61162: धातोः¶
Padacheda: धातोः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
A root has the acute on the end syllable.
Vasu English Translation¶
A root has the acute on the end syllable. The word अन्त is understood here. Thus प꣡चति, प꣡ठति, ऊर्णो꣡ति, गोपाय꣡ति, या꣡ति ॥
Bhashya¶
धातोः - (2599) (वार्तिकावतरणभाष्यम्) किं धातोरन्त उदात्तो भवति, आहोस्विदादिरिति ? कश्चात्र विशेषः ? (6278 अन्तोदात्तत्वे दोषवार्तिकम् ॥ 1 ॥) - धातोरन्त इति चेदनुदात्तेचबग्रहणम् - धातोरन्त इति चेदनुदात्तेचबग्रहणं कर्तव्यम् । अभ्यस्तानामादिः अनुदात्ते च (6-1-189;190) इति वक्तव्यम् । बग्रहणं च कर्तव्यम् । बान्तश्च पिबतिराद्युदात्तो भवतीति वक्तव्यम् ॥ (6279 अन्तोदात्तत्वे दोषवार्तिकम् ॥ 2 ॥) - संश्च नित् - संश्च नित्कर्तव्यः । किं प्रयोजनम् ? चिकीर्षति, जिहीर्षति - नितीत्याद्युदात्तत्वं यथा स्यात् ॥ अस्तु तर्ह्यादिः । (6280 आद्युदात्तत्वे दोषवार्तिकम् ॥ 3 ॥) - आदावूर्णुप्रत्ययधातुष्वन्तोदात्तत्वम् - आदावूर्णुप्रत्ययधातुष्वन्तोदात्तत्वं न सिध्यति ।ऊर्णोति ।ऊर्णु ॥ प्रत्ययधातु - गोपायति, धूपायति, ऋतीयते ॥ (6281 सिद्धान्तवार्तिकम् ॥ 4 ॥) - अन्तोदात्तवचनात्सिद्धम् - अस्तु तर्ह्यन्तोदात्तो भवतीति ॥ ननु चोक्तम् - धातोरन्त इति चेदनुदात्तेचबग्रहणं कर्तव्यमिति । यत्तावदुच्यते - अनुदात्ते च ग्रहणं कर्तव्यमिति । क्रियते न्यास एव - अभ्यस्तानामादिः, अनुदात्ते चेति ॥ बग्रहणं कर्तव्यमिति । (6282 सिद्धान्तसाधकवार्तिकम् ॥ 5 ॥) - पिबौ निपातनात् - पिबावाद्युदात्तनिपातनं क्रियते, स निपातनस्वरः प्रकृतिस्वरस्य बाधको भविष्यति ॥ संश्च नित्कर्तव्य इति । अवश्यं सनो विशेषणार्थो नकारः कर्तव्यः । क्व विशेषणार्थेनार्थः ? सन्यङोः (6.1.9) इति । सयङोरितीयत्युच्यमाने - हंसः, वत्सः - अत्रापि प्राप्नोति । अर्थवद्ग्रहणेनानर्थकस्य इत्येवं न भविष्यति । इहापि तर्हि न प्राप्नोति - जुगुप्सते, मीमांसत इति । अर्थवानेषः । न वै कश्चिदर्थ आदिश्यते । यद्यपि कश्चिदर्थो नादिश्यते, अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति - इति - अन्ततः स्वार्थे भविष्यति । कश्चास्य स्वार्थः ? प्रकृत्यर्थः । इहापि तर्हि प्राप्नोति - हंसः, वत्सः - इति । उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ॥ स एषोऽनन्यार्थो नकारः कर्तव्यः । न कर्तव्यः । क्रियते न्यास एव ॥ अथवा धातोरिति वर्तते । धातोः सशब्दान्तस्य द्वे भवतीति ॥
Kashika¶
अन्त इत्येव । धातोरन्त उदात्तो भवति। पच॑ति। पठ॑ति। ऊ॒र्णोति॑। गो॒पा॒यति॑ । याति॑॥
Siddhanta Kaumudi¶
अन्त उदात्तः स्यात् । गोपायतं नः (गो॒पा॒यतं॑ नः) । असि सत्यः (असि॑ स॒त्यः) ॥
Nyaas¶
ऊर्णोति इति। अदादित्वाच्छपो लुक्॥
Prakriyasarvasvam¶
धातोरन्त उदात्तः स्यात् । कृ तव्य । स्वरविधौ व्यञ्जनम् (परि.) इति रेफस्यासिद्धत्वाद् गुणे कृतेऽपि स्थानिवत्त्वेनाकारस्यैवोदात्तत्वात् कर् त्तव्यः ।