? तृतीया। राज्ञे इति। भवति राजञ्शब्दो भसंज्ञके परतो लोपे कृत एकाच्, न तुल सौ राजस्विति; तत्रानेकाच्त्वात्? वाक्तरा, वाक्तमा इति। तरप्तमबिति भवति वा तृतीयादिः, न तु विभक्तिः। अथ कस्मात्? सप्तमीबहुवचनग्रहणम्? इत्याह -सप्तमीबहुवचनस्य इत्यादि। त्वया त्वयि इति। युष्मदस्मदोः मपर्यन्तस्य (7.2.91) त्वमावेकवचने (7.2.97) इति त्वादेशः। परिशिष्टस्य योऽचि (7.2.89) इति यकारः॥
Prakriyasarvasvam¶
सप्तमी बहुवचन एकाचः शब्दस्य तृतीयादि सुबुदात्तः स्यात् । वाचा विरूपा इषे त्वा । अद्भ्यस्त्वा । साविति सप्तमीबहुवचनोक्तेः त्वा वयं प्रवतः इति त्वयेत्यत्रोदात्तत्वं नेति वृत्तिः । प्रथमैकवचनग्रहेऽपि त्वादेशे शेषे लोपे च । (तुरेदन्तत्वात् ? अकारान्तत्वात्) ‘नगोश्वन्साववर्ण—’ (६-१-१८२) इति निषेधो वक्ष्यत इति प्रथमैकवचनग्रहेऽपि को दोष इति चिन्त्यमिति हरः ॥