61164: तद्धितस्य

Padacheda: तद्धितस्य | S | 6 | 1 |

Sutrartha

यः तद्धित-प्रत्ययः चित्-अस्ति, सः यस्य समुदायस्य अन्ते आगच्छति, तस्य समुदायस्य अन्तिम-स्वरः उदात्तः भवति ।

यस्मिन् तद्धितप्रत्यये चकारः इत्संज्ञकः अस्ति, सः प्रत्ययः ‘चित्’ प्रत्ययः अस्ति इत्युच्यते । एतादृशः चित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य अन्तिम-स्वरः उदात्तसंज्ञकः भवति । यथा - मञ्जु + लच् → म॒ञ्जु॒ल । अत्र समुदायस्य अन्तिमस्वरः उदात्तसंज्ञकः भवति । अन्ये स्वराः अनुदात्तं पदमेकवर्जम् (6.1.158) इत्यनेन अनुदात्ताः भवन्ति । ज्ञातव्यम् - वस्तुतः चितः (6.1.163) अनेन पूर्वसूत्रेणैव एतत् अन्तोदात्तत्वं सिद्ध्यति । परन्तु, प्रत्यये यदि ञकारः अपि इत्संज्ञकः अस्ति, तर्हि पूर्वसूत्रस्य अपवादत्वेन ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन समुदायस्य आद्युदात्तत्वं भवति, न हि अन्तोदात्तत्वम् । अतः ञ्नित्यादिर्नित्यम् (6.1.197) एतं बाधयितुम् वर्तमानसूत्रस्य निर्मितिः कृता अस्ति । यदि कस्मिंश्चित् तद्धितप्रत्यये ञकारः चकारः - द्वावपि इत्संज्ञकौ स्तः, तर्हि ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन समुदायस्य आद्युदात्तत्वे प्राप्ते, तं बाधित्वा वर्तमानसूत्रेण समुदायस्य अन्तोदात्तत्वं एव जायते । यथा - गोत्रे कुञ्जादिभ्यः च्फञ् (4.1.98) इत्यनेन ‘कुञ्ज’ शब्दात् च्फञ्-प्रत्ययः भवति । ‘कुञ्ज + च्फञ् (+ बहुवचनस्य जस् प्रत्ययः) → कौञ्जायनाः ‘ इति सिद्धे अत्र ‘कौञ्जायनाः’ पदस्य - 1) चितः (6.1.163) इत्यनेन अन्तोदात्तत्वे प्राप्ते, तं बाधित्वा - 2) ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन आद्युदात्तत्वे प्राप्ते, तमपि बाधित्वा - 3) तद्धितस्य (6.1.164) इत्यनेन पुनः अन्तोदात्तत्वं विधीयते । अतः ‘कौञ्जायनाः’ अयं शब्दः स्वरैः सह लिखामश्चेत् - ‘कौ॒ञ्जा॒य॒नाः’ एतादृशं लिख्यते । अत्र अन्तिमः स्वरः उदात्तः अस्ति, तथा अन्ये स्वराः अनुदात्तं पदमेकवर्जम् (6.1.158) इत्यनेन अनुदात्ताः भवन्ति । (‘कुञ्ज + च्फञ्’ इत्यत्र प्रातिपदिकनिर्माणे तथा एकवचन-द्विवचनस्य रूपयोः ‘ञ्य’ इति कश्चन अन्यः प्रत्ययः अपि स्वार्थे आगच्छति, तत्र च स्वरनिर्णयः भिन्नरूपेण क्रियते, अतः अत्र बहुवचनस्य उदाहरणम् दत्तमस्ति ।)

Sutrartha (English)

The word ending in a तद्धितसंज्ञक चित्-प्रत्यय become अन्तोदात्त.

Vasu English Summary

A stem formed with a तद्धित-affix having an indicatory च् , has acute on the end syllable.

Vasu English Translation

A stem formed with a तद्धित-affix having an indicatory च् , has acute on the end syllable. Thus काञ्जायनाः꣡ formed by the affix च्फञ् (4.1.98). कुञ्ज + च् फञ् + ञ्य = कौ꣡ञ्जायन्यः dual कौ꣡ञ्जायन्यौ, plural कौञ्जायनाः꣡ (ञ्य being elided by (2.4.62), and thus giving scope to च्फञ् accent). In this affix there are two indicatory letters च and ञ; the च has only one function, namely, regulating the accent according to this rule, while ञ has two functions, one to regulate accent by (6.1.197), and another to cause Vriddhi by (7.2.117). Now arises the question, should the word get the accent च or of ञ ॥ The present rule declares that it should get the accent of च and not of ञ, for the latter finds still a function left to it, while if ञ was to regulate the accent, च would have no scope.

Kashika

चित इत्येव। चितस्तद्धितस्यान्त उदात्तो भवति। गोत्रे कुञ्जादिभ्यश्च्फञ् (४.१.९८) — कौ॒ञ्जा॒यनाः। भा॒ैञ्जा॒य॒नाः। किमर्थमिदम् ? परमपि ञित्स्वरं बाधित्वान्तो दात्तत्वमेव यथा स्यादिति॥

Siddhanta Kaumudi

चितस्तद्धितस्यान्त उदात्तः । पूर्वेण सिद्धे ञित्स्वरबाधनार्थमिदम् । कौञ्जायनाः ॥

Padamanjari

कौञ्जायना इति। कुञ्जस्यापत्यानि बहुनि,’गोत्रे कुञ्जादिभ्यश्च्फञ्’ ,’व्रातच्फञोरस्त्रियाम्’ इति ञ्यः,’ञ्कयादयस्तद्राजाः’ ,’तद्राजस्यबहुष्’ लुक्। किमर्थंमिति। पूर्वेण सिद्धमिति प्रश्नः। परमपीति। चकारः’ब्रातच्फञोरस्त्रियाम्’ इत्यत्र विशेषणेन चरितार्थः। ञकारोऽपि वृद्ध्यर्थः, तत्रासत्यस्मिन्परत्वाद् ञित्स्वरः ॥

Nyaas

कौञ्जायनाः इति। कुञ्जादिभ्यश्च्फञ् (4.1.98) इति च्फञन्तात्? व्रातच्फञोरस्त्रियाम् (5.3.113) इत्यागतस्य अप्रत्ययस्य तद्राजस्य बहुषु (2.4.62) इत्यादिना लुक्। किमर्थम् इति। पुर्वेणैव सिद्धमिति मन्यमानस्य प्रश्नः। परमपि इत्यादि। च्फञो हि चकारः व्रातच्फञोरस्त्रियाम् (5.3.113) इत्यत्र विशेषणेन चरितार्थः। ञकारोऽपि वृद्धौ। यद्येवं नोच्येत तदा परत्वान्ञित्स्वरः स्यात्। तस्मात्तमपि बाधित्वान्तोदात्तत्वमेव यथा स्यादित्येवमर्थं क्रियते॥

Prakriyasarvasvam

चितस्तद्धितस्यान्त उदात्तः स्यात् । कौञ्जायनाः* । ष्कञि चित्त्वादेव सिद्धे परमपि ञित्स्वरं बाधितुमुक्तिः ।