61146: आस्पदं प्रतिष्ठायाम्¶
Padacheda: आस्पदम् | S | 1 | 1 |
प्रतिष्ठायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The word आस्पद is formed by सुट् when meaning ‘a place or position’.
Vasu English Translation¶
The word आस्पद is formed by सुट् when meaning ‘a place or position’. The word प्रतिष्ठा means ‘firm place, established position, rank, dignity, authority’. Thus आस्पदम् अनेन लब्धम् ॥ Why do we say when ‘meaning a place’? Observe आ पदात् = आपदम् ॥
Kashika¶
आत्मयापनाय स्थानं प्रतिष्ठा, तस्यामास्पदमिति सुट् निपात्यते। आस्पदमनेन लब्धम्। प्रतिष्ठायामिति किम् ? आ पदात् आपदम्॥
Siddhanta Kaumudi¶
आत्मयापनाय स्थाने सुट् निपात्यते । आस्पदम् । प्रेति किम् । आपदापदम् ॥
Balamanorama¶
आस्पदं प्रतिष्ठायाम् - आस्पदं प्रतिष्ठायाम् । आत्मेति । आत्मयापनं=शरीरसंरक्षणं, तदर्थं यत् स्थानं तस्मिन् गम्ये सुडित्यर्थः । आपदादापदमिति । आ पदादिति विग्रहे अव्ययीभावे आपदमिति भावतीत्यर्थः ।आपदापद॑मिति पाठे तु-आपदमित्यस्य आपदित्यर्थ इत्यर्थः ।
Padamanjari¶
आत्मयापनायेति। प्राणधारणमुआत्मयापनम्, तदर्थ यत्स्थानम्, सा प्रतिष्ठा। आस्पदमिति। आङ्पूर्वात्पदेः पूर्ववदधिकरणे घः, लोकाश्रयत्वादस्मादेव निपातनाद्वा नपुंसकलिङ्गता, आपदमित्यव्ययीभावसमासः ॥
Nyaas¶
आत्मयापनाय इति। आत्मयापनम्=प्राणधारणम्। तदर्थं यत्? स्थापनं तत्? प्रतिष्ठेत्युच्यते। आसपदम् इति। आङः परस्य पदस्य सुट्? निपात्यते। आपदम् इति। आङ् मर्यादावचने (1.4.89) इत्याङः कर्मप्रवचनीयत्वम्, तद्योगे पञ्चम्यपाङ्? परिभिः (2.3.10) इति पञ्चमी, तदन्तेन आङ् मर्यादाभिविध्योः (2.1.13) इत्यव्ययीभावसमासः॥
Prakriyasarvasvam¶
प्रतिष्ठा स्थानम् ।
Sutra Prayogas¶
तदास्पदम् (रघुवंशम्): आस्पदं प्रतिष्ठायाम् इति निपातः।
ध्यानास्पदम् (कुमारसम्भवम्): आस्पदं प्रतिष्ठायम् इति निपातः ।
निरास्पदम् (किरातार्जुनीयम्): आस्पदं प्रतिष्ठायाम् इति निपातः।
तदास्पदम् (किरातार्जुनीयम्): आस्पदं प्रतिष्ठायाम् इति निपातः।
कृतास्पदाः (किरातार्जुनीयम्): आस्पदं प्रतिष्ठायाम् इति निपातः।
कृतास्पदा (शिशुपालवधम्): आस्पदं प्रतिष्ठायाम् इति निपातः।
आस्पदम् (भट्टिकाव्यम्): आस्पदं प्रतिष्ठायाम् इति निपातनम्।